द्रोणपर्व श्रीः अध्यायः 001

धृतराष्ट्रेण सञ्जयम् प्रति भीष्मपातानन्तरीयकदुर्योधनादिवृत्तान्तप्रश्नः ॥ 1 ॥ सञ्जयेन योधानां शरणत्वेन कर्णाह्वाने कथिते धृतराष्ट्रस्य कर्णवृत्तान्तप्रश्नः ॥ 2 ॥ श्रीवेदव्यासाय नमः । नारायणं नमस्कृत्य नरं चैव नरोत्तमम् । 001
देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत् ॥ 001
जनमेजय उवाच 001
तमप्रतिमसत्वौजोबलवीर्यपराक्रमम् । 001a
हतं देवव्रतं श्रुत्वा पाञ्चाल्येन शिखण्डिना ॥ 001c
धृतराष्ट्रस्ततो राजा शोकव्याकूललोचनः । 002a
किमचेष्टत विप्रर्षे हते पितरि वीर्यवान् ॥ 002c
तस्य पुत्रो हि भगवान्भीष्भद्रोणमुखै रथैः । 003a
पराजित्य महेष्वासान्पाण्डवान्राज्यमिच्छति ॥ 003c
तस्मिन्हते तु भगवन्केतौ सर्वधनुष्मताम् । 004a
यदचेष्टत कौरवस्तन्मे ब्रूहि तपोधन ॥ 004c
वैशम्पायन उवाच 005
निहतं पितरं श्रुत्वा धृतराष्ट्रो जनाधिपः । 005a
लेभे न शान्तिं कौरव्यश्चिन्ताशोकपरायणः ॥ 005c
तस्य चिन्तयतो दुःखमनिशं पार्थिवस्य तत् । 006a
आजगाम विशुद्धात्मा पुनर्गावल्गणिस्तदा ॥ 006c
'व्यासप्रसादाद्विज्ञाय सर्वं वृत्तान्तमुत्तमम् । 007a
सैनिकानां च सर्वेषां सेनयोरुभयोस्तदा' ॥ 007c
शिबिरात्सञ्जयं प्राप्तं निशि नागाह्वयं पुरम् । 008a
आम्बिकेयो माहारज धृतराष्ट्रोऽन्वपृच्छत ॥ 008c
श्रुत्वा भीष्मस्य निधनमप्रहृष्टमना भृशम् । 009a
पुत्राणां जयमाकाङ्क्षन्विललापातुरो यथा ॥ 009c
धृतराष्ट्र उवाच 010
संशोच्य तु महात्मानं भीष्मं भीमपराक्रमम् । 010a
किमकार्षुःपरं तात कुरवः कालचोदिताः ॥ 010c
तस्मिन्विनिहते शूरे दुराधर्षे महात्मनि । 011a
किं नु स्वित्कुरवोऽकार्षुर्निमग्नाः शोकसागरे ॥ 011c
तदुदीर्णं महत्सैन्यं त्रैलोक्यस्यापि सञ्जय । 012a
भयमुत्पादयेत्तीव्रं पाण्डवानां महात्मनाम् ॥ 012c
को हि दौर्योधने सैन्ये पुमानासीन्महारथः । 013a
यं प्राप्य समरे वीरा न त्रस्यन्ति महाभये ॥ 013c
देवव्रते तु निहते कुरूणामृषभे तदा । 014a
किमकार्षुर्नृपतयस्तन्ममाचक्ष्व सञ्जय ॥ 014c
सञ्जय उवाच 015
शृणु राजन्नेकमना वचनं ब्रुवतो मम । 015a
यत्ते पुत्रास्तदाकार्षुर्हते देवव्रते मृधे ॥ 015c
निहते तु तदा भीष्मे राजन्सत्यपराक्रमे । 016a
तावकाः पाण्डवेयाश्च प्राध्यायन्त पृथक्पृथक् ॥ 016c
विस्मिताश्च प्रहृष्टाश्च क्षत्रधर्मं निशाम्य ते । 017a
स्वधर्मं निन्दमानास्ते प्रणिपत्य महात्मने ॥ 017c
शयनं कल्पयामासुर्भीष्मायामितकर्मणे । 018a
सोपधानं नरव्याघ्र शरैः सन्नतपर्वभिः ॥ 018c
विधाय रक्षां भीष्माय समाभाष्य परस्परम् । 019a
