अध्यायः 119

भीष्मनिपातः ॥ 1 ॥ सञ्जय उवाच । एवं ते पाण्डवाः सर्वे पुरस्कृत्य शिखण्डिनम् । विव्यधुः समरे भीष्मं परिवार्य समन्ततः ॥ शतघ्नीभिः सुघोराभिः परिघैश्च परश्वथैः । मुद्गरैर्मुसलैः प्रासैः क्षेपणीयैश्च सर्वशः ॥ शरैः कनकपुङ्खैश्च शक्तितोमरकम्पनैः । नाराचैर्वत्सदन्तैश्च भुशुण्डीभिश्च सर्वशः ॥ अताडयन्रणे भीष्मं सहिताः सर्वसृञ्जयाः । स विशीर्णतनुत्रामाः पीडितो बहुभिस्तदा ॥ न विव्यथे तदा भीष्मो भिद्यमानेषु मर्मसु । सन्दीप्तशरचापाग्निरस्त्रप्रसृतमारुतः ॥ नेमिनिर्ह्रादसन्तापो महास्त्रोदयपावकः । चित्रचापमहाज्वालो वीरक्षयमहेन्धनः ॥ युगान्तागनिसमप्रख्यः परेषां समपद्यत । निवृत्य रथसङ्घानामन्तरेण विनिःसृतः ॥ दृश्यते स्म नेरन्द्राणां पुनर्मध्यगतश्चरन् । ततः पाञ्चालराजं च धृष्टकेतुमतीत्य च ॥ पाण्डवानीकिनीमध्यमाससाद विशाम्पते । ततः सात्यकिभीमौ च पाण्डवं च धनञ्जयम् ॥ द्रुपदं च विराटं च धृष्टद्युम्नं च पार्षतम् । भीमघोषैर्महावेगैर्मर्मावरणभेदिभिः ॥ षडेतान्निशितैर्भीष्मः प्रविव्याधोत्तकैः शरैः । तस्य ते निशितान्बाणात्सन्निवार्य महारथाः ॥ दशभिर्दशभिर्भीष्ममर्दयामासुरोजसा । शिखण्डी तु महाबाणान्यान्मुमोच महारथः ॥ न चक्रुस्ते रुजं तस्य स्वर्मपुङ्खाः शिलाशिताः । ततः किरीटी संरब्धो भीष्ममेवाभ्यधावत ॥ शिखण्डिनं पुरस्कृत्य धनुश्चास्य समाच्छिनत् । भीष्मस्य धनुषश्छेदं नामृष्यन्त महारथाः ॥ द्रोणश्च कृतवर्मा च सैन्धवश्च जयद्रथः । भूरिश्रवाः शलः शल्यो भगदत्तस्तथैव च ॥ सप्तैते परमक्रुद्धाः किरीटिनमभिद्रुताः । तत्र शस्त्राणि दिव्यानि दर्शयन्तो महारथाः ॥ अभिपेतुर्भृशं क्रुद्धाश्चादयन्तश्च पाण्डवम् । तेषामापततां शब्दः शुश्रुवे फल्गुनं प्रति ॥ उद्धूतानां यथा शब्दः समुद्राणां युगक्षये । घ्नत त्वरत गृह्णीत विद्ध्यध्वमवकर्तत ॥ इत्यासीत्तुमुलः शब्दः फल्गुनस्य रथं प्रति । तं शब्दं तुमुलं श्रुत्वा पाण्डवानां महारथाः ॥ अभ्यधावन्परीप्सन्तः फल्गुनं भरतर्षभ । सात्यकिर्भीमसेनश्च धृष्टद्युम्नश्च पार्षतः ॥ विराटद्रुषदौ चोभौ राक्षसश्च घटोत्कचः । अभिमन्युश्च सङ्क्रुद्धः सप्तैते क्रोधमूर्च्छिताः ॥ समभ्यधावंस्त्वरिताश्चित्रकार्मुकधारिणः । तेषां समभवद्युद्धं तुमुलं रोमहर्षणम् ॥ सङ्ग्रमे भरतश्रेष्ठ देवानां दानवैरिव । शिखण्डी तु रणे श्रेष्ठो रक्ष्ममाणः किरीटिना ॥ अविध्यद्दशभिर्भीषअमं छिन्नधन्वानमाहवे । सारथिं दशभिश्चास्य ध्वजं चैकेन चिच्छिदे ॥ सोऽन्यत्कार्मुकमादाय गाङ्गेयो वेगवत्तरम् । तदप्यस्य शितैर्बाणैस्त्रिभिश्चिच्छेद फल्गुनः ॥ एवं स पाण्डवः क्रुद्ध आत्तमात्तं पुनः पुनः । धनुश्चिच्छेद भीष्मस्य सव्यसाची परन्तपः ॥ स च्छिन्नधन्वा सङ्क्रुद्धाः सृक्किणी परिसंलिहन् । शक्तिं जग्राह तरसा गिरीणामपि दारणीम् ॥ तां च चिक्षेप सङ्क्रुद्धः फल्गुनस्य रथं प्रति । तामापतन्तीं सम्प्रेक्ष्य ज्वलन्तीमशनीमिव ॥ समादत्त शितान्भल्लान्पञ्च पाण्डवनन्दनः । तस्य चिच्छेद तां शक्तिं पञ्चधा पञ्चभिः शरैः ॥ सङ्क्रुद्धो भरतश्रेष्ठ भीष्मवाहुप्रवेरिताम् । सा पपात तथा च्छिन्ना सङ्क्रुद्धेन किरीटिना ॥ मेघबृन्दपरिभ्रष्टा विच्छिन्नेव शतह्रदा । छिन्नां तां शक्तिमालोक्य भीष्मः क्रोधसमन्वितः । अचिन्तयद्रणे वीरो बुद्ध्या परपुरञ्जयः । शक्तोऽहं धनुषैकेन निहन्तुं सर्वपाण्डवान् ॥ यद्येषां न भवेद्गोप्ता विष्वक्सेनो महाबलः । 'अजय्यश्चैव सर्वेषां लोकानामिति मे मतिः ।' कारणद्वयमास्थाय नाहं योत्स्यामि पाण्डवान् ॥ अवध्यत्वाच्च पाण्डूनां स्त्रीभावाच्च शिखण्डिनः । पित्रा तुष्टेन मे पूर्वं यदा कालीमुदवहम् ॥ स्वच्छन्दमरणं दत्तमवध्यत्वं रणे तथा । तस्मान्मृत्युमहं मन्ये प्राप्तकालमिवात्मनः ॥ एवं ज्ञात्वा व्यवसितं भीष्मस्यामिततेजसः । ऋषयो वसवश्चैव वियत्स्था भीष्ममब्रुवन् ॥ यत्ते व्यवसितं तात तदस्माकमपि प्रियम् । तत्कुरुष्व महाराज युद्धे बुद्धिं निवर्तय ॥ अस्य वाक्यस्य निधने प्रादुसासीच्छिवोऽनिलः । अनुलोमः सुगन्धी च पृषतैश्च समन्वितः ॥ देवदुन्दुभयश्चैव सम्प्रणेदुर्महास्वनाः । पपात पुष्पवृष्टिश्च भीष्मस्योपरि मारिष ॥ न च ताः शुश्रुवे कश्चित्तेषां संवदतां गिरः । ऋते भीष्मं महाबाहुं मां चापि मुनितेजसा ॥ सम्भ्रमश्च महानासीत्रिदशानां विशाम्पते । पतिष्यति रथाद्भीष्मे सर्वलोकप्रिये तदा ॥ इति देवगणानां च वाक्यं श्रुत्वा महातपाः । ततः शान्तनवो भीष्मो बीभत्सुं नाभ्यवर्तत ॥ भिद्यमानः शितैर्बाणैः सर्वावरणभेदिभिः । शिखण्डी तु महाराज भरतानां पितामहम् ॥ आजघानोरसि क्रुद्धो नवभिर्निशितैः शरैः । स तेनाभिहतः सङ्ख्ये भीष्मः कुरुपितामहः ॥ नाकम्पत महाराज क्षितिकम्पे यथाऽचलः । ततः प्रहस्य बीभत्सुर्व्याक्षिपन्गाण्डिवं धनुः ॥ गाङ्गेयं पञ्चविंशत्या क्षुद्रकाणां समार्पयत् । पुनः पुनः शतैरेनं त्वरमाणो धनञ्जयः ॥ सर्वगात्रेषु सङ्क्रुद्धस्तथा मर्मस्वताडयत् । एवमन्यैरपि भृशं विद्ध्यमानः सहस्रशः ॥ तानप्याशु शरैर्भीष्मः प्रविव्याध महारथः । तैश्च मुक्ताञ्छरान्भीष्मो युधि सत्यपराक्रमः ॥ निवारयामास शरैः समं सन्नतपर्वभिः । शिखण्डी तु रणे बाणान्यान्मुमोच महारथः ॥ न चक्रुस्ते रुजं तस्य रुक्मपुङ्खाः शिलासिताः । ततः किरीटी सङ्क्रुद्धो भीष्ममेवाभ्यवर्तत ॥ शिखण्डिनं पुरस्कृत्य धनुश्चास्य समाच्छिनत् । अथैनं नवभिर्विद्ध्वा ध्वजमेकेन चिच्छिदे ॥ सारथिं विशिखैश्चास्य दशभिः समकम्पयत् । सोऽन्यत्कार्मुकमादाय गाङ्गेयो बलवत्तरम् ॥ तदप्यस्य शितैर्भल्लैस्त्रिधा त्रिभिरघातयत् । निमेषार्धेन कौन्तेय आत्तमात्तं महारणे ॥ एवमस्य धनूंष्याजौ चिच्छेद सुबहून्यथ । ततः शान्तनवो भीष्मो बीभत्सुं नात्यवर्तत ॥ अथैनं पञ्चविंशत्या क्षुद्रकाणां समार्पयत् । सोऽतिविद्धो महेष्वासो दुःशासनमभाषत ॥ एष पार्थो रणे क्रुद्धः पाण्डवानां महारथः । शरैरनेकसाहस्त्रैर्मामेवाभ्यपतद्रणे ॥ न चैष समरे शक्यो जेतुं वज्रभृता अपि । न चापि सहिता वीरा देवदानवराक्षसाः ॥ मां चापि शक्ता निर्जेतुं किमु मर्त्या महारथाः । 'ऋतेऽर्जुनं सुसङ्क्रुद्धमेतत्सत्यं ब्रवीमि ते ॥' एवं तयोः संवदतोः फल्गुनो निशितैः शरैः । शिखण्डिनं पुरस्कृत्य भीष्मं विव्याध संयुगे ॥ ततो दुःशासनं भीष्मः स्मयमान इवाब्रवीत् । अर्दितो निशितैर्बाणैर्भृशं गाण्डीवधन्वना ॥ वज्राशनिसमस्पर्शाः सुपुङ्खाः सुप्रतेजनाः । सुमुक्ता अव्यवच्छिन्ना नेमे बाणाःशिखण्डिनः ॥ निकृन्तमाना मर्माणि दृढावरणभेदिनः । सुसला इव मे ध्नन्ति नेमे बाणः शिखण्डिनः ॥ वज्रदण्डसमस्पर्शा वज्रवेगदुरासदाः । मम प्राणानारुजन्ति नेमे बाणाः शिखण्डिनः ॥ नाशयन्तीव मे प्राणान्यमदूता इवागताः । गदापरिघसंस्पर्शा नेमे बाणाः शिखण्डिनः ॥ भुजगा इव सङ्क्रुद्धा लेलिहाना विषोल्बणाः । समाविशन्ति मर्माणि नेमे बाणाः शिखण्डिनः ॥ अर्जुनस्य इमे बाणा नेमे बाणाः शिखण्डिनः । कृन्तन्ति मम गात्राणि माघमां सेगवा इव ॥ सर्वे ह्यपि न मे दुःखं कुर्युरन्ये नराधिपाःक । वीरं गाण्डीवधन्वानमृते जिष्णुं कपिध्वजम् ॥ इति ब्रुवञ्छान्तनवो दिधक्षुरिव पाण्डवम् । शक्तिं भीष्मः स पार्थाय ततश्चिक्षेप भारत ॥ तामस्य विशिखैश्छित्त्वा त्रिधा त्रिभिरपातयत् । पश्यतां कुरुवीराणां सर्वेषां तत्र भारत ॥ चर्माथादत्त गाङ्गेयो जातरूपपरिष्कृतम् । खङ्गं चान्यतरप्रेप्सुर्मृत्योरग्रे जयाय वा ॥ तस्य तच्छतधा चर्म व्यधमत्सायकैस्तथा । रथादनवरूढस्य तदद्भुतमिवाभवत् ॥ ततो युधिष्ठिरो राजा स्वान्यनीकान्यचोदयत् । अभिद्रवत गाङ्गेयं मा वोऽस्तु भयमण्वपि ॥ अथ ते तोमरैः प्रासैर्बाणौघैश्च समन्ततः । पट्टसैश्च सुनिस्त्रिंशैर्नाराचैश्च तथा शितैः ॥ वत्सदन्तैश्च भल्लैश्च तमेकमभिदुद्रुवुः । सिंहनादस्ततो घोरः पाण्डवानामभूत्तदा ॥ तथैव तव पुत्राश्च नेदुर्भीष्मजयैषिणः । तमेकमभ्यरक्षन्त सिंहनादांश्च चक्रिरे ॥ तत्रासीत्तुमुलं युद्धं तावकानां परैः सह । दशमेऽहनि राजेन्द्र भीष्मार्जुनसमागमे ॥ आसीद्धोर इवावर्तो मुहूर्तमुदधेरिव । सैन्यानां युध्यमानानां निघ्नतामितरेतरम् ॥ असौम्यरूपा पृथिवी शोणिताक्ताऽभवत्तदा । समं च विषमं चैव न प्राज्ञायत किञ्चन ॥ योधानामयुतं हत्वा तस्मिन्स दशमेऽहनि । अतिष्ठदाहवे भीष्मो भिद्यमानेषु मर्मसु ॥ ततः सेनामुखे तस्मिन्स्थितः पार्थो धनुर्धरः । मध्येन कुरुसैन्यानां द्रावयामास वाहिनीम् ॥ 'तत्राद्भुतमपश्याम पाण्डवानां पराक्रमम् । द्रावयामासुरिषुभिः सर्वान्भीष्मपदानुगान् ॥' वयं श्वेतहयाद्भीताः कुन्तीपुत्राद्धनञ्जयात् । पीड्यमानाः शितैः शस्त्रैः प्राद्रवाम रणे तदा ॥ 'पाण्डवैः पञ्चभिः सार्धं सात्यकेन च धन्विना । धृष्टद्युम्नसुखैः सर्वैः पाञ्चालैश्च समन्ततःक ॥ भिद्यमानाः शरैस्तीक्ष्णैः सर्वे कार्ष्णिपुरोगमैः । द्रोणद्रौणिकृतैः सार्धं सर्वे शल्यशलादयः । तावकाः समरे राजञ्जहुर्भीष्मं महामृधे ॥' सौवीराः कितवाः प्राच्याःप्रतीच्योदीच्यमालवाः । अभीषाहाः शूरसेनाः शिबयोऽथ वसातयः ॥ साल्वाश्रयास्त्रिगर्ताश्च अम्बष्ठाः केकयैः सह । द्वादशैते जनपदाः शरार्ता व्रणपीडिताः । सङ्ग्रामे प्रजहुर्भीष्मं युध्यमानाः किरीटिना ॥ ततस्तमेकं बहवः परिवार्य समन्ततः । परिकाल्य कुरून्सर्वाञ्शरर्षैरवाकिरन् ॥ निपातयत गृह्णीत युध्यध्वमवकृन्तत । इत्यासीत्तुमुलः शब्दो राजन्भीष्मरथं प्रति ॥ निहत्य समरे राजञ्शतशोऽथ सहस्रशः । न तस्यासीदनिर्भिन्नं गात्रे द्व्यङ्गुलमन्तरम् ॥ एवम्भूतस्तव पिता शरैर्विशकलीकृतः । शिताग्रैः फल्गुनेनाजौ प्राक्शिराः प्रापतद्रथात् ॥ किञ्चिच्छेषे दिनकरे पुत्राणां तव पश्यताम् । हाहेति दिवि देवानां पार्थिवानां च भारत ॥ पतमाने रथाद्भीष्मे बभूव सुमहास्वनः । सम्पतन्तमभिप्रेक्ष्य महात्मानं पितामहम् ॥ सह भीष्मेण सर्वेषां प्रापतन्हृदयानि नः । स पपात महाबाहुर्वसुधामनुनादयन् ॥ इन्द्रध्वज इवोत्सृष्टः केतुः सर्वधनुष्मताम् । धरणीं न स पस्पर्श शरसङ्घैः समावृतः ॥ शलतल्पे महेष्वासं शयानं पुरुषर्षभम् । रथात्प्रपतितं चैनं दिव्यो भावः समाविशत् ॥ अभ्यवर्षच्च पर्जन्यः प्राकम्पत च मेदिनी । पतन्स ददृशे चापि दक्षिणेन दिवाकरम् ॥ सञ्ज्ञां चोपालभद्वीरः कालं सञ्चिन्त्य भारत । अन्तरिक्षे च शुश्राव दिव्या वाचः समन्ततः ॥ कथं महात्मा गाङ्गेयः सर्वशस्त्रभृतां वरः । कालकर्ता नरव्याघ्रः सम्प्राप्ते दक्षिणायने ॥ स्थितोऽस्मीति च गाङ्गेयस्तच्छ्रुत्वा वाक्यमब्रवीत् । धारयिष्याम्यहं प्राणान्पतितिऽपि महीतले ॥ उत्तरायणमन्विच्छन्सुगतिप्रतिकाङ्क्षया । तस्य तन्मतमाज्ञाय गह्गा हिमवतः सुताः ॥ महर्षीन्हंसरूपेण प्रेषयामास तत्र वै । ततस्तं प्रति ते हंसास्त्वरिता मानसौकसः ॥ आजग्मुः सहिता द्रष्टुं भीष्मं कुरुपितामहम् । यत्र शेते नरश्रेष्ठः शरतल्पे पितामहः ॥ ते तु भीष्मं समासाद्य ऋषयो हंसरूपिणः । अपश्यञ्छरतल्पस्थं भीष्मं कुरुकुलोद्वहम् ॥ ते तं दृष्ट्वा महात्मानं कृत्वा चापि प्रदक्षिणम् । गाङ्गेयं भरतश्रेष्ठं दक्षिणेन च भास्करम् ॥ इतरेतरमामन्त्र्य प्राहुस्तत्र मनीषिणः । भीष्मः कथं महात्मा सन्संस्थाता दक्षिणायने ॥ इत्युक्त्वा प्रस्थिता हंसा दक्षिणामभितो दिशम् । सम्प्रेक्ष्य वै महाबुद्धिश्चिन्तयित्वा च भारत ॥ तानब्रवीच्छान्तनवो नाहं गन्ता कथञ्चन । दक्षिणावर्त आदित्ये एतन्मे मनसि स्थितम् ॥ गमिष्यामि स्वकं स्थानमासीद्यन्मे पुरातनम् । उदगायन आदित्ये हंसाः सत्यं ब्रवीमि वः ॥ धारयिष्याम्यहं प्राणानुत्तरायणकाङ्क्षया । प्राणानां च समुत्सर्ग ऐश्वर्यं नियतं मम ॥ तस्मात्प्राणान्धारयिष्ये मुमूर्षुरुदगायने । यश्च दत्तो वरो मह्यं पित्रा तेन महात्मना ॥ छन्दतस्ते भवेन्मृत्युरिति तत्सत्यमस्तु मे । धारयिष्ये ततः प्राणानुत्सर्गे नियते सति ॥ इत्युक्त्वा तांस्तदा हंसान्स शेते शरतल्पगः । एवं कुरूणां पतिते शृङ्गे भीष्मे महौजसि ॥ पाण्डवाः सृञ्जयाश्चैव सिंहनादं प्रचक्रिरे । तस्मिन्हते महासत्वे भरतानां पितामहे ॥ न किञ्चित्प्रत्यपद्यन्त पुत्रास्ते भरतर्षभ । सम्मोहश्चैव तुमुलः करूणामभवत्तदा ॥ कृपदुर्योधनमुखा निःश्वस्य रुरुदुस्ततः । विषादाच्च चिरं कालमतिष्ठन्विगतेन्द्रियाः ॥ दध्युश्चैव महाराज न युद्धे दधिरे मनः । ऊरुग्राहगृहीताश्च नाभ्यधावन्त पाण्डवान् ॥ अवध्ये शन्तनोः पुत्रे हते भीष्मे महौजसि । 'दुःखार्तास्ते ततो राजन्कुरूणां पतयोऽभवन् ।' अभाव सहसा राजन्कुरुराजस्य तर्कितः ॥ हतप्रवीरास्तु वयं निकृत्ताश्च शितैः शरैः । कर्तव्यं नाभिजानीमो निर्जिताः सव्यसाचिना ॥ पाणडवाश्च जयं लब्ध्वा परत्र च परां गतिम् । सर्वे दध्युर्महाशङ्खञ्शूराः परिघवाहवः ॥ सोमकाश्च सपाञ्चालाः प्राहृष्यन्त जनेश्वर । ततस्तूर्यसहस्रेषु नदत्सु स महाबलः ॥ आस्फोटयामास भृशं भीमसेनो ननाद च । सेनयोरुभयोश्चापि गाङ्गेये निहते विभौ ॥ सन्न्यस्य विराः शस्त्राणि प्राध्यायन्त समन्ततः । प्राक्रोशन्प्राद्रवंश्चान्ये जग्मुर्मोहं तथाऽपरे ॥ क्षत्रं चान्येऽभ्यनिन्दन्त भीष्मं चान्येऽभ्यपूजयन् । ऋषयः पितरश्चैव प्रशशसुर्महाव्रतम् ॥ भरतानां च ये पूर्वे ते चैनं प्रशशंसिरे । महोपनिषदं चैव योगमास्थाय विर्यवान् ॥ जपञ्शान्तनवो धीमान्कालाकाङ्क्षी स्थितोऽभवत् ॥ ॥

इति श्रीमन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि दशमदिवसयुद्धे एकोनविंशत्यधिकशततमोऽध्यायः ॥

6-119-26 आत्तमात्तं गृहीतं गृहीतम् ॥ 6-119-37 व्यवसितं निश्चितम् ॥ 6-119-38 निधने समाप्तौ ॥ 6-119-40 मुनितेजसा व्यासप्रभावेन ॥ 6-119-61 अव्यवच्छिन्नाः सन्तताःच ॥ 6-119-66 माघमा कर्कटी प्रोक्ता तदपत्यं तु सेगवा । यथा माघमां कर्कटी मातरं सेगवास्तदपत्यानि कृन्तन्ति उदरस्थान्यपत्यानि पृष्ठं विदार्य वहिर्नर्गच्छन्ति तद्वदित्यर्थः । तेन प्राणापहारिवेदनाजनकत्वं बामानां नेदं शिखण्डिबाणेषु सम्भवति । तेषां मदङ्गे पुष्पतुल्यत्वात् ॥ 6-119-70 अग्रे तेषाम् । मृत्योरिति चतुर्थ्यर्थे षष्ठी । मृत्यवे इत्यर्थः ॥ 6-119-86 प्राणपीडिता इति कo घo पाठः ॥ 6-119-97 कालं मृत्युम् ॥ 6-119-104 दक्षिणेन दक्षिणमार्गस्थं भास्करं च दृष्ट्वेत्यन्वयः ॥ 6-119-105 संस्थाता मरिष्यति ॥ 6-119-109 ऐश्वर्यं स्वसामर्थ्यं स्वच्छन्दमृत्युत्वात् ॥