अध्यायः 121
तृषार्तेन भीष्मेण पानीययाचनम् ॥ 1 ॥ राजभिः कलशेनानीते जले भीष्मेण तन्निन्दनपूर्वकमर्जुनम्प्रति याचनम् ॥ 2 ॥ अर्जुनेन पर्यन्यास्त्रेण भूमिम्भित्त्वोत्थापितसलिलधारया भीष्मस्य तृष्णाशमनम् ॥ 3 ॥ भीष्मेण दुर्योधनम्प्रति अर्जुनप्रशंसनपूर्वकं पाण्डवैः सह शमोपदेशः ॥ 4 ॥ सञ्जय उवाच । व्युष्टायां तु महाराज शर्वर्यां सर्वपार्थिवाः । पाण्डवा धार्तराष्ट्राश्च उपातिष्ठन्पितामहम् ॥ तं वीरशयने वीरं शयानं कुरुसत्तम । अभिवाद्योपतस्थुर्वै क्षत्रियाः क्षत्रियर्षभम् ॥ कन्याश्चन्दनचूर्णैश्च लाजैर्माल्यैश्च सर्वशः । अवाकिरञ्छान्तनवं तत्र गत्वा सहस्रशः ॥ स्त्रियो वृद्धास्तथा बालाः प्रेक्षकाश्च पृथग्जनाः । समभ्ययुः शान्तनवं भूतानीव तमोनुदम् ॥ तूर्याणि शतसङ्ख्यानि तथैव नटनर्तकाः । शिल्पिनश्च तथाऽऽजग्मुः कुरुवृद्धं पितामहम् ॥ उपागम्य च राजेन्द्र सन्नहान्विप्रमुच्य ते । आयुधानि च निक्षिप्य सहिताः कुरुपाण्डवाः ॥ अन्वासन्त दुराधर्षं देवव्रतमरिन्दमम् । अन्योन्यं प्रीतिमन्तस्ते यथापूर्वं यथावयः ॥ सा पार्थिवशताकीर्णा समितिर्भीष्मशोभिता । शुशुभे भारती दीप्ता दिवीवादित्यमण्डलम् ॥ विबभौ च नृपाणां सा गङ्गासुतमुपासताम् । देवानामिव देवेशं पितामहमुपासताम् ॥ भीष्मस्तु वेदनां धैर्यान्निगृह्य भरतर्षभ । अभितप्तः शरैश्चैव नातिहृष्टमनाऽब्रवीत् ॥ शराभितप्तकायो हि शस्त्रसम्पातमूर्च्छितः । पानीयमित सम्प्रेक्ष्य राज्ञस्तान्प्रत्यभाषत ॥ ततस्ते क्षत्रिया राजन्नुपाजह्रुः समन्ततः । भक्ष्यानुच्चावचान्राजन्वारिकुम्भांश्च शीतलान् ॥ उपानीतं तु पानीयं दृष्ट्वा शान्तनवोऽब्रवीत् । न मेऽद्य सेवितुं योग्या भोगाः केवलमानुषाः ॥ अपक्रान्तो मनुष्येभ्यः शरशय्यां गतो ह्यहम् । प्रतीक्षमाणस्तिष्ठामि निवृत्तिं शशिसूर्ययोः ॥ ' सञ्जय उवाच । एवमुक्त्वा तदोवाच भीष्मः शरशतैश्चितः । पयः पास्यामि गोपाला गोमयं न तु गोमयम् । गोपयेनाग्निवर्णेन गोमयं न तु गोमयम् ॥' एवमुक्त्वा शान्तनवो निन्दन्वाक्येन पार्थिवान् । अर्जुनं द्रष्टुमिच्छामीत्यभ्यभाषत भारत ॥ अथोपेत्य महाबाहुरभिवाद्य पितामहम् । अतिष्ठत्प्राञ्जलिः प्रह्वः किं करोमीति चाब्रवीत् ॥ तं दृष्ट्वा पाण्डवं राजन्नभिवाद्याग्रतः स्थितम् । अभ्यभाषत धर्मात्मा भीष्मः प्रीतो धनञ्जयम् ॥ दह्यतीव शरीर मे संवृतस्य तवेषुभिः । मर्माणि परिदूयन्ते मुखं च परिशुष्यति ॥ वेदनार्तशरीरस्य प्रयच्छापो ममार्जुन । त्वं हि शक्तो महेष्वास दातुमापो यथाविधि ॥ सञ्जय उवाच । अर्जुनस्तु तथेत्युक्त्वा रथमारुह्य वीर्यवान् । अधिज्यं बलवत्कृत्वा गाण्डीवं व्याक्षिपद्धनुः ॥ तस्य ज्यातलनिर्घोषं विस्फूर्जितमिवाशनेः । वित्रेसुः सर्वभूतानि सर्वे श्रुत्वा च पार्थिवाः ॥ ततः प्रदक्षिणं कृत्वा रथेन रथिनां वरः । शयानं भरतश्रेष्ठं सर्वशस्त्रभृतां वरम् ॥ सन्धाय च शरं दीप्तमभिमन्त्र्य स पाण्डवः । पर्जन्यास्त्रेण संयोज्य सर्वलोकस्य पश्यतः ॥ अविध्यत्पृथिवीं पार्थः पार्श्वे भीष्मस्य दक्षिणे । उत्पपात ततो धारा वारिणो विमला शुभा ॥ शीतस्यामृतकल्पस्य दिव्यगन्धरसस्य च । अतर्पयत्ततः पार्थः शीतया जलधारया ॥ भीष्मं कुरूणामृषभं दिव्यं दिव्यपराक्रमम् । कर्मणा तेन पार्थस्य शक्रस्येव विकुर्वतः ॥ विस्मयं परमं जग्मुस्ततस्ते वसुधाधिपाः । तत्कर्म प्रेक्ष्य बीभत्सोरतिमानुषविक्रमम् ॥ सम्प्रावेपन्त कुरवो गावः शीतार्दिता इव । विस्मयाच्चोत्तरीयाणि व्याविध्यन्सर्वतो नृपाः ॥ शङ्खदुन्दुभिनिर्घोषस्तुमुलः सर्वतोऽभवत् । तृप्तः शान्तनवश्चापि राजन्बीभत्सुमब्रवीत् ॥ सर्वपार्थिववीराणां सन्निधौ पूजयन्निव । नैतच्चित्रं महाबाहो त्वयि कौरवनन्दन ॥ कथितो नारदेनासि पूर्वर्षिरमितद्युते । वासुदेवसहायस्त्वं महत्कर्म करिष्यसि ॥ यन्नोत्सहति देवेन्द्रः सह देवैरपि ध्रुवम् । विदुस्त्वां निधनं पार्थ सर्वक्षत्रस्य तद्विदः ॥ धनुर्धराणामेकस्त्वं पृथिव्यां प्रवरो नृषु ॥ मनुष्या जगति श्रेष्ठाः पक्षिणां पतगेश्वरः । सरितं सागरः श्रेष्ठो गौर्वरिष्ठा चतुष्पदाम् ॥ आदित्यस्तेजसां श्रेष्ठो गिरीणां हिमवान्वरः । जातीनां ब्राह्मणः श्रेष्ठः श्रेष्ठस्त्वमसि धन्विनां ॥ न वै श्रुतं धार्तराष्ट्रेण वाक्यम्मयोच्यमानं विदुरेण चैव । द्रोणेन रामेण जनार्दनेनमुहुर्मुहुः सञ्जयेनापि चोक्तम् ॥ परीतबुद्धिर्हि विसञ्ज्ञकल्पोदुर्योधनो न च तच्छ्रद्दधाति । स शेष्यते वै निहतश्चिरायशास्त्रातिगो भीमबलाभिभूतः ॥ सञ्जय उवाच । एतच्छ्रुत्वा तद्वचः कौरवेन्द्रोदुर्योधनो दीनमना बभूव । तमब्रविच्छान्तनवोऽभिवीक्ष्यनिबोध राजन्भव वीतमन्युः ॥ दृष्टं दुर्योधनैतत्ते यथा पार्थेन धीमता । जलस्य धारा जनिता शीतस्यामृतगन्धिनः ॥ एतस्य कर्ता लोकेऽस्मिन्नान्यः कश्चन विद्यते । आग्नेयं वारुणं सौम्यं वायव्यमथ वैष्णवम् ॥ ऐन्द्रं पाशुपतं ब्रह्मं पारमेष्ठ्यं प्रजापतेः । धातुस्त्वष्टुश्च सवितुर्वैवस्वतमथापि वा ॥ सर्वस्मिन्मानुषे लोके वेत्त्येको हि धनञ्जयः । कृष्णो वा देवकीपुत्रो नान्यो वेदेह कश्चन ॥ अशक्यः पाण्डवस्तात युद्धे जेतुं कथञ्चन । अमानुषाणि कर्माणि यस्यैतानि महात्मनः ॥ तेन सत्ववता सङ्ख्ये शूरेणाहवशोभिना । जिष्णुना समरे राजन्सन्धिर्भवतु मा चिरम् ॥ यावत्कृष्णो महाबाहुः स्वाधीनः कुरुसत्तम । तावत्पार्थेन शूरेण सन्धिस्ते तात युज्यताम् ॥ यावन्न ते चमूः सर्वाः शरैः सन्नतपर्वभिः । नाशयत्यर्जुनस्तावत्सन्धिस्ते तात य्रुज्यताम् ॥ यावत्तिष्ठन्ति समरे हतशेषाः सहोदराः । नृपाश्च बहवो राजंस्तावत्सन्धिः प्रयुज्यताम् ॥ न निर्दहति ते यावत्क्रोधदीप्तेक्षणश्चमूम् । युधिष्ठिरो रणे तावत्सन्धिस्ते तात युज्यताम् ॥ नकुलः सहदेवश्च भीमसेनश्च पाण्डवः । यावच्चमूं महाराज नाशयन्ति न सर्वशः ॥ तावत्ते पाण्डवैर्वीरैः सौहार्दं मम रोचते । युद्धं मदन्तमेवास्तु तात संशाम्य पाण्डवैः ॥ एतत्ते रोचतां वाक्यं यदुक्तोऽसि मयाऽनघ । एतत्क्षममहं मन्ये तव चैव कुलस्य च ॥ त्यक्त्वा मन्युं व्युपशाम्यस्व पार्थैःपर्याप्तमेतद्यत्कृतं फल्गुनेन । भीष्मस्यान्तादस्तु वः सौहृदं चजीवन्तु शेषाः साधु राजन्प्रसीद ॥ राज्यस्यार्दं दीयतां पाण्डवाना-मिन्द्रप्रस्थं धरमराजोऽभियातु । मा मित्रध्रुक्पार्थिवानां जघन्यःपापां कीर्तिं प्राप्स्यसे कौरवेन्द्र ॥ ममावसानाच्छान्तिरस्तु प्रजानांसङ्गच्छन्तां पाण्डवाः प्रीतिमन्तः । पिता पुत्रं मातुलं भागिनेयोभ्राता चैव भ्रातरं प्रैतु राजन् ॥ न चेदेवं प्राप्तकालं वचो मेमोहाविष्टः प्रतिपत्स्यस्यबुद्ध्या । तप्स्यस्यन्ते एतदन्ताः स्थ सर्वेसत्यामेतां भारतीमीरयामि ॥ सञ्जय उवाच । एतद्वाक्यं सौहृदादापगेयोमध्ये राज्ञां भारतं श्रावयित्वा । तूष्णीमासीच्छल्यसन्तप्तमर्मायोज्यात्मानं वेदनां सन्नियम्य ॥ धर्मार्थसहितं वाक्यं श्रुत्वा हितमनामयम् । नारोचयत पुत्रस्ते मुमूर्षुरिव भेषजम् ॥ ॥
इति श्रीमन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि एकविंशत्यधिकशततमोऽध्यायः ।
6-121-4 पृधग्जनाः प्राकृता जनाः । भूतानि प्राणिनो गन्धर्वादीनि वा । तमोनुदं सूर्यम् ॥ 6-121-19 परिदूयन्ते परितप्यन्ते ॥ 6-121-27 विकुर्वतो विशेषेण कुर्वतः ॥ 6-121-29 व्याविध्यन्भ्रामितवन्तः ॥ 6-121-33 निधनं निधनहेतुः । तद्विदो देवरहस्यज्ञाः ॥ 6-121-35 जगति भूलोके ॥ 6-121-52 क्षेममिति पाठे हितं ॥ 6-121-53 फल्गुनेन यत्कृतं एतदेतावदेव पर्याप्तमस्तु । चशब्दादेतावतां भ्रातॄणामन्तादपीति ॥ 6-121-57 योज्ययोगधारणायुक्तं कृत्वा ॥ 6-121-58 धर्मार्थेति श्लोकः झo पुस्त एवास्ति ॥