अध्यायः 120

कुरुपाण्डवैरन्यै राजभिश्च भीष्माभिवादनम् ॥ 1 ॥ अर्जुनेन भीष्माय बाणमयोपधानसमर्पणम् ॥ 2 ॥ धृतराष्ट्र उवाच । कथमासंस्तदा योधा हीना भीष्मेण सञ्जय । बलिना देवकल्पेन कौमारब्रह्मचारिणा ॥ तदैव निहतान्मन्ये कुरूनन्यांश्च पाण्डवैः । न प्राहरद्यदा भीष्मो घृणित्वाद्द्रुपदात्मजम् ॥ ततो दुःखतरं मन्ये किमन्यत्प्रभविष्यति । अद्यैव निहतं श्रुत्वा पितरं मम दुर्मतेः ॥ अश्मसारमयं नूनं हृदयं मम सञ्जय । श्रुत्वा विनिहतं भीष्मं शतधा यन्न दीर्यते ॥ यदन्यन्निहतेनाजौ भीष्मेण जयमिच्छता । चेष्टितं कुरुसिंहेन तन्मे कथय सुव्रत ॥ पुनःपुनर्न मृष्यामि हतं देवव्रतं रणे । न हतो जामदग्न्येन दिव्यैरस्त्रैश्च यः पुरा ॥ स हतो द्रौपदेयेन पाञ्चाल्येन शिखण्डिना । सञ्जय उवाच । सायाह्ने न्यपतद्भूमौ धार्तराष्ट्रान्विषादयन् ॥ पाञ्चालान्हर्षयंश्चैव भीष्मः कुरुपितामहः । स शेते शरतल्पस्थो मेदिनीमस्पृशंस्तदा ॥ भीष्मो रथात्प्रपतितः सञ्छिन्नो बहुभिः शरैः । हाहेति तुमुलः शब्दो भूतानां समपद्यत ॥ सीमावृक्षे निपतिते कुरूणां समितिञ्जये । सेनयोरुभयो राजन्क्षत्रियान्भयमाविशत् ॥ भीष्मं शान्तनवं दृष्ट्वा विशीर्णकवचध्वजम् । कुरवः पर्यवर्तन्त पाण्डवाश्च विशाम्पते ॥ खं तमःसंवृतमभूदासीद्भानुर्गतप्रभः । ररास पृथिवी चैव भीष्मे शान्तनवे हते ॥ अयं ब्रह्मविदां श्रेष्ठो गतिर्ब्रह्मविदां सदा । इत्यभाषन्त भूतानि शयानं पुरुषर्षभम् ॥ अयं पितरमाज्ञाय कामार्तं शन्तनुं पुरा । ऊर्ध्वरेतसमात्मानं चकार पुरुषर्षभः ॥ इति स्म शरतल्पस्थं भरतानां पितामहम् । ऋषयस्त्वभ्यभाषन्त सहिताः सिद्धचारणैः ॥ हते शान्तनवे भीष्मे भरतानां पितामहे । न किञ्चित्प्रत्यपद्यन्त पुत्रास्तव हि मारिष ॥ विषण्णवदनाश्चासन्हतश्रीकाश्च भारत । अतिष्ठन्व्रीडिताश्चैव ह्रिया युक्ता ह्यधोमुखाः ॥ पाण्डवाश्च जयं लब्ध्वा सङ्ग्रामशिरसि स्थिताः । सर्वे दध्युर्महाशङ्खान्हेमजालपरिष्कृतान् ॥ हर्षात्तूर्यसहस्रेषु वाद्यमानेषु चानघ । अपश्याम महाराज भीमसेनं महाबलम् ॥ विक्रीडमानं कौन्तेयं हर्षेण महता युतम् । निहत्य तरसा शत्रुं महाबलसमन्वितम् ॥ सम्मोहश्चापि तुमुलः कुरूणामभवत्ततः । कर्णदुर्योधनौ चापि निःश्वसेतां मुहुर्मुहुः ॥ तथा निपातिते भीष्मे कौरवाणां पितामहे । हाहाभूतमभूत्सर्वं निर्मर्यादमवर्तत ॥ दृष्ट्वा च पतितं भीष्मं पुत्रो दुःशासनस्तव । उत्तमं जवमास्थाय द्रोणानीकभुपाद्रवत् ॥ भ्रात्रा प्रस्थापितो वीरः स्वेनानीकेन दंशितः । प्रययौ पुरुषव्याघ्रः स्वसैन्यमभिहर्षयन् ॥ तमायान्तमभिप्रेक्ष्य कुरवः पर्यवारयन् । दुःशासनं महाराज किमयं वक्ष्यतीति च ॥ ततो द्रोणाय निहतं भीष्ममाचष्ट कौरवः । द्रोणस्तदाऽप्रियं श्रुत्वा मुमोह भरतर्षभ ॥ स सञ्ज्ञामुपलभ्याशु भारद्वाजः प्रतापवान् । निवारयामास तदा स्वान्यनीकानि मारिष ॥ विनिवृत्तान्कुरून्दृष्ट्वा पाण्डवापि स्वसैनिकान् । रथैः शीघ्राश्वसंयुक्तैः समन्तात्पर्यवारयन् ॥ निवृत्तेषु च सैन्येषु पारम्पर्येण सर्वशः । निर्मुक्तकवचाः सर्वे भीष्ममीयुर्नराधिपाः ॥ व्युपरम्य ततो युद्धाद्योधाः शतसहस्रशः । उपतस्थुर्महात्मानं प्रजापतिमिवामराः ॥ ते तु भीष्मं समासाद्य शयानं भरतर्षभम् । अभिवाद्यावतिष्ठन्त पाण्डवाः कुरुभिः सह ॥ अथ पाण्डून्कुरूंश्चैव प्रणिपत्याग्रतः स्थितान् । अभ्यभाषत धर्मात्मा भीष्मः शान्तनवस्तदा ॥ स्वागतं वो महाभागाः स्वागतं वो महारथाः । तुष्यामि दर्शनाच्चाहं युष्माकममरोपमाः ॥ अभिनन्द्य स तानेवं शिरसा लम्बताऽब्रवीत् । 'परपार्श्वे तव सुतान्स्थितानुद्वीक्ष्य भारत ।' शिरो मे लम्बतेऽत्यर्थमुपधानं प्रदीयताम् ॥ ततो नृपाः समाजह्रुस्तनूनि च मृदूनि च । उपधानानि मुख्यानि नैच्छत्तानि पितामहः ॥ अथाब्रवीन्नरव्याघ्रः प्रसहन्निव तान्नृपान् । नैतानि वीरशय्यासु युक्तरूपाणि पार्थिवाः ॥ ततो वीक्ष्य नरश्रेष्ठमभ्यभाषत पाण्डवम् । धनञ्जयं दीर्घबाहुं सर्वलोकमहारथम् ॥ धनञ्जय महाबाहो शिरो मे तात लम्बते । दीयतामुपधानं वै यद्युक्तमिह मन्यसे ॥ सञ्जय उवाच । समारोप्य महच्चापमभिवाद्य पितामहम् । नेत्राभ्यामश्रुपूर्णाभ्यामिदं वचनमब्रवीत् ॥ आज्ञापय कुरुश्रेष्ठ सर्वशस्त्रभृतां वर । प्रेष्योऽहं तव दुर्धर्ष क्रियतां किं पितामह ॥ तमब्रवीच्छान्तनवः शिरो मे तात लम्बते । 'दीयतामुपधानं मे यद्युक्तमिह मन्यसे' उपधानं कुरुश्रेष्ठ उपधेहि ममार्जुन ॥ वीरशय्यानुरूपं वै शीघ्रं वीर प्रयच्छ मे । त्वं हि पार्थ समर्थो वै श्रेष्ठः सर्वधनुष्मताम् ॥ क्षत्रधर्मस्य वेत्ता च बुद्धिसत्वगुणान्वितः । फल्गुनोऽपि तथेत्युक्त्वा व्यवसायं परञ्जयः ॥ गृह्यानुमन्त्र्य गाण्डीवं शरान्सन्नतपर्वणः । अनुमान्य महात्मानं भरतानां महारथम् ॥ त्रिभिस्तीक्ष्णैर्महावेगैरुदगृह्णाच्छिरः शरैः । अभिप्राये तु विदिते धर्मात्मा स्वयसाचिना ॥ अतुष्यद्भरतश्रेष्ठो भीष्मो धर्मार्थतत्त्ववित् । उपधानेन दत्तेन प्रत्यनन्दद्धनञ्जयम् ॥ प्राह सर्वान्समुद्वीक्ष्य भरतान्भारतं प्रति । कुन्तीपुत्रं युधां श्रेष्ठं सुहृदां प्रीतिवर्धनम् ॥ शयनस्यानुरूपं मे पाण्डवोपहितं त्वया । यद्यन्यथा प्रपद्येथाः शपेयं त्वामहं पुरा ॥ एवमेव महाबाहो धर्मेषु परितिष्ठता । स्वप्तव्यं क्षत्रियेणाजौ शरतल्पगतेन वै ॥ एवमुक्त्वा तु बीभत्सुं सर्वांस्तानब्रवीद्वचः । राज्ञश्च राजपुत्रांश्च पाण्डवैरभिसंवृतान् ॥ पश्यध्वमुपधानं मे पाणडवेनाभिसन्धितम् । शयेयमस्यां शय्यायां यावदावर्तनं रवेः ॥ ये तदा धारयिष्यन्ति ते च प्रेक्ष्यन्ति मां नृपाः । दिशं वैश्रवणाक्रान्तां यदा गन्ता दिवाकरः ॥ नूनं सप्ताश्वयुक्तेन रथेनोत्तमतेजसा । रक्ष्येऽहं वै मम प्राणान्सुहृदः सुप्रियानिव ॥ परिखाः खन्यतामत्र ममावसदने नृपाः । उपासिष्ये विवस्वन्तमेवं शरशताचितः । उपारमध्वं सङ्ग्रामाद्वैरमुत्सृज्य पार्थिवाः ॥ सञ्जय उवाच । उपातिष्ठन्नथो वैद्याः शल्योद्धरणकोविदाः । सर्वोपकरणैर्युक्ताः कुशलैः साधुशिक्षिताः ॥ तान्दृष्ट्वा जाह्नवीपुत्रः प्रोवाच तनयं तव । दत्तदेया विसृज्यन्तां पूजयित्वा चिकित्सकाः ॥ एवङ्गते मयेदानीं वैद्यैः कार्यमिहास्ति किम् । क्षत्रधर्मे प्रशस्तां हि प्राप्तोऽस्मि परमां गतिम् ॥ नैष धर्मो महीपालाः शरतल्पगतस्य मे । एभिरेव शरैश्चाहं दग्धव्योऽग्नौ नराधिपाः ॥ तच्छ्रुत्वा वचनं तस्य पुत्रो दुर्योधनस्तव । वैद्यान्विसर्जयामास पूजयित्वा यथार्हतः ॥ ततस्ते विस्मयं जग्मुर्नानाजनपदेश्वराः । स्थितिं धर्मे परां दृष्ट्वा भीष्मस्यामिततेजसः ॥ उपधानं ततो दत्त्वा पितुस्ते मनुजेश्वराः । सहिताः पाण्डवाः सर्वे कुरवश्च महारथाः ॥ उपगम्य महात्मानं शयानं शयने शुभे ॥ तेऽभिवाद्य ततो भीष्मं कृत्वा च त्रिःप्रदक्षिणम् । विधाय रक्षां भीष्मस्य सर्व एव समन्ततः ॥ वीराः स्वशिबिराण्येव ध्यायन्तः परमातुराः । निवेशायाभ्युपागच्छन्सायाह्ने रुधिरोक्षिताः ॥ निविष्टान्पाण्डवांश्चैव प्रीयमाणान्महारथान् । भीष्मस्य पतनं दृष्ट्वा उपगम्य महाबलः ॥ उवाच माधवः काले धर्मपुत्रं युधिष्ठिरम् । दिष्ट्या जयसि कौरव्य दिष्ट्या भीष्मो निपातितः ॥ अवध्यो मानुषैरेव सत्यसन्धो महारथः । अथवा दैवतैः सार्धं सर्वशास्त्रस्य पारगः ॥ त्वां तु चक्षुर्हणं प्राप्य दग्धो घोरेण चक्षुष । सञ्जय उवाच । एवमुक्तो धर्मराजः प्रत्युवाच जनार्दनम् ॥ तव प्रसादाद्विजयः क्रोधात्तव पराजयः । त्वं हि नः शरणं कृष्ण भक्तानामभयङ्करः ॥ अनाश्चर्यो जयस्तेषां येषां त्वमसि केशव । रक्षिता समरे नित्यं नित्यं चापि हिते रतः ॥ सर्वथा त्वां समासाद्य नाश्चर्यमिति मे मतिः । सञ्जय उवाच । एवमुक्तः प्रत्युवाच स्मयमानो जनार्दनः । तवैवैतद्युक्तरूपं वचनं पार्थिवोत्तम ॥ ॥

इति श्रीमन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि दशमदिवसे विंशत्यधिकशततमोऽध्यायः ॥

6-120-11 पर्यवर्तन्त परिवृतवन्तः ॥ 6-120-17 व्रीडिताः व्रीडावन्तः । व्रीडा चान्यतः । ह्रीश्चाकार्यकरणात् ॥ 6-120-29 पारम्पर्येण क्रमेण ॥ 6-120-34 उपधानं उपबर्हम् ॥ 6-120-38 इह वीरशय्यायाम् ॥ 6-120-43 व्यवसायमुचितोद्योगम् ॥ 6-120-45 अन्वगृह्णात् अवतष्टम्भे ॥ 6-120-48 उपहितं उपधानीयं दत्तम् ॥ 6-120-53 विमोक्ष्येऽहं तदा प्राणान् इति झo पाठः ॥ 6-120-54 ममावसदने मन्निवासस्थाने ॥ 6-120-68 चक्षुषा हन्तीति तथा तम् । दृष्टिमात्रेण हननक्षमम् ॥