अध्यायः 112
द्रोणेनाश्वत्थामानम्प्रति दुर्निमित्तप्रदर्शपूर्वकं युद्धानुशासनम् ॥ 1 ॥ सञ्जय उवाच । अथ वीरो महेष्वासो मत्तवारणविक्रमः । समादाय महच्चापं मत्तवारणवारणम् ॥ विधुन्वानो नरश्रेष्ठो द्रावयाणो वरूथिनीम् । पृतनां पाण्डवेयानां गाहमानो महाबलः ॥ निमित्तानि निमित्तज्ञः सर्वतो वीक्ष्य वीर्यवान् । प्रतपन्तमनीकानि द्रोणः पुत्रमभाषत ॥ द्रोण उवाच । अयं हि दिवसस्तात यत्र पार्थो महाबलः । जिघांसुः समरे भीष्मं परं यत्नं करिष्यति ॥ उत्पतन्ति हि मे बाणा धनुः प्रस्फुरतीव च । योगमस्त्राणि नेच्छन्ति क्रूरं मे वर्तते मनः ॥ दिक्ष्वशान्तानि घोराणि व्याहरन्ति मृगद्विजाः । नीचैर्गृध्रा निलीयन्ते भारतानां चमूं प्रति ॥ नष्टप्रभ इवादित्यः सर्वतो लोहिता दिशः । रसते व्यथते भूमिः कम्पतीव च सर्वशः ॥ कङ्कगृध्रा बलाकाश्च व्याहरन्ति मुहुर्मुहुः । शिवाश्चैवाशिवा घोरा वेदयन्त्यो महद्भयम् ॥ पपात महती चोल्का मध्येनादित्यमण्डलात् । सकबन्धश्च परिघो भानुमावृत्य तिष्ठति ॥ परिवेषस्तथा घोरश्चन्द्रभास्करयोरभूत् । वेदयानो भयं घोरं राज्ञां देहावकर्तनम् ॥ देवतायतनस्थाश्च कौरवेन्द्रस्य देवताः । कम्पन्ते च हसन्ते च नृत्यन्ति च रुदन्ति च ॥ अपसव्यं ग्रहाश्चक्रुरलक्ष्माणं दिवाकरम् । अवाक्शिराश्च भगवानुपातिष्ठत चन्द्रकमाः ॥ वपूंषि च नरेन्द्राणां विगताभानि लक्षये । धार्तराष्ट्रस्य सैन्येषु न च भ्राजन्ति दंशिताःक ॥ सेनयोरुभयोश्चापि समन्ताच्छ्रूयते महान् । पाञ्चजन्यस्य निर्घोषो गाण्डीवस्य च निःस्वनः ॥ ध्रुवमास्थाय बीभत्सुरुत्तमास्त्राणि संयुगे । अपास्यान्यान्रणे योधानभ्येष्यति पितामहम् ॥ हृष्यन्ति रोमकूपाणि सीदतीव च मे मनः । चिन्तयित्वा महाबाहो भीष्मार्जुनसमागमम् ॥ तं चेह निकृतिप्रज्ञं पाञ्चाल्यं पापचेतसम् । पुरस्कृत्य रणे पार्थो भीष्मस्यायोधनं गतः ॥ अब्रवीच्च पुरा भीष्मो नाहं हन्यां शिखण्डिनम् । स्त्री ह्येषा विहिता धात्रा दैवाच्च स पुनः पुमान् ॥ असङ्कल्पध्वजश्चैव याज्ञसेनिर्महाबलः । न चामङ्गलिके तस्मिन्प्रहरेदापगासुतः ॥ एतद्विचिन्तयानस्य प्रज्ञा सीदति मे भृशम् । अभ्युद्यतो रणे पार्थः कुरुवृद्धमुपाद्रवत् ॥ युधिष्ठिरस्य च क्रोधो भीष्मश्चार्जुनसङ्गतः । मम चास्त्रसमारम्भः प्रजानामशिवं ध्रुवम् ॥ मनस्वी बलवाञ्शूरः कृतास्त्रोऽलघुविक्रमः । दूरपाती दृढेषुश्च निमित्तज्ञश्च पाण्डवः ॥ अजेयः समरे चापि देवैरपि सवासवैः । बलवान्बुद्धिमांश्चैव जितक्लेशो युधां वरः ॥ विजयी च रणे नित्यं भैरवास्त्रश्च पाण्डवः । 