अध्यायः 111

द्वन्द्वयुद्धम् ॥ 1 ॥ सञ्जय उवाच । सात्यकिं दंशितं युद्धे भीष्मायाभ्युद्यतं रणे । आर्श्यशृङ्गिर्महेष्वासो वारयामास संयुगे ॥ माधवस्तु सुसङ्क्रुद्धो राक्षसं नवभिः शरैः । आजघान रणे राजन्प्रहसन्निव भारत ॥ तथैव राक्षसो राजन्माधवं नवभिः शरैः । अर्दयामास राजेन्द्र सङ्क्रुद्धः शिनिपुङ्गवम् ॥ शैनेयः शरसङ्घं तु प्रेषयामास संयुगे । राक्षसाय सुसङ्क्रुद्धो माधवः परवीरहा ॥ ततो रक्षो महाबाहुं सात्यकिं सत्यविक्रमम् । विव्याध विशिखैस्तीक्ष्णैः सिंहनाद ननाद च ॥ माधवस्तु भृशं विद्धो राक्षसेन रणे तदा । धैर्यमालम्ब्य तेजस्वी जहास च ननाद च ॥ भगदत्तस्ततः क्रुद्धो माधवं निशितैः शरैः । ताडयामास समरे तोत्रैरिव महागजम् ॥ विहाय राक्षसं युद्धे शैनेयो रथिनां वरः । प्राग्ज्योतिषाय चिक्षेप शरान्सन्नतपर्वणः ॥ तस्य प्राग्ज्योतिषो राजा माधवस्य महद्धनुः । चिच्छेद शतधारेण भल्लेन कृतहस्तवत् ॥ अथान्यद्धनुरादाय वेगवत्परवीरहा । भगदत्तं रणे क्रुद्धं विव्याध निशितैः शरैः ॥ सोऽतिविद्धो महेष्वासः सृक्किणी परिसंलिहन् । शक्तिं कनकवैडूर्यभूषितामायसीं दृढाम् ॥ यमदण्डोपमां घोरां चिक्षेप परमाहवे । तामापतन्तीं सहसा तस्य बाहुबलेरिताम् ॥ सात्यकिः समरे राजन्द्विधा चिच्छेद सायकैः । ततः पपात सहसा सहोल्केव हतप्रभा ॥ शक्तिं विनिहतां दृष्ट्वा पुत्रस्तव विशाम्पते । महता रथवंशेन वारयामास माधवम् ॥ तथा परिवृतं दृष्ट्वा वार्ष्णेयानां महारथम् । दुर्योधनो भृशं क्रुद्धो भ्रातॄन्सर्वानुवाच ह ॥ तथा कुरुत कौरव्या यथाः वः सात्यको युधि । न जीवन्प्रतिनिर्याति महतोऽस्माद्रथव्रजात् ॥ तस्मिन्हते हतं मन्ये पाण्डवानां महद्बलम् । तथेति च वचस्तस्य परिगृह्य महारथाः ॥ शैनेयं योधयामासर्भीष्मायाभ्युद्यतं रणे । 'अभिमन्युं तदाऽऽयान्तं भीष्मस्याभ्युद्यतं वधे ।' काम्भोजराजो बलवान्वारयामास संयुगे ॥ आर्जुनिं नृपतिर्विद्ध्वा शरैः सन्नतपर्वभिः । पुनरेव चतुःषष्ट्या राजन्विव्याध तं नृप ॥ सुदक्षिणस्तु समरे पुनर्विव्याध तं पञ्चभिः । सारथिं चास्य नवभिरिच्छन्भीष्मस्य जीवितम् ॥ तद्युद्धमासीत्सुमहत्तयोस्तत्र समागमे । यदाभ्यधावद्गाङ्गेयं शिखण्डी शत्रुकर्शनः ॥ विराटद्रुपदौ वृद्धौ वारयनतौ महाचमूम् । भीष्मं च युधि संरब्धावाद्रवन्तौ महारथौ ॥ अश्वत्थामा रणे क्रुद्धः समियाद्रथसत्तमः । ततः प्रववृते युद्धं तयोस्तस्य च भारत ॥ विराटो दशभिर्भल्लैराजघान परन्तप । यतमानं महेष्वासं द्रौणिमाहवशोभिनम् ॥ द्रुपदश्च त्रिभिर्बाणैर्विव्याध निशितैस्तदा । गुरुपुत्रं समासाद्य प्रहरन्तौ महाबलौ ॥ अश्वत्थामा ततस्तौ तु विव्याध बहुभिः शरैः । विराटद्रुपदौ वीरौ भीष्मं प्रति समुद्यतौ ॥ तत्राद्भुतमपश्याम वृद्धयोश्चरितं महत् । यद्द्रौणिसायकान्घोरान्प्रत्यवारयतां युधि ॥ सहदेवं तथाऽऽयान्तं कृपः शारद्वतोऽभ्ययात् । यथा नागो वने नागं मत्तो मत्तमुपाद्रवत् ॥ कृपश्च समरे शूरो माद्रीपुत्रं महारथम् । आजघान शरैस्तूर्णं सप्तत्या रुक्मभूषणैः ॥ तस्य माद्रीसुतश्चापं द्विधा चिच्छेद सायकैः । अथैनं छिन्नधन्वानं विव्याध नवभिः शरैः ॥ सोऽन्यत्कार्मुकमादाय समरे भारसाधनम् । माद्रीपुत्रं सुसंहृष्टो दशभिर्निशितैः शरैः ॥ आजघानोरसि क्रुद्ध इच्छन्भीष्मस्य जीवितम् । तथैव पाण्डवो राजञ्छारद्वतममर्षणम् ॥ आजघानोरसि क्रुद्धो भीष्मस्य वधकाङ्क्षया । तयोर्युद्धं समभवद्धोररूपं भयावहम् ॥ नकुलं तु रणे क्रुद्धो विकर्णः शत्रुतापनः । विव्याध सायकैः षष्ट्या रक्षन्भीष्मं महाबलम् ॥ नकुलोऽपि भृशं विद्धस्तव पुत्रेण धीमता । विकर्णं सप्तसप्तत्या निर्बिभेद शिलीमुखैः ॥ तत्र तौ नरशार्दूलौ भीष्महेतोः परन्तपौ । अन्योन्यं जघ्नुतुर्वीरौ गोष्ठे गोवृषभाविव ॥ घटोत्कचं रणे यान्तं निघ्नन्तं तव वाहिनीम् । दुर्मुखः समरे प्रायाद्भीष्यहेतोः पराक्रमी ॥ हैडिम्बस्तु रणे राजन्दुर्मुखं शत्रुतापनम् । आजघानोरसि क्रुद्धः शरेणानतपर्वणा ॥ भीमसेनसुतं चापि दुर्मुखः सुमुखैः शरैः । षष्ट्या वीरो नदन्हृष्टो विव्याध रणमूर्धनि ॥ धृष्टद्युम्नं तथाऽऽयान्तं भीष्मस्य वधकाङ्क्षिणम् । हार्दिक्यो वारयामास रथश्रेष्ठं महारथः ॥ हार्दिक्यः पार्षतं चापि विद्ध्वा पञ्चभिरायसैः । पुनः पञ्चाशता तूर्णं तिष्ठतिष्ठेति चाब्रवीत् ॥ आजघान महाबाहुः पार्षतं तं महारथम् । तं चैव पार्षतो राजन्हार्दिक्यं नवभिः शरैः ॥ विव्याध निशितैस्तीक्ष्णैः कङ्कपत्रैरजिह्नगैः । तयोः समभवद्युद्धं भीष्महेतोर्महाहवे ॥ अन्योन्यातिशये युक्तं यथा वृत्रमहेन्द्रयोः । भीमसेनं तथाऽऽयान्तं भीष्मं प्रति महारथम् ॥ भूरिश्रवाभ्ययात्तूर्णं तिष्ठतिष्ठेति चाब्रवीत् । सौमदत्तिरथो भीममाजघान स्तनान्तरे ॥ नाराचेन सुतीक्ष्णेन रुक्मपुङ्खेन संयुगे । उरःस्थेन बभौ तेन भीमसेनः प्रतापवान् ॥ स्कन्दशक्त्या यथा क्रौञ्चः पुरा नृपतिसत्तम । तौ शरान्सूर्यसङ्काशान्कर्मारपरिमार्जितान् ॥ अन्योन्यस्य रणे क्रुद्धौ चिक्षिपते नरर्षभौ । भीमो भीष्मवधाकाङ्क्षी सौमदत्तिं महारथम् ॥ तथा भीष्मजये गृध्नुः सौमदत्तिस्तू पाण्डवम् । कृतप्रतिकृते यत्तौ योधयामासतू रणे ॥ युधिष्ठिरं तु कौन्तेयं महत्या सेनया वृत्तम् । भीष्माभिमुखमायान्तं भारद्वाजो न्यवारयत् ॥ द्रोणस्य रथनिर्घोषं पर्जन्यनिनदोपमम् । श्रुत्वा प्रभद्रका राजन्समकम्पन्त मारिष ॥ सा सेना महती राजन्पाण्डुपुत्रस्य संयुगे । द्रोणेन वारिता यत्ता न चचाल पदात्पदम् ॥ चेकितान रणे यत्तं भीष्मं प्रति जनेश्वर । चित्रसेनस्तव सुतः क्रुद्धरूपमवारयत् ॥ भीष्महेतोः पराक्रान्तश्चित्रसेनः पराक्रमी । चेकितानं परं शक्त्या योधयामास भारत ॥ तथैव चेकितानोऽपि चित्रसेनमवारयत् । तद्युद्धमासीत्सुमहत्तयोस्तत्र समागमे ॥ अर्जुनो वार्यमाणस्तु बहुशस्तत्र भारत । विमुखीकृत्य पुत्रं ते सेनां तव ममर्द ह ॥ दुःशासनोऽपि परया शक्त्या पार्थमवारयत् । कथं भीष्मं न नो हन्यादिति निश्चित्य भारत ॥ सा वध्यमाना समरे पुत्रस्य तव वाहिनी । लोड्यते रथिभिः श्रेष्ठैस्तत्रतत्रैव भारत ॥ ॥

इति श्रीमन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि दशदिवसयुद्धे एकादशाधिकशततमोऽध्यायः ॥

6-111-58 लोड्यते आकुलीक्रियते ॥