अध्यायः 115
युद्धे विरक्तेन भीष्मेण युधिष्ठिरम्प्रति स्ववधोद्यमचोदना ॥ 1 ॥ धृतराष्ट्र उवाच । कथं शान्तनवो भीष्मो दशमेऽहनि सञ्जय । अयुध्यत महावीर्यः पाण्डवैः सह सृज्जयैः ॥ कुरवश्च कथं युद्धे पाण्डवान्प्रत्यवारयन् । आचक्ष्व मे महायुद्धं भीष्मस्याहवशोभिनः ॥ सञ्जय उवाच । कुरवः पाण्डवैः सार्धं यदयुध्यन्त भारत । यथा च तदभूद्युद्धं तत्तु वक्ष्यामि साम्प्रतम् ॥ गमिताः परलोकाय परमास्त्रैः किरीटिना । अहन्यहनि सम्प्राप्ते तावकानां महारथाः ॥ यथाप्रतिज्ञं कौरव्यः स चापि समितिञ्जयः । पार्थानामकरोद्भीष्मः सततं समिति क्षयम् ॥ कुरुभिः सहितं भीष्मं युध्यमानं परन्तप । अर्जुनं च सपाञ्चाल्यं दृष्ट्वा संशयिता जनाः ॥ दशमेऽहनि तस्मिंस्तु भीष्मार्जुनसमागमे । अवर्तत महारौद्रः सततं समिति क्षयः ॥ तस्मिन्नयुतशो राजन्भूयशश्च परन्तपः । भीष्मः शान्तनवो योधाञ्जघान परामास्त्रवित् ॥ येषामज्ञातकल्पानि नामगोत्राणि पार्थिव । ते हतास्तत्र भीष्मेण शूराः सर्वेऽनिवर्तिनः ॥ दशाहानि तथा तप्त्वा भीष्मः पाण्डववाहिनीम् । निरविद्यत धर्मात्मा जीविते स परन्तपः ॥ स क्षिप्रं वधमन्विच्छन्नात्मनोऽभिसुखं रणे । न हन्यां मानवश्रेष्ठान्सङ्ग्रामेऽभिमुखानिति ॥ चिन्तयित्वा महाबाहुः पिता देवव्रतस्तव । अभ्याशस्थं महाराज पाण्डवं वाक्यमब्रवीत् ॥ भीष्म उवाच । युधिष्ठिर महाप्राज्ञ सर्वशास्त्रविशारद । शृणुष्व वचनं तात धर्म्यं स्वर्ग्यं च जल्पतः ॥ निर्विष्णोऽस्मि भृशं तात देहेनानेन भारत । घ्नतश्च मे गतः कालः सुबहून्प्राणिनो रणे ॥ तस्मात्पार्थं पुरोधाय पाञ्चालान्सृज्जयांस्तथा । मद्वधे क्रियतां यत्नो मम चेदिच्छसि प्रियम् ॥ सञ्जय उवाच । तस्य तन्मतमाज्ञाय पाण्डवः सत्यदर्शनः । भीष्मं प्रति ययौ राजा सङ्ग्रामे सह सृञ्जयैः ॥ धृष्टद्युम्नस्ततो राजन्पाण्डवश्च युधिष्ठिरः । श्रुत्वा भीष्मस्य तां वाचं चोदयामासतुर्बलम् ॥ अभिद्रवध्यं युद्ध्यध्वं भीष्मं जयत संयुगे । रक्षिताः सत्यसन्धेन जिष्णुना रिपुजिष्णुना ॥ अयं चापि महेष्वासः पार्षतो वाहिनीपतिः । भीमसेनश्च समरे पालयिष्यति वो ध्रुवम् ॥ मा वो भीष्माद्भयं किञ्चिदस्त्वद्य युधि सृञ्जयाः । ध्रुवं भीष्मं विजेष्यामः पुरस्कृत्य शिखण्डिनम् ॥ ते तथा समयं कृत्वा दशमेऽहनि पाण्डवाः । ब्रह्मलोकपरा भूत्वा सञ्जग्मुः क्रोधमूर्च्छिताः ॥ शिखण्डिनं पुरस्कृत्य पाण्डवं च धनञ्जयम् । भीष्मस्य पातने यत्नं परमं ते समास्थिताः ॥ ततस्त्व सुतादिष्टा नानाजनपदेश्वराः । द्रोणेन सहपुत्रेण सहसेना महाबलाः ॥ दुःशासनश्च बलवान्सह सर्वैः सहोदरैः । भीष्मं समरमध्यस्थं पालयाञ्चक्रिरे तदा ॥ ततस्तु तावकाः शूराः पुरस्कृत्य महाव्रतम् । शिखण्डिप्रमुखान्पार्थान्योधयन्ति स्म संयुगे ॥ चेदिभिस्तु सपाञ्चालैः सहितो वानरध्वजः । ययौ शान्तनवं भीष्मं पुरस्कृत्य शिखण्डिनम् ॥ द्रोणपुत्रं शिनेर्नप्ता धृष्टकेतुस्तु पौरवम् । अभिमन्युः सहामात्यं दुर्योधमयोधयत् ॥ विराटस्तु सहानीकः सहसेनं जयद्रथम् । वृद्धक्षत्रस्य दायादमाससाद परन्तप ॥ मद्रराजं महेष्वासं सहसैन्यं युधिष्ठिरः । भीमसेनोऽभिगुप्तस्तु नागानीकमुपाद्रवत् ॥ अप्रधृष्यमनावार्यं सर्वशस्त्रभृतां वरम् । द्रोणं प्रति ययौ यत्तः पाञ्चाल्यः सह सोदरैः ॥ कर्णिकारध्वजं चैव सिंहकैतुररिन्दमः । प्रत्युज्जगाम सौभद्रं राजपुत्रो बृहद्बलः ॥ शिखण्डिनं च पुत्रास्ते पाण्डवं च धनञ्जयम् । राजभिः समरे पार्थमभिपेतुर्जिघांसवः ॥ तस्मिन्नतिमहाभीमे सेनयोर्वै पराक्रमे । सम्प्रधावत्स्वनीकेषु मेदिनी समकम्पत ॥ तान्यनीकान्यनीकेषु समयुध्यन्त भारत । तावकानां परेषां च दृष्ट्वा शान्तनवं रणे ॥ ततस्तेषां प्रयततामन्योन्यमभिधावताम् । प्रादुरासीन्महाशब्दो दिक्षु सर्वासु भारत ॥ शङ्खदुन्दुभिघोषश्च वारणानां च बृंहितैः । सिंहनादश्च सैन्यानां दारुणः समपद्यत ॥ सा च सर्वनरेन्द्राणां चन्द्रार्कसदृशी प्रभा । हाराङ्गदकिरीटेषु निष्प्रभा समपद्यत ॥ रजोमेघास्तु सञ्जज्ञुः शस्त्रविद्युद्भिरावृताः । धनुषां चापि निर्घोषो दारुणः समपद्यत ॥ बाणशङ्खप्रणादाश्च भेरीणां च महास्वनाः । रथघोषश्च सञ्जज्ञे सेनयोरुभयोरपि ॥ प्रासशक्त्यृष्टिसङ्घैश्च बाणौघैश्च समाकुलम् । निष्प्रकाशमिवाकाशं सेनयोः समपद्यत ॥ अन्योन्यं रथिनः पेतुर्वाजिनश्च महाहवे । कुञ्जरान्कुञ्जरा जघ्नुः पादातांश्च पदातयः ॥ तत्रासीत्सुमहद्युद्धं कुरूणां पाण्डवैः सह । भीष्महेतोर्नरव्याघ्र श्येनयोरामिषे यथा ॥ तयोः समागमो घोरो बभूव युधि भारत । अन्योन्यस्य वधार्थाय जिगीषूणां महाहवे ॥ ॥
इति श्रीमन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि दशमदिवसयुद्धे पञ्चादशाधिकशततमोऽध्यायः ॥
6-115-10 निरविद्यत निर्वेदं जगाम ॥ 6-115-14 निर्विण्यो विरक्तः ॥ 6-115-21 ब्रह्मलोकपराः बृहत्त्वान्महान्तं लोकं प्रति यतमानाः ॥