अध्यायः 117
सङ्कुलयुद्धवर्णनम् ॥ 1 ॥ सञ्जय उवाच । शिखण्डी तु रणे भीष्ममासाद्य पुरुषर्षभम् । दशभिर्निशितैर्भल्लैराजघान स्तनान्तरे ॥ शिखण्डिनं तु गाङ्गेयः क्रोधदीप्तेन चक्षुषा । सम्प्रेक्षत कटाक्षेण निर्दहन्निव भारत ॥ स्त्रीत्वं तस्य स्मरन्राजन्सर्वलोकस्य पश्यतः । नाजघान रणे भीष्मः स च तन्नावबुद्धवान् ॥ अर्जुनस्तु महाराज शिखण्डिनमभाषत । अभित्वरस्वास्य वधे शिखण्डिन्रथसत्तम ॥ किं ते विवक्षया वीर जहि भीष्मं महारथम् । न ह्यन्यमनुपश्यामि कञ्चिद्यौधिष्ठिरे बले ॥ यः शक्तः समरे भीष्मं योधयेत पितामहम् । ऋते त्वां पुरुषव्याघ्र सत्यमेतद्ब्रवीमि ते ॥ एवमुक्तस्तु पार्थेन शिखण्डी भरतर्षभ । शरैर्नानाविधैस्तूर्णं पितामहमुपाद्रवत् ॥ अचिन्तयित्वा तान्बाणान्पिता देवव्रतस्तव । अर्जुनं समरे क्रुद्धं वारयामास सायकैः ॥ तथैव च चमूं सर्वां पाण्डवानां महारथः । अप्रैषीत्स शरैस्तीक्ष्णैः परलोकाय मारिष ॥ तथैव पाण्डवा राजन्सैन्येन महता वृताः । भीष्मं सञ्छादयामासुर्मेघा इव दिवाकरम् ॥ स समन्तात्परिवृतो भीष्मो हि भरतर्षभ । निर्ददाह रणे शूरान्वने वह्निरिव ज्वलन् ॥ तत्राद्भुतमपश्याम तव पुत्रस्य पौरुषम् । अयोधयच्च यत्पार्थं जुगोप च पितामहम् ॥ कर्मणा तेन समरे तव पुत्रस्य धन्विनः । दुःशासनस्य तुतुषुः सर्वे लोका महात्मनः ॥ यदेकः समरे पार्थान्सानुगान्समयोधयत् । न चैनं पाण्डवा युद्धे वारयामासुरुल्बणम् ॥ दुःशासनेन समरे रथिनो विरथीकृताः । सादिनश्च महेष्वासा हस्तिनश्च महाबलाः ॥ विनिर्भिन्नाः शरैस्तीक्ष्णैर्निपेतुर्वसुधातले । शरातुरास्तथैवान्ये दन्तिनो विद्रुता दिशः ॥ यथाग्निरिन्धनं प्राप्य ज्वलेद्दीप्तार्चिरुल्बणम् । तथा जज्वाल पुत्रस्ते पाण्डुसेनां विनिर्दहन् ॥ तं भारतमहामात्रं पाण्डवानां महारथः । जेतुं नोत्सहते कश्चिन्नाभ्युद्यातुं कथञ्चन ॥ ऋते महेन्द्रतनयाच्छ्वेताश्वात्कृष्णसारथेः । स हि तं समरे राजन्निर्जित्य विजयोऽर्जुनः ॥ भीष्ममेवाभिदुद्राव सर्वसैन्यस्य पश्यतः । विजितस्तव पुत्रोऽपि भीष्मबाहुव्यपाश्रयः ॥ पुनः पुनः समाश्वस्य प्रायुध्यत मदोत्कटः । अर्जुनस्तु रणे राजन्योधयन्संव्यराजत ॥ शिखण्डी तु रणे राजन्विव्याधैव पितामहम् । शरैरशनिसंस्पर्शैस्तथा सर्पविषोपमैः ॥ न च स्म ते रुजं चक्रुः पितुस्तव जनेश्वर । स्मय्रमानस्तु गाङ्गेयस्तान्बाणाञ्जगृहे तदा ॥ उष्णार्तो हि नरो यद्वज्जलधाराः प्रतीच्छति । तथा जग्राह गाङ्गेयः शरधाराः शिखण्डिनः ॥ तं क्षत्रिया महाराज ददृशुर्घोरमाहवे । भीष्मं दहन्तं सैन्यानि पाण्डवानां महात्मनां ॥ ततोऽब्रवीत्तव सुतः सर्वसैन्यानि मारिष । अभिद्रवत सङ्ग्रामे फल्गुनं सर्वतो रणे ॥ भीष्मो वः समरे सर्वान्पायिष्यति धर्मवित् । तद्भयं सुमहत्त्यक्त्वा पाण्डवान्प्रति युध्यत ॥ एष तालेन महता भीष्मस्तिष्ठति पालयन् । सर्वेषां धार्तराष्ट्राणां समरे शर्म वर्म च ॥ देवा अपि समुद्युक्ता नालं भीष्मं समासितुम् । किमु पार्था महात्मानं मर्त्यभूता महाबलाः ॥ तस्माद्द्रवत मा योधाः फल्गुनं प्राप्य संयुगे । अहमद्य रणे यत्तो योधयिष्यामि पाण्डवम् ॥ सहितः सर्वतो यत्तैर्भवद्भिर्वसुधाधिपैः । तच्छ्रुत्वा तु वचो राजंस्तव पुत्रस्य धन्विनः ॥ अर्जुनं प्रति संयत्ता बलवन्तो महाबलाः । ते विदेहाः कलिङ्गाश्च दासेरकगणाश्च ह ॥ अभिपेतुर्निषादाश्च सौवीराश्च महारणे । बाह्लीका दरदाश्चैव प्रतीच्योदीच्यमालवाः ॥ अभीषाहाः शूरसेनाः शिबयोऽथ वसातयः । साल्वः शकास्त्रिगर्ताश्च अम्बष्ठाः केकयौः सह ॥ अभिपेतू रणे पार्थं पतङ्गा इव पावकम् । स तान्सर्वान्सहानीकान्महाराज महारथान् ॥ दिव्यान्यस्त्राणि सञ्चिन्त्य प्रसन्धाय धनञ्जयः । स तैरस्त्रैर्महावेगैर्ददाह सुमहाबलः ॥ शरप्रतापैर्बीभत्सुः पतङ्गानिव पावकः । तस्य बाणसहस्राणि सृजतो दृढधन्विनः ॥ दीप्यमानमिवाकाशे गाण्डीवं समदृश्यत । ते शरार्ता महाराज विप्रकीर्णमहाध्वजाः ॥ नाभ्यवर्तन्त राजानः सहिता वानरध्वजम् । सध्वजा रथिनः पेतुर्हयारोहा हयैः सह ॥ सगजाश्च गजारोहाः किरीटिशरताडिताः । ततोऽर्जुनभुजोत्सृष्टैरावृताऽऽसीद्वसुन्धरा ॥ विद्रुतं दिक्षु सर्वासु शरैर्बलमदृश्यत । अथ पार्थो महाराज द्रावयित्वा वरूथिनीम् ॥ दुःशासनाय सुबहून्प्रेषयामास सायकान् । ते तु भित्त्वा तव सुतं दुःशासनमयोमुखाः ॥ धरणीं विविशुः सर्वे वल्मीकमिव पन्नगाः । हयांश्चास्य ततो जघ्ने सारथिं च न्यपातयत् ॥ विविंशतिं च विंशत्या विरथीकृतवान्प्रभुः । आजघान भृशं चैव पञ्चभिर्नतपर्वभिः ॥ कृपं विकर्णं शल्यं च विद्ध्वा बहुभिरायसैः । चकार विरथांश्चैव कौन्तेयः श्वेतवाहनः ॥ एवं ते विरथाः सर्वे कृपः शल्यश्च मारिष । दुःशासनो विकर्णश्च तथैव च विविंशतिः ॥ सम्प्राद्रवन्त समरे निर्जिताः सव्यसाचिना । पूर्वाह्णे भरतश्रेष्ठ पराजित्य महारथान् ॥ प्रजज्वाल रणे पार्थो विधूम इव पावकः । तथैव शरवर्षेण भास्करो रश्मिवानिव ॥ अन्यानपि महाराज तापयामास पार्थिवान् । पराङ्मुखीकृत्य तथा शरवर्षैर्महारथान् ॥ प्रावर्तयत सङ्ग्रामे शोणितोदां महानदीम् । मध्येन कुरुसैन्यानां पाण्डवानां च भारत ॥ तस्मिन्नतिमहाभीमे राजन्वीरवरक्षये । भीष्मं प्रति पराक्रान्ताः पाण्डवाः सह सृञ्जयैः ॥ ते पराक्रान्तमालोक्य युधि राजन्पितामहम् । न न्यवर्तन्त ते पुत्रा ब्रह्मलोकपुरस्कृताः ॥ इच्छन्तो निधनं युद्धे स्वर्गलोकपरायणाः । पाण्डवानभ्यवर्तन्त तावका युद्धदुर्मदाः ॥ पाण्डवाश्च महाराज स्मरन्तो विविधान्बहून् । क्लेशान्कृतान्सपुत्रेण त्वया पूर्वं नराधिप ॥ भयं त्यक्त्वा रणे शूराः स्वर्गलोकपुरस्कृताः । तावकांस्तव पुत्रांश्च योधयन्ति स्म हृष्टवत् ॥ गजाश्च रथसङ्घाश्च बहुधा रथिभिर्हताः । रथाश्च निहता नागैर्हयाश्चैव पदातिभिः ॥ अन्तरा च्छिद्यमानानि शरीराणि शिरांसि च । निपेतुर्दिक्षु सर्वासु गजाश्वरथयोधिनाम् ॥ छन्नमायोधनं राजन्कुण्डलाङ्गदधारिभिः । पतितैः पात्यमानैश्च राजपुत्रैर्महारथैः ॥ रथनेमिनिकृत्तैश्च गजैश्चैवावपोथितैः । पादातश्चाप्यधावन्त साश्वाश्च हययोधिनः ॥ गजाश्च रथयोधाश्च परिपेतुः समन्ततः । विकीर्णाश्च रथा भूमौ भग्रचक्रयुगध्वजाः ॥ तद्गजाश्वरथौघानां रुधिरेण समुक्षितम । छन्नमायोधनं रेजे रक्ताभ्रमिव शारदम् ॥ श्वानः काकाश्च गृध्राश्च वृका गोमायुभिः सह । प्रणेर्दुर्भक्ष्यमासाद्य विकृताश्च सगद्विजाः ॥ ववुर्बहुविधश्चैव दिक्षु सर्वासु मारुताः । दृश्यमानेषु रक्षःसु भूतेषु च नदत्सु च ॥ काञ्चनानि च दामानि पताकाश्च महाधनाः । धूयमाना व्यदृश्यन्त सहसा मारुतेरिताः ॥ श्वेतच्छत्रसहस्राणि सध्वजाश्च महारथाः । विकीर्णाः समदृश्यन्त शतशोऽथ सहस्रशः ॥ सपताकाश्च मातङ्गा दिशो जग्मुः शरातुराः । क्षत्रियाश्च मनुष्येन्द्र गदाशक्तिधनुर्धराः ॥ समन्ततश्च दृश्यन्ते पतिता धरणीतले । 'इषुभिस्ताड्यमानाश्च नाराचैश्च सहस्रशः ।' पेतुरार्तस्वरं कृत्वा तत्रतत्र महागजाः ॥ सेनापतिस्तु समरे प्राह सेनां महारथः । अभ्यद्रवत गाङ्गेयं सैनिकाः किं कृतेन वः ॥ सेनापतिवचः श्रुत्वा सोमकाः सह सृञ्जयैः । अभ्यद्रवन्त गोङ्गेयं शस्त्रवृष्ट्या समन्ततः ॥ ततो भीष्मो महाराज दिव्यमस्त्रमुदीरयन् । अभ्यधावत कौन्तेयं मिषतां सर्वधन्विनाम् ॥ तं शिखण्डी रणे यान्तमभ्यद्रवत दंशितः । ततः समाहरद्भीष्मस्तदस्त्रं पावकोपमम् ॥ एतस्मिन्नेव काले तु कौन्तेयः श्वेतवाहनः । निजघ्ने तावकं सैन्यं मोहयित्वा पितामहम् ॥ ॥
इति श्रीमन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि दशमदिवसयुद्धे सप्तदशाधिकशततमोऽध्यायः ॥
6-117-5 विवक्षया विचारेण संशयेन वा ॥ 6-117-9 तीक्ष्णैस्तदा शरैः प्रैषीत् इति डo पाठः ॥ 6-117-14 उल्बणमुग्रम् ॥ 6-117-18 भारतमहामात्रं भरतवंशश्रेष्ठम् ॥ 6-117-28 शर्म सुखहेतुत्वात् । वर्म रक्षाहेतुत्वात् ॥ 6-117-29 समासितुं उपसर्पितुं नाशयितुं वा । मर्त्यभूताः मर्त्यस्वरूपाः ॥ 6-117-30 तस्माद्द्रवत हे योधाः इति कo पाठः ॥ 6-117-63 भूतेषु प्रेतेषु ॥ 6-117-64 महाधनाः बहुमूल्याः ॥