अध्यायः 122

अपगतेषु राजसु कर्णेन रसहि भीष्ममेत्य तदभिवादनम् ॥ 1 ॥ भीष्मेण कर्णं प्रति तस्य कुन्तीसुतत्वोक्त्या पाण्डवैः सह सङ्गमचोदना ॥ 2 ॥ कर्णेन सयुक्तिकं पाण्डवैः सङ्गमस्य दुष्करत्वमभिधाय भीष्मक्षमापनपूर्वकं स्वावासगमनम् ॥ 3 ॥ सञ्जय उवाच । ततस्ते पार्थिवाः सर्वे जग्मुः स्वानालयान्पुनः । तूष्णीम्भूते महाराज भीष्मे शन्तनुनन्दने ॥ श्रुत्वा तु निहतं भीष्मं राधेयः पुरुषर्षभः । ईषदागतसन्त्रासस्त्वरयोपजगाम ह ॥ स ददर्श महात्मानं शरतल्पगतं तदा । जन्मशय्यागतं वीरं कार्तिकेयमिव प्रभुम् ॥ निमीलिताक्षं तं वीरं साश्रुकण्ठस्तदा वृषा । अभ्येत्य पादयोस्तस्य निपपात महाद्युतिः ॥ राधेयोऽहं कुरुश्रेष्ठ नित्यमक्षिगतस्तव । द्वेभ्योऽत्यन्तमनागाः सन्निति चैनमुवाच ह ॥ तच्छ्रुत्वा कुरुवृद्धो हि शरैः संवृतलोचनः । रहितं धिष्ण्यमालोक्य समुत्सार्य च रक्षिणः ॥ पितेव पुत्रं गाङ्गेयः परिरभ्यैकपाणिना । शनैरुद्वीक्ष्य सस्नेहमिदं वचनमब्रवीत् ॥ न विप्रियं ममैवेह यत्स्पर्धेथा मया सह । यदि मां नाधिगच्छेथा न ते श्रेयो ध्रुवं भवेत् ॥ कौन्तेयस्त्वं न राधेयो न तवाधिरथः पिता । सूर्यजस्त्वं महाबाहो विदितो नारदान्मया ॥ कृष्णद्वैपायनाच्चैव तेजसा च न संशयः । न च द्वेषोस्ति मे तात त्वयि सत्यं ब्रवीमि ते ॥ तेजोवधनिमित्तं तु परुषं त्वाहमब्रुवम् । अकस्मात्पाण्डवान्हि त्वं द्विषसीति मतिर्मम ॥ येनासि बहुशो राज्ञा चोदितः सूतनन्दन । जातोऽसि धर्मलोपेन ततस्ते बुद्धिरीदृशी ॥ नीचाश्रयान्मत्सरेण द्वेषिणी गुमिनामपि । तेनासि बहुशो रूक्षं श्रावितः कुरुसंसदि ॥ जानामि समरे वीर्यं शत्रुभिर्दुःसहं भुवि । ब्रह्मण्यतां च शौर्यं च दाने च परमां स्थितिम् ॥ न त्वया सदृशः कश्चित्पुरुषेष्वमरोपम । कुलभेदभयाच्चाहं सदा परुषमुक्तवान् ॥ इष्वस्त्रे भारसन्धाने लाघवेऽस्त्रबले तथा । सदृशः फल्गुनेनासि कृष्णेन च महात्मना ॥ कर्ण काशिपुरं गत्वा त्वयैकेन धनुष्मता । कन्यार्थे कुरुराजस्य राजानो मृदिता युधि ॥ तथा च बलवान्राजा जरासन्धो दुरासदः । समरे समरश्लाघिन्न त्वया सदृशोऽभवत् ॥ ब्रह्मण्यः सत्त्वयोधी च तेजसा च बलेन च । देवगर्भसमः सङ्ख्ये मनुष्यैरधिको युधि ॥ व्यपनीतोऽद्य मन्युर्मे यस्त्वां प्रति पुरा कृतः । दैवं पुरुषकारेण न शक्यमतिवर्तितुम् ॥ सोदर्याः पाण्डवा वीरा भ्रातरस्तेऽरिसूदन । सङ्गच्छ तैर्महाबाहो मम चेदिच्छसि प्रियम् ॥ मया भवतु निर्वृत्तं वैरमादित्यनन्दन । पृथिव्यां सर्वराजानो भवन्त्वद्य निरामयाः ॥ कर्ण उवाच । जानाम्येव महाबाहो सर्वमेतन्न संशयः । यथा वदसि मे भीष्म कौन्तेयोऽहं न सूतजः ॥ अवकीर्णस्त्वहं कुन्त्या सूतेन च विवर्धितः । भुक्त्वा दुर्योधनैश्वर्यं न मिथ्या कर्तुमुत्सहे ॥ वसुदेवसुतो यद्वत्पाण्डवाय दृढव्रतः । वमु चैव शरीरं च पुत्रदारं तथा यशः ॥ सर्वं दुर्योधनस्यार्थे त्यक्तं मे भूरिदक्षिण । मा चैतद्व्याधिमरणं क्षत्रं स्यादिति कौरव ॥ कोपिताः पाण्डवा नित्यं मयाऽश्रित्य सुयोधनम् । अवश्यभावी ह्यर्थोऽयं यो न शक्यो निवर्तितुम् ॥ दैवं पुरुषकारेण को विवर्तितुमुत्सहेत् । पृथिवीक्षयसंशीनि निमित्तानि पितामह ॥ भवद्भिरुपलब्धानि कथितानि च संसदि । पाण्डवा वासुदेवश्च विदिता मम सर्वशः ॥ अजेयाः पुरुषैरन्यैरिति तंश्चोत्सहामहे । विजयिष्ये रणे पाण्डूनिति मे निश्चितः मनः ॥ न च शक्यमवस्रष्टुं वैरमेतत्सुदारुणम् । धनञ्जयेन योत्स्येऽहं स्वधर्मप्रीतमानसः ॥ अनुजानीष्व मां तात युद्धाय कृतनिश्चयम् । अनुज्ञातस्त्वया वीर युध्येयमिति मे मतिः ॥ दुरुक्तं विप्रतीपं वा रभसाच्चापलात्तथा । यन्मयेह कृतं किञ्चित्तन्मे त्वं क्षन्तुमर्हसि ॥ भीष्म उवाच । न चेच्छक्यमवस्रष्टुं वैरमेतत्सुदारुणम् । अनुजानामि कर्ण त्वां युध्यस्व स्वर्गकाम्यया ॥ निर्मन्युर्गतसंरम्भः कृतकर्मा रणे स्म ह । यथाशक्ति यथोत्साहं सतां वृत्तेषु वृत्तवान् ॥ अहं त्वामनुजानामि यदिच्छसि तदाप्नुहि । क्षत्रधर्मजिताल्ँलोकानवाप्स्यसि धनञ्जयात् ॥ युध्यस्व निरहङ्कारो बलवीर्यव्यपाश्रयः । धर्म्याद्धि युद्धादधिकं क्षत्रियस्य न विद्यते ॥ प्रशमे हि कृतो यत्नः सुमहान्सुचिरं मया । न चैव शकितः कर्तुं यतो धर्मस्ततो जयः ॥ सञ्जय उवाच । इत्युक्तवति गाङ्गेये अभिवाद्योपमन्त्र्य च । राधेयो रथमारुह्य प्रायात्तव सुतं प्रति ॥ ' वैशम्पायन उवाच । इत्येतद्बहुवृत्तान्तं भीष्मपर्वाखिलं मया । शृण्वते ते महाराज प्रोक्तं पापहरं शुभम् ॥ यः श्रावयेत्सदा राजन्ब्राह्मणान्वेदपारगान् । श्रद्धावन्तश्च ये चापि श्रोष्यन्ति मनुजा भुवि ॥ विधूय सर्वपापानि विहायान्ते कलेवरम् । प्रयान्ति तत्पदं विष्णोर्यत्प्राप्य न निवर्तते ॥ तस्मात्सर्वप्रयत्नेन भारतं भरतर्षभ । शृणुयात्सिद्धिमन्विच्छन्निह वामुत्र मानवः ॥ भोजनं भोजयेद्विप्रान्गन्धमाल्यैरलङ्कृतान् । भीष्मपर्वणि राजेन्द्र दद्यात्पानीयमुत्तमम् ॥' ॥

