अध्यायः 116

सङ्कुलयुद्धवर्णनम् ॥ 1 ॥ सञ्जय उवाच । अभिमन्युर्महाराज तव पुत्रमयोधयत् । महत्या सेनया युक्तं भीष्महेतोः पराक्रमी ॥ दुर्योधनो रणे कार्षिं नवभिर्नतपर्वभिः । आजघानोरसि क्रुद्धः पुनश्चैनं त्रिभिः शरैः ॥ तस्य शक्तिं रणे कार्ष्णिर्मृत्योर्जिह्वामिवायसीम् । प्रेषयामास सङ्क्रुद्धो दुर्योधनरथं प्रति ॥ तामापतन्तीं सहसा घोररूपां विशाम्पते । द्विधा चिच्छेद ते पुत्रः क्षुरप्रेण महारथः ॥ तां शक्तिं पतितां दृष्ट्वा कार्ष्णिः परमकोपनः । दुर्योधनं त्रिभिर्बाणैर्बाह्वोरुरसि चार्पयत् ॥ पुनश्चैनं शरैर्घोरैराजघान स्तनान्तरे । दशभिर्भरतश्रेष्ठ दुर्योधनममर्षणम् ॥ तद्युद्धमभवद्धोरं चित्ररूपं च भारत । ईक्षितृप्रीतितजननं सर्वपार्थिवपूजितम् ॥ भीष्मस्य निधनार्थाय पार्थस्य विजयाय च । युयुधाते रणे वीरौ सौभद्रकुरुपुङ्गवौ ॥ सात्यकिं रभसं युद्धे द्रौणिर्ब्राह्मणपुङ्गवः । आजघानोरसि क्रुद्धो नाराचेन परन्तपः ॥ शैनेयोऽपि गुरोः पुत्रं सर्वमर्मसु भारत । अताडयदमेयात्मा नवभिः कङ्कपत्रिभिः ॥ अश्वत्थामा तु समरे सात्यकिं नवभिः शरैः । त्रिंशता च पुनस्तूर्णं बाह्वोरुरसि चार्पयत् ॥ सोऽतिविद्धो महेष्वासो द्रोणपुत्रेण सात्यकिः । द्रोणपुत्रं त्रिभिर्बाणैराजघान महायशाः ॥ पौरवो धृष्टकेतुं च शरैराच्छाद्य संयुगे । बहुधा दारयाञ्चक्रे महेष्वासं महारथः ॥ तथैव पौरवं युद्धे धृष्टकेतुर्महारथः । त्रिंशता निशितैर्बाणैर्विव्याधाशु महाभुजः ॥ पौरवस्तु धनुश्छित्त्वा धृष्टकेतोर्महारथः । ननाद बलवन्नादं विव्याध च शितैः शरैः ॥ सोऽन्यत्कार्मुकमादाय पौरवं निशितैः शरैः । आजघान महाराज त्रिसप्तत्या शिलीमुखैः ॥ तौ तु तत्र महेष्वासौ महामात्रौ महारथौ । महता शरवर्षेण परस्परमवर्षताम् ॥ अन्योन्यस्य धनुश्छित्त्वा हयान्हत्वा च भारत । विरथावसियुद्धाय समीयतुरमर्षणौ ॥ आर्षभे चर्मणी चित्रे शतचन्द्रपुरस्कृते । तारकाशतचित्रे च निस्त्रिंशौ सुमहाप्रभौ ॥ प्रगृह्य विमलौ राजंस्तावन्योन्यमभिद्रुतौ । वासितासङ्गमे यत्तौ सिंहाविव महावने ॥ मण्डलानि विचित्राणि गतप्रत्यागतानि च । चेरतुर्दर्शयन्तौ च प्रार्थयन्तौ परस्परम् ॥ पौरवो धृष्टकेतुं तु शङ्खदेशे महासिना । ताडयामास सङ्क्रुद्धस्तिष्ठतिष्ठेति चाब्रवीत् ॥ चेदिराजोऽपि समरे पौरवं पुरुषर्षभम् । आजघान शिताग्रेण जत्रुदेशे महासिना ॥ तावन्योन्यं महाराज समासाद्य महाहवे । अन्योन्यवेगाभिहतौ निपेततुररिन्दमौ ॥ ततः स्वरथमारोप्य पौरवं तनयस्तव । जयत्सेनो रथेनाजावपोवाह रणाजिरात् ॥ धृष्टकेतु तु समरे माद्रीपुत्रः प्रतापवान् । अपोवाह रणे क्रुद्धः सहदेवः पराक्रमी ॥ चित्रसेनः सुशर्माणं विद्ध्वा बहुभिरायसैः । पुनर्विव्याध तं षष्ट्या पुनश्च नवभि शरैः ॥ सुशर्मा तु रणे क्रुद्धस्तव पुत्रं विशाम्पते । दशमिर्दशभिश्चैव विव्याध निशितैः शरैः ॥ चित्रसेनश्च तं राजंस्त्रिंशता नतपर्वभिः । आजघान रमे क्रुद्धः स च तं प्रत्यविध्यत ॥ भीष्मस्य समरे राजन्यशो मानं च वर्धयन् । सौभद्रो राजपुत्रं तु बृहद्बलमयोधयत् ॥ पार्थहेतोः पराक्रान्तो भीष्मस्य निधनं प्रति । आर्जुनिं कोसलेन्द्रस्तु विद्ध्वा पञ्चभिरायसैः ॥ पुनर्विव्याध विंशत्या शरैः सन्नतपर्वभिः । सौभद्रः कोसलेन्द्रं तु विव्याधाष्टभिरायसैः ॥ नाकम्पयत सङ्ग्रामे विव्याध च पुनः शरैः । कौसल्यस्य धनुश्चापि पुनश्चिच्छेद फाल्गुनिः ॥ आजघान शरैश्चापि त्रिंशता कङ्कपत्रिभिः । सोऽन्यत्कार्मुकमादाय राजपुत्रो बृहद्बलः ॥ फाल्गुनिं समरे क्रुद्धो विव्याध बहुभिः शरैः । तयोर्युद्धं समभवद्भीष्महेतोः परन्तप ॥ संरब्धयोर्महाराज समरे चित्रयोधिनोः । यथा देवासुरे युद्धे बलिवासवयोरभूत् ॥ भीमसेनो गजानीकं योधयन्बह्वशोभत । यथा शक्रो वज्रपाणिर्दारयन्पर्वतोत्तमान् ॥ ते वध्यमाना भीमेन मात्गा गिरिसन्निभाः । निपेतुरुर्व्यां सहिता नादयन्तो वसुधराम् ॥ गिरिमात्रा हि ते नागा भिन्नाञ्जनचयोपमाः । विरेजुर्वसुधां प्राप्ता विकीर्णा इव पर्वताः ॥ युधिष्ठिरो महेष्वासो मद्रराजानमाहवे । महत्या सेनया गुप्तं पीडयामास सङ्गतम् ॥ मद्रेश्वरश्च समरे धर्मपुत्रं महारथम् । पीडयामास संरब्धो भीष्महेतोः पराक्रमी ॥ विराटं सैन्धवो राजा विद्ध्वा सन्नतपर्वभिः । नवभिः सायकैस्तीक्ष्णैस्त्रिंशता पुनरार्पयत् ॥ विराटश्च महाराज सैन्धवं वाहिनीपतिः । त्रिंशद्भिर्निशितैर्बाणैराजघान स्तनान्तरे ॥ चित्रकार्मुकनिस्त्रिंशौ चित्रवर्मायुधध्वजौ । रेजतुश्चित्ररूपौ तौ सङ्ग्रामे मत्स्यसैन्धवौ ॥ द्रोणः पाञ्चालपुत्रेण समागम्य महारणे । महासमुदयं चक्रे शरैः सन्नतपर्वभिः ॥ ततो द्रोणो महाराज पार्षतस्य महद्धनुः । छित्त्वा पञ्चाशतेषूंश्च पार्षतं प्रति सृष्टवान् ॥ सोऽन्यत्कार्मुकमादाय पार्षतः परवीरहा । द्रोणस्य मिषतो युद्धे प्रेषयामास सायकान् ॥ ताञ्छराञ्छरघातेन चिच्छेद स महारथः । द्रोणो द्रुपदपुत्राय प्राहिणोत्पञ्च सायकान् ॥ ततः क्रुद्धो महाराज पार्षतः परवीरहा । द्रोणाय चिक्षेप गदां यमदण्डोपमां रणे ॥ तामापतन्तीं सहसा हेमपट्टविभूषिताम् । शरैः पञ्चाशता द्रोणो वारयामास संयुगे ॥ सा छिन्ना बहुधा राजन्द्रोगचापच्युतैः शरैः । चूर्णीकृता विशीर्यन्ती पपात वसुधातले ॥ गदां विनिहतां दृष्ट्वा पार्षतः शत्रुतापनः । द्रोणाय शक्तिं चिक्षेप सर्वपारशवीं शुभाम् ॥ तां द्रोणो नवभिर्बाणैश्चिच्छेद युधि भारत । पार्षतं च महेष्वासं पीजयामास संयुगे ॥ एवमेतन्महायुद्धं द्रोणपार्षतयोरभूत् । भीष्मं प्रति महाराज घोररूपं भयानकम् ॥ अर्जुनः प्राप्य गाङ्गेयं पीडयन्निशितैः शरैः । अभ्यद्रवत संयत्तो वने मत्तमिव द्विपम् ॥ प्रत्युद्ययौ च तं राजा भगदत्तः प्रतापवान् । त्रिधा भिन्नेन नागेन मदान्धेन महाबलः ॥ तमापतन्तं सहसा महेन्द्रगजसन्निभम् । परं यत्नं समस्थाय बीभत्सुः प्रत्यपद्यत ॥ ततो गजगतो राजा भगदत्तः प्रतापवान् । अर्जुनं शरवर्षेण वारयामास संयुगे ॥ अर्जुनस्तु ततो नागमायान्तं रजतोपमैः । विमलैरायसैस्तीक्ष्णैरविध्यत महारणे ॥ शिखण्डिनं च कौन्तेयो याहियाहीत्यचोदयत् । भीष्मं प्रति महाराज जह्येनमिति चाब्रवीत् ॥ प्राग्ज्योतिषस्ततो हित्वा पाण्डवं पाण्डुपूर्वज । प्रययौ त्वरितो राजन्द्रुपदस्य रथं प्रति ॥ ततोऽर्जुनो महाराज भीष्ममभ्यद्रवद्द्रुतम् । शिखण्डिनं पुरस्कृत्य ततो युद्धमवर्तत । ततस्ते तावकाः शूराः पाण्डवं रभसं युधि । समभ्यधावन्क्रोशन्तस्तदद्भुतमिवाभवत् ॥ नानाविधान्यनीकानि पुत्राणां ते जनाधिप । अर्जुनो व्यधमत्काले दिवीवाभ्राणि मारुतः ॥ शिखण्डी तु समासाद्य भरतानां पितामहम् । इषुभिस्तूर्णमव्यग्रो बहुभिः स समाचिनोत् ॥ रथाग्न्यगारश्चापार्चिरशिशक्तिगदेन्धनः । शरसङ्घमहाज्वालः क्षत्रियान्समरेऽदहत् ॥ यथाऽग्निः सुमहानिद्धः कक्षे चरति सानिलः । तथा जज्वाल भीष्मोऽपि दिव्यान्यस्त्राण्युदीरयन् ॥ सोमकांश्च रणे भीष्मो जघ्ने पार्थपदानुगान् । न्यवारयत तत्सैन्यं पाण्डवस्य महारथः ॥ सुवर्णपुङ्खैरिषुभिः शितैः सन्नतपर्वभिः । नादयन्स दिशो भीष्मः प्रदिशश्च महाहवे ॥ पातयन्रथिनो राजन्हयांश्च सह सादिभिः । मुण्डतालवनानीव चकार स रथव्रजान् ॥ निर्मनुष्यान्रथान्राजन्गजानश्वांश्च संयुगे । चकार समरे भीष्मः सर्वशस्त्रभृतां वरः ॥ तस्य ज्यातलनिर्घोषं विस्फूर्जितमिवाशनेः । निशम्य सर्वतो राजन्समकम्पन्त सैनिकाः ॥ अघोमा न्यपतन्बाणाः पितुस्ते मनुजेश्वर । नासञ्जन्त शरीरेषु भीष्मचापच्युताः शराः ॥ निर्मनुष्यान्रथान्राजन्सुयुक्ताञ्जवनैर्हयैः । वातायमानानद्राक्षं ध्रियमाणान्विशाम्पते ॥ चेदिकाशिकरूशानां सहस्राणि चतुर्दश । महारथाः समाख्याताः कुलपुत्रास्तनुत्यजः ॥ अपरावर्तिनः शूराः सुवर्णविकृतध्वजाः । सङ्ग्रामे भीष्ममासाद्य सवाजिरथकुञ्जराः ॥ जग्मुस्ते परलोकाय व्यादितास्यमिवान्तकम् । न तत्रासीद्रणे राजन्सोमकानां महारथः ॥ यः सम्प्राप्य रणे भीष्मं जीविते स्म मनो दधे । तांश्च सर्वान्रणे योधान्प्रेतराजपुरं प्रति ॥ नीतानमन्यन्त जना दृष्ट्वा भीष्मस्य विक्रमम् । न कश्चिदेनं समरे प्रत्युद्याति महारथः ॥ ऋते पाण्डुसुतं वीरं श्वेताश्वं कृष्णसारथिम् । शिखण्डिनं च समरे पाञ्चाल्यममितौजसम् ॥ ॥

इति श्रीमन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि दशमदिवसयुद्धे षोडशाधिकशततमोऽध्यायः ॥

6-116-27 चित्रसेन इति । पाण्डवपक्षीयः सुशर्मायमपरो वार्धक्षेमिर्नतु त्रैगर्तः ॥ 6-116-45 समुदयं सङ्ग्रामम् । भवेत्समुदयः सङ्घे संयुगे च समुद्रमे इति मेदिनी ॥