अध्यायः 110

अर्जुनदुःशासनयुद्धम् ॥ 1 ॥ सञ्जय उवाच । अर्जुनस्तु रणे राजन्दृष्ट्वा भीष्मस्य विक्रमम् । शिखण्डिनमथोवाच समभ्योहि पितामहम् ॥ न चापि भीस्त्वया कार्या भीष्मादद्य कथञ्चन । अहमेनं शरैस्तीक्ष्णैः पातयिष्ये रथोत्तमात् ॥ सञ्जय उवच । एवमुक्तस्तु पार्थेन शिखण्डी भरतर्षभ । अभ्यद्रवत गाङ्गेयं श्रुत्वा पार्थस्य भाषितम् ॥ धृष्टद्युम्नस्तथा राजन्सौभद्रश्च महारथः । हृष्टावाद्रवतां भीष्मं श्रुत्वा पार्थस्य भाषितम् ॥ विराटद्रुपदौ वृद्धौ कुन्तिभोजस्य दंशितः । अभ्यद्रवत गाङ्गेयं पुत्रस्य तव पश्यतः । नकुलः सहदेवश्च धर्मराजश्च वीर्यवान् ॥ तथेतराणि सैन्यानि सर्वाम्येव विशाम्पते । समाद्रवन्त गाङ्गेयं श्रुत्वा पार्थस्य भाषितम् ॥ प्रत्युद्ययुस्तावकाश्च समेतांस्तान्महारथान् । यथाशक्ति यथोत्साहं तन्मे निगदतः शृणु ॥ चित्रसेनो महाराज चेकितानं समभ्यायात् । भीष्मप्रेप्सुं रणे यान्तं वृषं व्याघ्रशिशुर्यथा ॥ धृष्टद्युम्नं महाराज भीष्मान्तिकमुपागतम् । त्वरमाणं रणे यत्तं कृतवर्मा न्यवरायत् ॥ भीमसेनं सुसङ्क्रुद्धं गाङ्गेयस्य वधैषिणम् । त्वरमाणो महाराज सौमदत्तिर्न्यवारयत् ॥ तथैव नकुलं शूरं किरन्तं सायकान्बहून् । विकर्णो वारयामास इच्छन्भीष्मस्य जीवितम् ॥ सहदेवं तथा राजन्यान्तं भीष्मरथं प्रति । वारयामास सङ्क्रुद्धः कृपः शारद्वतो युधि ॥ राक्षसं क्रूरकर्माणं भैमसेनिं महाबलम् । भीष्मस्य निधनप्रेप्सुं दुर्मुखोऽभ्यज्रवद्बली ॥ सात्यकिं समरे क्रुद्धमार्स्यशृङ्गिवारयत् । 'भीष्मस्य वधमिच्छन्तं पाण्डवप्रीतिकाम्यया' अभिमन्युं महाराज यान्तं भीष्मरथं प्रति । सुदक्षिणो महाराज काम्भोज प्रत्यवारयत् ॥ विराटद्रुपदौ वृद्धौ समेतावरिमर्दनौ । अश्वत्थामा ततः क्रुद्धो वारयामास भारत ॥ तथा पाण्डुसुतं ज्येष्ठं भीष्मस्य वधकाङ्क्षिणम् । भारद्वाजो रणे यत्तो धर्मपुत्रमवारयत् ॥ अर्जुनं रभसं युद्धे पुरस्कृत्य शिखण्डिनम् । भीष्मप्रेप्सुं महाराज भासयन्तं दिशो दश ॥ दुःशासनो महेष्वासो वारयामास संयुगे । अन्ये च तावका योधाः पाण्डवानां महारथान् ॥ भीष्मस्याभिमुखान्यातान्वारयामासुराहवे । धृष्टद्युम्नस्तु सैन्यानि प्राक्रोशंस्तु पुनः पुनः ॥ अभ्यद्रवत संरब्धो भीष्ममेकं महारथः । एषोऽर्जुनो रणे भीष्मं प्रयाति कुरुनन्दनः ॥ अभ्यद्रवत माभैष्ट भीष्मो हि प्राप्स्यते न वः । अर्जुनं समरे योद्धुं नोत्सहेतापि वासवः ॥ किमु भीष्मो रणे वीरा गतसत्वोऽल्पजीवितः । इति सेनापतेः श्रुत्वा पाण्डवानां महारथाः ॥ अभ्यद्रवन्त संहृष्टा गाङ्गेयस्य रथं प्रति । आगच्छतस्तान्समरे वार्योघानचला इव ॥ अवारयन्त संहृष्टास्तावकाः पुरुषर्षभाः । दुःशासनो महाराज भयं त्यक्त्वा महारथः ॥ भीष्मस्य जीविताकाङ्क्षी धनञ्जयमुपाद्रवत् । तथैव पाण्डवाः शूरा गाङ्गेयस्य रथं प्रति ॥ अभ्यद्रवन्त सङ्ग्रामे तव पुत्रान्महारथाः । तत्राद्भुतमपश्याम चित्ररूपं विशाम्पते ॥ दुःशासनरथं प्राप्य यत्पार्थो नात्यवर्तत । यथा वारयते वेला क्षुब्धतोयं महार्णवम् ॥ तथैव पाण्डवं क्रुद्धं तव पुत्रो न्यवारयत् । उभौ तौ रथिनां श्रेष्ठावुभौ भारतदुर्जयौ ॥ उभौ चन्द्रार्कसदृशौ कान्त्या दीप्त्या च भारत । तथा तौ जातसंरम्भावन्योन्यवधकाङ्क्षिणौ ॥ समीयतुर्महासङ्ख्ये मयशक्रौ यथा पुरा । दुःशासनो महाराज पाण्डवं विशिखैस्त्रिभिः ॥ वासुदेवं च विंशत्या ताडयामास संयुगे । ततोऽर्जुनो जातमन्युर्वार्ष्णेयं वीक्ष्य पीडितम् ॥ दुःशासनं शतेनाजौ नाराचानां समार्पयत् । ते तस्य कवचं भित्त्वा पपुः शोणितमाहवे ॥ ' यथैव पन्नगा राजंस्तटाकं तृषितास्तथा । 'दुःशासनस्त्रिभिः क्रुद्धः पार्थं विव्याध पत्रिभिः । ललाटे भरतश्रेष्ठ शरैः सन्नतपर्वभिः ॥ ललाटस्थैस्तु तैर्बाणैः शुशुभे पाण्डवो रणे । यथा मेरुर्महाराज शृङ्गैरत्यर्थमुच्छ्रितैः ॥ सोऽतिविद्धो महेष्वासः पुत्रेण तव धन्विना । व्यराजत रणे पार्थः किंशुकः पुष्पवानिव ॥ दुःशासनं ततः क्रुद्धः पीडयामास पाण्डवः । पर्वणीव सुसङ्क्रुद्धो राहुः पूर्णं निशाकरम् ॥ पीड्यमानो बलवता पुत्रस्तव विशाम्पते । विव्याध समरे पार्थं कङ्कपत्रैः शिलाशितैः ॥ तस्य पार्थो धनुश्छित्वा रथं चास्य त्रिभिः शरैः । आजघान ततः पश्चात्पुत्रं ते निशितैः शरैः ॥ सोऽन्यत्कार्मुकमादाय भीमस्य प्रमुखे स्थितः । अर्जुनं पञ्चाविंशत्या बाह्वोरुरसि चार्पयत् ॥ तस्य क्रुद्धो महाराज पाण्डवः शत्रुतापनः । अप्रैषीद्विशिखान्घोरान्यमदण्डोपमान्बहून् ॥ अप्राप्तानेव तान्बाणांश्चिच्छेद तनयस्तव । यतमानस्य पार्थस्य तदद्भुतमिवाभवत् ॥ पार्थं च निशितैर्बाणैरविध्यत्तनयस्तव । ततः क्रुद्धो रणे पार्थः शरान्सन्धाय कार्मुके ॥ प्रेषयामास समरे स्वर्णपुङ्खाञ्छिलाशितान् । न्यमञ्जंस्ते महाराज तस्य काये महात्मनः ॥ यथा हंसा महाराज तटाकं प्राप्य भारत । पीडितश्चैव पुत्रस्ते पाण्डवेन महात्मना ॥ हित्वा पार्थं रणे तूर्णं भीष्मस्य रथमाव्रजत् । अगाधे मञ्जतस्तस्य द्वीपो भीष्मोऽभवत्तदा ॥ प्रतिलभ्य ततः सञ्ज्ञां पुत्रस्तव विशाम्पते । अवारयत्ततः शूरो भूय एव पराक्रमी ॥ शरैः सुनिशितैः पार्थं यथा वृत्रं पुरन्दरः । निर्बिभेद महाकायो विव्यथे नैव चार्जुनः ॥ ॥

इति श्रीमन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि दशमदिवसयुद्धे दशाधिकशततमोऽध्यायः ॥

6-110-18 रभसं कृतोत्साहम् ॥ 6-110-24 प्रलयानिव इति पाठे प्रलयाकालीनानिव ॥ 6-110-27 अद्भुतं अभूतपूर्वम् ॥ 6-110-31 यमशक्रौ इति पाठान्तरम् ॥ 6-110-41 अप्रैषीत् । उपसर्गात्पूर्वोऽडगामस्तु छान्दसः । एवमन्यत्रापि ॥ 6-110-46 द्वीप आश्रयः ॥