अनुमान्य च गाङ्गेयं कृत्वा चापि प्रदक्षिणम् ॥ 019c
क्रोधसंरक्तनयनाः समवेत्य परस्परम् । 020a
पुनर्युद्धाय निर्जग्मुः क्षत्रियाः कालचोदिताः ॥ 020c
ततस्तूर्यनिनादैश्च भेरीणां निनदेन च । 021a
तावकानामनीकानि परेषां च विनिर्ययुः ॥ 021c
व्यावृत्तेऽर्यम्णि राजेन्द्र पतिते जाह्नवीसुते । 022a
अमर्षवशमापन्नाः कालोपहतचेतसः ॥ 022c
अनादृत्य वचः पथ्यं गाङ्गेयस्य महात्मनः । 023a
निर्ययुर्भरतश्रेष्टाः शस्त्राण्यादाय सत्वराः ॥ 023c
मोहात्तव सपुत्रस्य वधाच्छान्तनवस्य च । 024a
कौरवा मृत्युनाऽऽहूताः सहिताः सर्वराजभिः ॥ 024c
अजावय इवागोपा वने श्वापदसङ्कुले । 025a
'कर्णकर्णेति चाक्रन्दञ्छेषा भारत पार्थिवाः' । 025c
भृशमुद्विग्नमनसो हीना देवव्रतेन ते ॥ 025e
पतिते भरतश्रेष्ठे बभूव कुरुवाहिनी । 026a
द्यौरिवापेतनक्षत्रा हीनं खमिव वायुना ॥ 026c
विपन्नसस्येव मही वाक्चैवासंस्कृता यथा । 027a
आसुरीव यथा सेना निगृहीते नृपे बलौ ॥ 027c
विधवेव वरारोहा शुष्कतोयेव निम्नगा । 028a
वृकैरिव वने रुद्धा पृषती हतयूथपा ॥ 028c
शरभाऽऽहतसिंहेव महती गिरिकन्दरा । 029a
सा सेना भरतश्रेष्ठे पतिते जाह्नवीसुते ॥ 029c
विष्वग्वाताहतिक्षुब्धा नौरिवासीन्महार्णवे । 030a
बलिभिः पाण्डवैर्वीरैर्लब्धलक्षैर्भृशार्दिता ॥ 030c
सा तदासीद्भृशं सेना व्याकुलाश्वरथद्विपा । 031a
विपन्नभूयिष्ठनरा कृपणा ध्वस्तमानसा ॥ 031c
तस्यां त्रस्ता नृपतयः सैनिकाश्च पृथग्विधाः । 032a
पाताल इव मज्जन्तो हीना देवव्रतेन ते ॥ 032c
कर्णस्य कुरवोऽस्मार्षुः स हि देवव्रतोपमः । 033a
सर्वशस्त्रभृतां श्रेष्ठं रोचमानमिवातिथिम् ॥ 033c
बन्धुमापद्गतस्येव तमेवोपागमन्मनः । 034a
चुक्रुशुः कर्णकर्णेति तत्र भारत पार्थिवाः ॥ 034c
राधेयं हितमस्माकं सूतपुत्रं तनुत्यजम् । 035a
स हि नायुध्यत तदा दशाहानि महायशाः ॥ 035c
सामात्यबन्धुः कर्णो वै तमानयत माचिरम् । 036a
भीष्णेण हि महाबाहुः सर्वक्षत्रस्य पश्यतः ॥ 036c
रथेषु गण्यमानेषु बलविक्रमशालिषु । 037a
सङ्ख्यातोऽर्धरथः कर्णो द्विगुणः सन्नरर्षभः ॥ 037c
रथातिरक्षसङ्ख्यायां योऽग्रणीः शूरसम्मतः । 038a
सासुरानपि देवेशान्रणे यो योद्धुमुत्सहेत् ॥ 038c
स तु तेनैव कोपेन राजन्गाङ्गेयमुक्तवान् । 039a
त्वयि जीवति कौरव्य नाहं योत्स्ये कदाचन ॥ 039c
त्वया तु पाण्डवेयेषु निहतेषु महामृधे । 040a
दुर्योधनमनुज्ञाप्य वनं यास्यामि कौरव ॥ 040c
हते वा त्वयि पार्थैस्तु युधि स्वर्गमुपेयुषि । 041a
हन्तास्म्येकरथेनैव कृत्स्नान्यान्मन्यसे रथान् ॥ 041c