'अभ्युद्यतं रणे दृष्ट्वा भैरवास्त्रं च पाण्डवम् ।' तस्य मार्गं परिहरन्द्रुतं गच्छ यतव्रत ॥ पश्याद्यैतन्महाघोरे संयुगे वैशसं महत् । हेमचित्राणि शूरणां महान्ति च शुभानि च ॥ कवचान्यवदीर्यन्ते शरैः सन्नतपर्वभिः । छिद्यन्ते च ध्वजाग्राणि तोमराश्च धनूंषि च ॥ प्रासाश्च विमलास्तीक्ष्णाः शक्त्यश्च कनकोज्ज्वलाः । वैजयन्त्यश्च नागानां सङ्क्रुद्धेन किरीटिना ॥ नायं संरक्षितुं कालः प्राणान्पुत्रोपजीविभिः । याहि स्वर्गं पुरस्कृत्य यशसे विजयाय च ॥ रथनागहयावर्तां महाघोरां सुदुर्गमाम् । रथेन सङ्ग्रामनदीं तरत्येष कपिध्वजः ॥ ब्रह्मण्यता दमो दानं तपश्च चरितं महत् । इहैव दृश्यते पार्थे भ्राता यस्य धनञ्जयः ॥ भीमसेनश्च बलवान्माद्रीपुत्रौ च पाण्डवौ । वासुदेवश्च वार्ष्णेयो यस्य नाथो व्यवस्थितः ॥ तस्यैष मन्युप्रभवो धार्तराष्ट्रस्य दुर्मतेः । तपोभावितदेहस्य कोपो दहति वाहिनीम् ॥ एष सन्दृश्यते पार्थो वासुदेवव्यपाश्रयः । दारयन्सर्वसैन्यानि धार्तराष्ट्राणि सर्वशः ॥ एतदालोक्यते सैन्यं क्षोभ्यमाणं किरीटिना । महोर्मिनद्धं सुमहत्तिमिनेव महाजलम् ॥ हाहाकिलकिलाशब्दाः श्रूयन्ते च चमूमुखे । याहि पाञ्चालदायादमहं यास्ये युधिष्ठिरम् ॥ दुर्गमं ह्यन्तरं राज्ञो व्यूहस्यामिततेजसः । समुद्रकुक्षिप्रतिमं सर्वतोऽतिरथैः स्थितैः ॥ सात्यकिश्चाभिमन्युश्च धृष्टद्युम्नवृकोदरौ । पर्यरक्षन्त राजानं यमौ च मनुजेश्वरम् ॥ उपेन्द्रसदृशश्यामो महाशाल इवोद्गतः । एष गच्छत्यनीकाग्रे द्वितीय इव फल्गुनः ॥ उत्तमास्त्राणि चाधत्स्व गृहीत्वा च महद्धनुः । पार्षतं याहि राजानं युध्यस्व च वृकोदरम् ॥ को हि नेच्छेत्प्रियं पुत्रं जीवन्तं शाश्वतीः समाः । क्षत्रधर्मं तु सम्प्रेक्ष्य ततस्त्वां नियुनज्म्यहम् ॥ एष चातिरणे भीष्मो दहते वै महाचमूम् । युद्धेषु सदृशस्तात यमस्य वरुणस्य च ॥ सञ्जय उवाच । पुत्रं समनुशास्यैवं भारद्वाजः प्रतापवान् । महारणे महाराज धर्मराजमयोधयत् ॥ ॥
इति श्रीमन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि दशमदिवसयुद्धे द्वादशाधिकशततमोऽध्यायः ॥
6-112-6 घोराणि भयङ्कराणि । अशान्तानि अनुपरतानि ॥ 6-112-7 रसते शब्दायते । व्यथते बिभेतीव कम्पत इव च ॥ 6-112-12 अलक्ष्माणं प्रचण्डलक्षणलक्षितम् । अवाक्शिरा अधोमुखकोटिद्वयः ॥ 6-112-15 आस्थाय आलम्ब्य ॥ 6-112-21 अस्त्रसमारम्भः उद्यममात्रं नतु पूर्ववदस्त्राणामुपस्थितिः ॥ 6-112-28 हे पुत्र उपजीविभिरनुगतैः ॥ 6-112-30 पार्थए युधिष्ठिरे ॥ 6-112-32 तस्य धर्मस्य । मन्युर्दैन्यम् । भारतीमिति पाठे सेनामिति शेषः ॥