इति श्रीमन्महाभारते शतसाहस्त्र्यां संहितायां वैयासिक्यां भीष्मपर्वणि भीष्मवधपर्वणि द्वाविंशत्यधिकशततमोऽध्यायः ॥ ॥ समाप्तं भीष्मवधपर्व भीष्मपर्व च । ————

6-122-1xa अस्यानन्तरं द्रोणपर्व भविष्यति । 6-122-1xb तस्यायमाद्यः श्लोकः । 6-122-1xc तमप्रतिमसत्वौजोबलवीर्यपराक्रमम् । 6-122-1xb हतं देवव्रतं श्रुत्वा पाञ्चाल्येन शिखण्डिन ॥ 6-122- 6-122-3 जन्मशय्यागतं जन्मकाले शरशय्यागतम् । शरजन्मत्वात् ॥ 6-122-12 येनासीति सार्धश्लोकः झo पुस्तक एवास्ति ॥ 6-122-15 पुरुषेषु मानुषेषु ॥ 6-122-18 त्वया सदृशो नाभवत् त्वया जित इत्यर्थः । इयं कथा राजधर्मे । अनेन नागायुतबलत्वं कर्णस्य सूचितम् ॥ 6-122-19 युधि सम्प्रहारे ॥ 6-122-22 निर्वृत्तं समाप्तम् ॥ 6-122-24 अवकीर्णस्त्यक्तः ॥ 6-122-28 निवर्तितुं निवर्तयितुम् ॥ 6-122-30 पाण्डूनर्जुनं विहाय चतुरः । अर्जुनेन योत्स्ये अन्यान्विजेष्ये इति भावः ॥ 6-122-33 विप्रतीपं विरुद्धम् ॥ इदं भीष्मपर्व कुम्भघोणस्थेन टीo आर्o कृष्णाचार्येण टीo आर्o व्यासाचार्येण च मुम्बय्यां निर्णयसागरमुद्रायन्त्रे मुद्रापितम् । शकाब्दाः 1829 सन 1907