अध्यायः 113
भीमसेनपराक्रमवर्णनम् ॥ 1 ॥ सञ्जय उवाच । भगदत्तः कृपः शल्यः कृतवर्ता तथैव च । विन्दानुविन्दावावन्त्यौ सैन्धवश्च जयद्रथः ॥ चित्रसेनो विकर्णश्च तथा दुर्मर्षणो युवा । दशैते तावका योधा भीमसेनमयोधयन् ॥ महत्या सेनया युक्ता नानादेशसमुत्थया । भीष्मस्य समरे राजन्प्रार्थयाना महद्यशः ॥ शल्यस्तु नवभिर्बाणैर्भीमसेनमताडयत् । कृतवर्मा त्रिभिर्भाणैः कृपश्च नवभिः शरैः ॥ चित्रसेनो विकर्णश्च भगदत्तश्च मारिष । दशभिर्दशभिर्बाणैर्भीमसेनमताडयन् ॥ सैन्धवश्च त्रिभिर्बाणैर्भीमसेनमडायत् । विन्दानुविन्दावावन्त्यौ पञ्चभिः पञ्चभिः शरैः ॥ दुर्मर्षणस्तु विंशत्या पाण्डवं निशितैः शरैः । स तान्सर्वान्महाराज राजमानान्पृथक्पृथक् ॥ प्रवीरान्सर्वलोकस्य धार्तराष्ट्रान्महारथान् । जघान समरे वीरः पाण्डवः परवीरहा ॥ सप्तभिः शल्यमाविध्यत्कृतवर्माणमष्टभिः । कृपस्य सशरं चापं मध्ये चिच्छेद भारत ॥ अथैनं च्छिन्नधन्वानं पुनर्विव्याध सप्तभिः । विन्दानुविन्दौ च तथा त्रिभिस्त्रिभिरताडयत् ॥ दुर्मर्षणं च विंशत्या चित्रसेनं च पञ्चभिः । विकर्णं दशभिर्बाणैः पञ्चभिश्च जयद्रथम् ॥ विद्ध्वा भीमोऽनदद्धृष्टः सैन्धवं च पुनस्त्रिभिः । अथान्यद्धनुरादाय गौतमो रथिनां वरः ॥ भीमं विव्याध संरब्धो दशभिर्निशितैः शरैः । स विद्धो दशभिर्बाणैस्तोत्रैरिव महाद्विपः ॥ ततः क्रुद्धो महाराज भीमसेनः प्रतापवान् । गौतमं ताडयामास शरैर्बहुभिराहवे ॥ सैन्धवस्य तथाऽश्वांश्च सारथिं च त्रिभिः शरैः । प्राहिणोन्मृत्युलोकाय कालान्तकसमद्युतिः ॥ हताश्वात्तु रथात्तूर्णमवप्लुत्य महारथः । शरांश्चिक्षेप निशितान्भीमसेनस्य संयुगे ॥ तस्य भीमो धनुर्मध्ये द्वाभ्यां चिच्छेद मारिष । भल्लाभ्यां भरतश्रेष्ठ सैन्धवस्य महात्मनः ॥ स च्छिन्नधन्वा विरथो हताश्वो हतसारथिः । चित्रसेनरथं राजन्नारुरोह त्वरान्वितः ॥ अत्यद्भुतं रणे कर्म कृतवांस्तत्र पाण्डवः । महारथाञ्शरैर्विद्ध्वा वारयित्वा च मारिष ॥ विरथं सैन्धवं चक्रे सर्वलोकस्य पश्यतः । तदा न ममृषे शल्यो भीमसेस्य विक्रमम् ॥ स सन्धाय शरांस्तीक्ष्णान्करमारपरिमार्जितान् । भीमं विव्याध समरे तिष्ठितिष्ठेति चाब्रवीत् ॥ कृपश्च कृतवर्माच भगदत्तश्च वीर्यवान् । विन्दानुविन्दावावन्त्यौ चित्रसेनश्च संयुगे ॥ दुर्मर्षणो विकर्णश्च सिन्धुराजश्च वीर्यवान् । भीमं ते विव्यधुस्तूर्णं शल्यहेतोररिन्दमाः ॥ स च तान्प्रति विव्याध पञ्चभिः पञ्चभिः शरैःक । शल्यं विव्याध सप्तत्या पुनश्च दशभिः शरैः ॥ तं शल्यो नवभिर्भित्त्वा पुनर्विव्याध पञ्चभिः । सारथिं चास्य भल्लेन गाढं विव्याध मर्मणि ॥ विशोकं प्रेक्ष्य निर्भिन्नं भीमसेनः प्रतापवान् । मद्रराजं त्रिभिर्बाणैर्बाह्वोरुरुसि चार्पयत् ॥ तथेतरान्महेष्वासांस्त्रिभिस्त्रिभिरजिह्मगैः । ताजयामास समरे सिंहवाद्विननाद च ॥ ते हि यत्ता महेष्वासाः पाण्डवं युद्धकोविदम् । त्रिभिस्त्रिभिरकुण्ठाग्रैर्भृशं मर्मस्वताडयन् ॥ सोऽतिविद्धो महेष्वासो भीमसेनो न विव्यथे । पर्वतो वारिधाराभिर्वर्षमाणैरिवाम्बुदैः ॥ स तु क्रोधसमाविष्टः पाण्डवानां महारथः । मद्रेश्वरं त्रिभिर्बाणैर्भृशं विद्ध्वा महायशाः ॥ कृपं च नवभिर्बाणैर्भृशं विद्ध्वा समन्ततः । प्रग्ज्योतिषं शतैराजौ राजन्विव्याध सायकैः ॥ ततस्तु सशरं चापं सात्वतस्य महात्मनः । क्षुरप्रेण सुतीक्ष्णेन चिच्छेद कृतहस्तवत् ॥ तथान्यद्धनुरादाय कृतवर्मा वृकोदरम् । आजघान भ्रुवोर्मध्ये नाराचेन परन्तपः ॥ भीमस्तु समरे विद्ध्वा शल्यं नवभिरायसैः । भगदत्तं त्रिभिश्चैव कृतवर्माणमष्टभिः ॥ द्वाभ्यां द्वाभ्यां तु विव्याध गौतमप्रभृतीन्रथान् । तेऽपि तं समरे राजन्विव्यधुर्निशितैः शरैः ॥ स तथा पीड्यमानोऽपि सर्वशस्त्रैर्महारथैः । मत्वा तृणेन तांस्तुल्यान्विचचार गतव्यथः ॥ ते चापि रथिनां श्रेष्ठा भीमाय निशिताञ्शरान् । प्रेषयामासुरव्याग्राः शतशोऽथ सहस्रशः ॥ तस्य शक्तिं महावेगां भगदत्तो महारथः । चिक्षेप समरे वीरः स्वर्णदण्डां महमते ॥ तोमरं सैन्धवो राजा पट्टसं च महाभुजः । शतघ्नीं च कृपो राजञ्छरं शल्यश्च संयुगे ॥ अथेतरे महेष्वासाः पञ्च पञ्च शिलीमुखान् । भीमसेनं समुद्दिश्य प्रेषयमासुरोजसा ॥ तोमरं च द्विधा चक्रे क्षुरप्रेणानिलात्मजः । पट्टसं च त्रिभिर्बाणैश्चिच्छेद तिलकाण्डवत् ॥ स बिभेद शतघ्नीं च नवभिः कङ्कपत्रिभिः । मद्रराजप्रयुक्तं च शरं छित्त्वा महारथः ॥ शक्तिं चिच्छेद सहसा भगदत्तेरितां रणे । तथेतराञ्शरान्घोराञ्शरैः सन्नतपर्वभिः ॥ भीमसेनो रणश्लाघी त्रिधैकैकं समाच्छिनत् । तांश्च सर्वान्महेष्वासांस्त्रिभिस्त्रिभिरताडयत् ॥ ततो धनञ्जयस्तत्र वर्तमाने महारणे । आजगाम रथेनाजौ भीमं दृष्ट्वा महारथम् ॥ निघ्नन्तं समरे शत्रून्योधयानं च सायकैः । तौ तु तत्र महात्मानौ समेतौ वीक्ष्य पाण्डवौ ॥ न शशंसुर्जयं तत्र तावकाः पुरुषर्षभाः । अथार्जुनो रणे भीमं योधयन्तं महारथान् ॥ भीष्मस्य निधनाकाङ्क्षी पुरस्कृत्य शिखण्डिनम् । आससाद रणे वीरांस्तावकान्दश भारत ॥ ये स्म भीमं रणे राजन्योधयन्तो व्यवस्थिताः । बीभत्सुस्तानथाविध्यद्भीमस्य प्रियकाम्यया ॥ ततो दुर्योधनो राजा सुशर्माणमचोदयत् । अर्जुनस्य वधार्थाय भीमसेनस्य चोभयोः ॥ सुशर्मन्गच्छ शीघ्रं त्वं बलौघैः परिवारितः । जहि पाण्डुसुतावेतौ धनञ्जयवृकोदरौ ॥ तच्छ्रुत्वा वचनं तस्य त्रैगर्तः प्रस्थलाधिपः । अभिद्रुत्य रणे भीममर्जुनं चैव धन्विनौ ॥ रथैरनेकसाहस्रैः समन्तात्पर्यवारयत् । ततः प्रववृते युद्धमर्जुनस्य परैः सह ॥ ॥
इति श्रीमन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि दशमदिवसयुद्धे त्रयोदशाधिकशततमोऽध्यायः ॥
6-113-21 कर्मारं शस्त्रोल्लेखनयन्त्रम् ॥ 6-113-32 सात्वतस्य कृतवर्मणः ॥