अध्यायः 118
भीष्मपराक्रमवर्णनम् ॥ 1 ॥ सञ्जय उवाच । असंव्यूढेष्वनीकेषु भूयिष्ठमनुवर्तिषु । ब्रह्मलोकपराः सर्वे समपद्यन्त भारत ॥ च ह्यनीकमनीकेषु समसञ्जत सङ्कले । रथा न रथिभिः सार्धं पादाता न पदातिभिः ॥ अश्वा नाश्वैरयुध्यन्त गजा न गजयोधिभिः । उन्मत्तवन्महाराज युध्यन्ते तत्र भारत ॥ महान्व्यतिकरो रौद्रः सेनयोः समपद्यत । नरनागगणेष्वेवं विकीर्णेषु च सर्वशः ॥ क्षये तस्मिन्महारौद्रे निर्विशेषमजायत । ततः शल्यः कृपश्चैव चित्रसेनश्च भारत ॥ दुःशासनो विकर्णश्च रथानास्थाय भास्वरान् । पाण्डवानां रणे शूरा ध्वजिनीं समकम्पयन् ॥ सा वध्यमाना समरे पाण्डुसेना महात्मभिः । त्रातारं नाध्यगच्छद्वै मञ्जमानेव नौर्जंले ॥ यथा हि शैशिरः कालो गवां मर्माणि कृन्तति । तथा पाण्डुसुतानां वै भीष्मो मर्माणि कृन्तति तथैव तव सैन्यस्य पार्थेन च महात्मना । नवमेघप्रतीकाशाः पातिता बहुधा गजाः ॥ मृद्यमानाश्च दृश्यन्ते पार्थेन नरयूथपाः । इषुभिस्ताड्यमानाश्च नाराचैश्च सहस्रशः ॥ पेतुरार्तस्वरं घोरं कृत्वा तत्र महागजाः । आनद्धाभरणैः कायैर्निहतानां महात्मनाम् ॥ छन्नमायोधनं रेजे शिरोभिश्च सकुण्डलैः । तस्मिन्नेव महाराज महावीरवरक्षये ॥ भीष्मे च युधि विक्रान्ते पाण्डवे च धनञ्जये । ते पराक्रान्तमालोक्य राजन्युधि पितामहम् ॥ अभ्यवर्तन्त ते पुत्राः सर्वे सैन्यपुरस्कृताः । इच्छन्तो निधनं युद्धे स्वर्गं कृत्वा परायणम् ॥ पाण्डवानभ्यवर्तन्त तस्मिन्वीरवरक्षये । पाण्डवापि महाराज स्मरन्तो विविधान्बहून् ॥ क्लेशान्कृतान्सपुत्रेण त्वया पूर्वं नराधिप । भयं त्यक्त्वा रणे शूरा ब्रह्मलोकाय तत्पराः ॥ तावकांस्तव पुत्रांश्च योधयन्ति प्रहृष्टवत् । सेनापतिस्तु समरे प्राह सेनां महारथः ॥ अभिद्रवत गाङ्गेयं सोमकाः सृञ्जयैः सह । सेनापतिवचः श्रुत्वा सोमकाः सृञ्जयाश्च ते ॥ अभ्यद्रवन्त गाङ्गेयं शरवृष्ट्या समाहताः । वध्यमानस्ततो राजन्पिता शान्तनवस्तव ॥ अमर्षवशमापन्नो योधयामास सृञ्जयान् । तस्य कीर्तिमतस्तात पुरा रामेण धीमता ॥ सम्प्रदत्ताऽस्त्रशिक्षा वै परानीकविनाशनी । स तां विद्यामधिष्ठाय कुर्वन्तपरबलक्षयम् ॥ अहन्यहनि पार्थानां वृद्धः कुरुपितामहः । भीष्मो दशसहस्राणि जघान परवीरहा ॥ तस्मिंस्तु दशमे प्राप्ते दिवसे भरतर्षभ । एको भीष्मो हि मत्स्येषु पाञ्चालेषु च संयुगे ॥ गजाश्वममितं हत्वा हत्वा सप्त महारथान् । हत्वा पञ्चसहस्राणि रथानां प्रतिपामहः ॥ नराणां च महायुद्धे सहस्राणि चतुर्दश । दन्तिनां च सहस्राणि हयानामयुतं पुनः ॥ शिक्षबलेन न्यहनत्पिता तव विशाम्पते । ततः सर्वमहीपानां क्षपयित्वा वरूथिनीम् ॥ विराटस्य प्रियो भ्राता शतानीको निपातितः । शतानीकं च समरे हत्वा भीष्मः प्रतापवान् ॥ सहस्राणि महाराज राज्ञां भल्लैरपातयत् । उद्विग्नाः समरे योधा विक्रोशन्ति धनञ्जयम् ॥ ये च केचन पार्थानामभियाता धनञ्जयम् । राजानो भीष्ममासाद्य गतास्ते यमसादनम् ॥ किरन्दश दिशो भीष्मः शरजालैः समन्ततः । अतीत्य सेनां पार्थानामवतस्थे चमूमुखे ॥ स कृत्वा सुमहत्कर्म तस्मिन्वै दशमेऽहनि । सेनयोरन्तरे तिष्ठन्प्रगृहीतशरासनः ॥ न चैनं पार्थिवाः केचिच्छक्ता राजन्निरीक्षितुम् । मध्यं प्राप्तं यथा ग्रीष्मे तपन्तं भास्करं दिवि ॥ यथा दैत्यचमूं शक्रस्तापयामास संयुगे । तथा भीष्मः पाण्डवेयांस्तापयामास भारत ॥ तथा चैनं पराक्रान्तमालोक्य मधुसूदनः । उवाच देवकीपुत्रः प्रीयमाणो धनञ्जयम् ॥ एष शान्तनवो भीष्मः सेनयोरन्तरे स्थितः । सन्निहत्य बलादेनं विजयस्ते भविष्यति ॥ बलात्संस्तम्भयस्वैनं यत्रैषा भिद्यते चमूः । न हि भीष्मशरानन्यः सोढुमुत्सहते विभो ॥ ततस्तस्मिन्क्षणे राजंश्चोदितो वानरध्वजः । सध्वजं सरथं साश्वं भीष्ममन्तर्दधे शरैः ॥ स चापि कुरुमुख्यानामृषभः पाण्डवेरितान् । सरव्रतैः शरव्रातान्बहुधा विदुधाव तान् ॥ ततः पाञ्चालराजश्च धृष्टकेतुश्च वीर्यवान् । पाण्डवो भीमसेनश्च धृष्टद्युम्नश्च पार्षतः ॥ यमौ च चेकितानश्च केकयाः पञ्च चैव ह । सात्यकिश्च महाबाहुः सौभद्रोऽथ घटोत्कचः ॥ द्रौपदेयाः शिखण्डी च कुन्तिभोजश्च वीर्यवान् । विराटश्च महाराज पाण्डवेया महाबलाः ॥ एते चान्ये च बहवः पीडिता भीष्मसायकैः । समुद्धृताः फल्गुनेन निमग्नाः शोकसागरे ॥ ततः शिखण्डी वेगेन प्रगृह्य परमायुधम् । भीष्ममेवाभिदुद्राव रक्ष्यमाणः किरीटिना ॥ ततोऽस्यानुचरान्हत्वा सर्वान्रणविभागवित् । भीष्ममेवाभिदुद्राव बीभत्सुरपराजितः ॥ सात्यकिश्चेकितानश्च धृष्टद्युम्नश्च पार्षतः । विराटो द्रुपदश्चैव माद्रीपुत्रौ च पाण्डवौ ॥ दुद्रुवुर्भीष्ममेवाजौ रक्षिता दृढधन्वना । अभिमन्युश्च समरे द्रौपद्याः पञ्च चात्मजाः ॥ ददृशुः समरे भीष्मं समुद्यतमहायुधम् । ते सर्वे दृढधन्वानः संयुगेष्वपलायिनः ॥ बहुधा भीष्ममानर्च्छुर्मार्गणैः क्षतमार्गणैः । विधूय तान्बाणगणान्ये मुक्ताः पार्थिवोत्तमैः ॥ पाण्डवानामदीनात्मा व्यगाहत वरूथिनीम् । चक्रे शरविघातं च क्रीडन्निव पितामहः ॥ नाभिसन्धत्त पाञ्चाल्ये स्मयमानो मुहुर्मुहुः । स्त्रीत्वं तस्यानुसंस्मृत्य भीष्मो बाणाञ्शिखण्डिने ॥ जघान द्रुपदानीके रथान्सप्त महारथः । ततः किलकिलाशब्दः क्षणेन समभूत्तदा ॥ मत्स्यपाञ्चालचेदीनां तमेकमभिधावताम् । ते नराश्वरथव्रातैर्मार्गणैश्च परन्तप ॥ तमेकं छादयामासुर्मेघा इव दिवाकरम् । भीष्मं भागीरथीपुत्रं प्रतपन्तं रणे रिपून् ॥ ततस्तस्य च तेषां च युद्धे देवासुरोपमे । किरीटी भीष्ममानर्च्छ पुरस्कृत्य शिखण्डिनम् ॥ ॥
इति श्रीमन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि दशमदिवसयुद्धे अष्टादशाधिकशततमोऽध्यायः ॥
6-118-1 अनिवर्तिषु इति झo पाठः ॥ 6-118-4 व्यतिकरः क्षोभः ॥ 6-118-49 अदीनात्मा अक्षीणस्वभावः ॥