अध्यायः 114
भीमार्जुनपराक्रमवर्णनम् ॥ 1 ॥ सञ्जय उवाच । अर्जुनस्तु रणे शल्यं यतमानं महारथम् । छादयामास समरे शरैः सन्नतपर्वभिः ॥ सुशर्माणं कृपं चव त्रिभीस्त्रिभिरविध्यत । प्राग्ज्योतिषं च समरे सैन्धवं च जयद्रथम् ॥ चित्रसेनं विकर्णं च कृतवर्माणमेव च । दुर्मर्षणं च राजेन्द्र ह्यावन्त्यौ च महारथौ ॥ एकैकं त्रिभिरानर्च्छत्कङ्कबर्हिणवाजितैः । शरैरतिरथो युद्धे पीडयन्वाहिनीं तव ॥ जयद्रथो रणे पार्थं विद्ध्वा भारत सायकैः । भीमं विव्याध तरसा चित्रसेनरथे स्थितः ॥ शल्यश्च समरे जिष्णुं कृपश्च रथिनां वरः ॥ विव्याधाते महाराज बहुधा मर्ममेदिभिः ॥ चित्रसेनादयश्चैव पुत्रास्तव विशाम्पते । पञ्चाभिः पञ्चभिस्तूर्णं सुंयुगे निशितैः शरैः ॥ आजघ्नुरर्जुनं सङ्ख्ये भीमसेनं च मारिष । तौ तत्र रथिनां श्रेष्ठौ कौन्तेयौ भरतर्षभौ ॥ अपीडयेतां समरे त्रिगर्तानां महद्बलम् । सुशर्माणि रणे पार्थं शरैर्नवभिराशुगैः ॥ ननाद बलवन्नादं त्रासयानो महद्बलम् । अन्ये च रथिनः शूरा भीमसेनधनञ्जयौ ॥ विव्यधुर्निशितैर्बाणै रुक्मपुङ्खैरजिह्मगैः । तेषां च रथिनां मध्ये कौन्तेयौ भरतर्षभौ ॥ क्रीडमानौ रथोदारौ चित्ररूपौ व्यदृश्यताम् । आमिषेप्सू गवां मध्ये सिंहाविव मदोत्कटौ ॥ छित्त्वा धनूंषि शूराणां शरांश्च बहुधा रणे । पातयामासतुर्वीरौ शिरांसि शतशो नृणाम् ॥ रथाश्च बहवो भग्ना हयाश्च शतशो हताः । गजाश्च सगजारोहाः पेतुरुर्व्यां महाहवे ॥ रथिनः सादिनश्चापि तत्रतत्र निषूदिताः । दृश्यन्ते बहवो राजन्वेषमानाः समन्ततः ॥ हतैर्गजपदात्योघैर्वाजिभिश्च निषूदितैः । रथैश्च बहुधा भग्नैः समास्तीर्यत मेदिनी ॥ छत्रैश्च बहुधा च्छिन्नैर्ध्वजैश्च विनिपातितैः । अङ्कुशैरपविद्धैश्च परिस्तोमैश्च भारत ॥ केयूरैरङ्गदैर्हारै राङ्कवैर्मृदितैस्तथा । उष्णीषैर्ऋष्टिभिश्चैव चामरव्यजनैरपि ॥ तत्रतत्रापविद्धैश्च बाहुभिश्चन्दनोक्षितैः । ऊरुभिश्च नरेन्द्राणां समास्तीर्यत मेदिनी ॥ तत्राद्भुतमपश्याम रणे पार्थस्य विक्रमम् । शरैः संवार्य तान्वीरान्यज्जघान महाबलः ॥ पुत्रस्तु तव तं दृष्ट्वा भीमार्जुनपराक्रमम् । गाङ्गेयस्य रथाभ्याशमुपजग्मे महाबलः ॥ कृपश्च कृतवर्मा च सैन्धवश्च जयद्रथः । विन्दानुविन्दावावन्त्यौ नाजहुः संयुगं तदा ॥ ततो भीमो महेष्वासः फल्गुनश्च महारथः । कौरवाणां चमूं घोरां भृशं दुद्रुवतू रणे ॥ ततो बर्हिणवाजानामयुतान्यर्बुदानि च । धनञ्जयरथे तूर्णं पातयन्ति स्म भूमिपाः ॥ ततस्तञ्शरजालेन सन्निवार्य महारथान् । पार्थः समन्तात्समरे प्रेषयामास मृत्यवे ॥ शल्यस्तु समरे जिष्णुं क्रीडन्निव महारथः । आजघानोरसि क्रुद्धो भल्लैः सन्नतपर्वभिः ॥ तस्य पार्थो धनुश्छित्त्वा हस्तावापं च पञ्चभिः । अथैनं सायकैस्तीक्ष्णैर्भृशं विव्याध मर्मणि ॥ अथान्यद्धनुरादाय समरे भारसाधनम् । मद्रेश्वरो रणे जिष्णुं ताडयामास रोषितः ॥ त्रिभिः शरैर्महाराज वासुदेवं कच पञ्चभिः । भीमसेनं च नवभिर्बाह्वोरुरसि चार्पयत् ॥ ततो द्रोणो महाराज मागधश्च महारथः । दुर्योधनसमादिष्टौ तं देशमुपजग्मतुः ॥ यत्र पार्थो महाराज भीमसेनश्च पाण्डवः । कौरव्यस्य महासेनां जघ्नुतुः सुमहारथौ ॥ जयत्सेनस्तु समरे भीमं भीमायुधं युधि । विव्याध निशितैर्बाणैरष्टभिर्भरतर्षभ ॥ तं भीमो दशभिर्विद्धा पुनर्वीव्याध पञ्चभिः । सारथिं चास्य भल्लेन रथनीडादपातयत् ॥ उद्भ्रान्तैस्तुरगैः सोऽथ द्रवमाणैः समन्ततः । मागधोऽपसृतो राजा सर्वसैन्यस्य पश्यतः ॥ द्रोणश्च विवरं दृष्ट्वा भीमसेनं शिलीमुखैः । विव्याध बाणैर्निशितैः पञ्चषष्टिभिरायसैः ॥ तं भीमः समरश्लाघी गुरुं पितृसमं रणे । विव्याध पञ्चभिर्भल्लैस्तथा षष्ट्या च भारत ॥ अर्जुनस्तु सुशर्माणं विद्ध्वा बहुभिरायसैः । व्यधमत्तस्य तत्सैन्यं महाभ्राणि यथाऽनिलः ॥ ततो भीष्मश्च राज च कौसल्यश्च बृहद्बलः । समवर्तन्त सङ्क्रुद्धा भीमसेनधनञ्जयौ ॥ तथैव पाण्डवाः शूरा धृष्टद्युम्नश्च पार्षतः । अभ्यद्रवन्रणे भीष्मं व्यादितास्यमिवान्तकम् ॥ शिखण्डी तु समासाद्य भरतानां पितामहम् । अभ्यद्रवत संहृष्टो भयं त्यक्त्वा महारथात् ॥ युधिष्ठिरमुखाः पार्थाः पुरस्कृत्य शिखण्डिनम् । अयोधयन्रणे भीष्मं सहिताः सर्वसृञ्जयैः ॥ तथैव तावकाः सर्वे पुरस्कृत्य यतव्रतम् । शिखण्डिप्रमुखान्पार्थान्योधयन्ति स्म संयुगे ॥ ततः प्रववृते युद्धं कौरवाणां भयावहम् । तत्र पाण्डुसुतैः सार्धं भीष्मस्य विजयं प्रति ॥ तावकानां जये भीष्मो ग्लह आसीद्विशाम्पते । तत्र हि द्यूतमासक्तं विजयायेतराय वा ॥ धृष्टद्युम्नस्तु राजेन्द्र सर्वसैन्यान्यचोदयत् । अभ्यद्रवत गाङ्गेयं मा भैष्ट रथसत्तमाः ॥ सेनापतिवचः श्रुत्वा पाण्डवानां वरूथिनी । भीष्मं समभ्ययात्तूर्णं प्राणांस्त्यक्त्वा महाहवे ॥ भीष्मोऽपि रथिनां श्रेष्ठः प्रतिजग्राह तां चमूम् । आपतन्तीं महाराज वेलामिव महोदधिः ॥ ॥
इति श्रीमन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि दशमदिवसयुद्धे चतुर्दशाधिकशततमोऽध्यायः ॥
6-114-24 बर्हिणवाजानां मयूरपक्षवतां बाणानाम् ॥ 6-114-30 मागधो जयत्सेनः ॥ 6-114-34 अपसृतः पलायितः ॥