एवमुक्त्वा महाबाहुर्दशाहान्येक एव सः । 042a
नायुध्यत ततः कर्णः पुत्रस्य तव सम्मते ॥ 042c
भीष्मः समरविक्रान्तः पाण्डवेयस्य भारत । 043a
जघान समरे योधानसङ्ख्येयपराक्रमः ॥ 043c
तस्मिंस्तु निहते शूरे सत्यसन्धे महौजसि । 044a
त्वत्सुताः वर्णमस्मार्षुस्तर्तुकामा इव प्लवम् ॥ 044c
तावकास्तव पुत्राश्च सहिताः सर्वराजभिः । 045a
हा कर्ण इति चाक्रन्दन्कालोऽयमिति चाब्रुवन् ॥ 045c
एवं ते स्म हि राधेयं सूतपुत्रं तनुत्यजम् । 046a
चुक्रुशुः सहिता योधास्तत्रत्र महाबलाः ॥ 046c
जामदग्न्याभ्यनुज्ञातमस्त्रे दुर्वारपौरुषम् । 047a
अगमन्नो मनः कर्णं बन्धुमात्ययिकेष्विव ॥ 047c
स हि शक्तो रणे राजञ्स्त्रातुमस्मान्महाभयात् । 048a
त्रिदशानिव गोविन्दः सततं सुमहाभयात् ॥ 048c
वैशम्पायन उवाच 049
तथा तु सञ्जयं कर्णं कीर्तयन्तं पुनः पुनः । 049a
आशीविषवदुच्छ्वस्य धृतराष्ट्रोऽब्रवीदिदम् ॥ 049c
धृतराष्ट्र उवाच 050
यत्तद्वैकर्तनं कर्णमगमद्वो मनस्तदा । 050a
अप्यरक्षत्स राधेयः सूतपुत्रस्तनुत्यजः ॥ 050c
अपि तन्न मृषाकार्षीत्कच्चित्सत्यपराक्रमः । 051a
सम्भ्रान्तानां तदार्तानां त्रस्तानां त्राणमिच्छताम् ॥ 051c
अपि तत्पूरयाञ्चक्रे धनुर्धरवरो युधि । 052a
यत्तद्विनिहते भीष्मे कौरवाणामपाकृतम् ॥ 052c
तत्खण्डं पूरयन्कर्णः परेषामादधद्भयम् । 053a
स हि वै पुरुषव्याघ्रो लोके सञ्जय कथ्यते ॥ 053c
आर्तानां बान्धवानां च क्रन्दतां च विशेषतः । 054a
परित्यज्य रणे प्राणांस्तत्त्राणार्थं च शर्म च । 054c
कृतवान्मम पुत्राणां जयाशां सफलामपि ॥ 054e

इति श्रीमन्महाभारते द्रोणपर्वणि द्रोणाभिषेकपर्वणि प्रथमोऽध्यायः ॥ 1 ॥

5-1-1 सत्यं धैर्यम् महत्यपि दुःखकारणे वैकल्यराहित्यम् । ओजो मानसं बलम् ।बलं शरीरदार्ढ्यम् । वीर्यमुत्साहादिहेतुः। पराक्रमः पराभिभवसामर्थ्यम् ॥1॥चिन्ता ध्येयविषये मनोवृत्तिप्रवाहः ॥5॥दुःखं दुःखहेतुम् ॥6॥शिबिरात्तद्वतः कुरुक्षेत्रात् ॥7॥ प्राध्यायन्त पृथक्पृथक् ।एके पराजयं प्राप्ताः स्म इति अन्ये जयं प्राप्ताः स्म इति च ध्यानं कृतवन्तः ॥16॥अर्यम्णि सूर्ये व्यावृत्ते अपराह्णावलम्बिनि ॥22॥ मोहाज्जयाशारूपात् ॥24॥पृषती चित्रमृगी ॥28॥ विष्वग्वातोऽनेकदिग्वातः॥तस्यां सेनायाम् ॥32॥रोचमानं विद्यातपोभ्यामिति शेषः॥33॥आक्रन्दन्नाहूतवन्तः ।कालोऽयं त्वत्पराक्रमस्येति शेषः॥45॥जामदग्न्येन अभ्यनुज्ञातं शिक्षितम् ।नः अस्मत्सम्बन्धिनाम्॥47॥तत् अस्मदीयानां चिन्तितम्॥51॥भीष्मे विनिहते सति तत् तदा यदपाकृतं न्यूनं तत्पूरयाञ्चक्रे अपीत्यन्वयः॥52॥खण्डं रिक्तम्॥53॥प्रथमोऽध्यायः ॥