अध्यायः 109
भीष्मदुर्योधनसंवादः ॥ 1 ॥ भीष्मपराक्रमवर्णनम् ॥ 2 ॥ धृतराष्ट्र उवाच । कथं शिखण्डी गाङ्गेयमभ्यधावत्पितामहम् । पाञ्चाल्यः समरे क्रुद्धो धर्मात्मानं यतव्रतम् ॥ केऽरक्षन्पाण्डवानीके शिखण्डिनमुदायुधाः । त्वरमाणास्त्वराकाले जिगीषन्तो महारथाः ॥ कथं शान्तनवो भीष्मः स तस्मिन्दशमेऽहनि । अयुध्यत महावीर्यः पाण्डवैः सह सृञ्जयैः ॥ न मृष्यामि रणे भीष्मं प्रत्युद्यातं शिखण्डिना । कच्चिन्न रथमद्गोऽस्व धनुर्वाऽशीर्यतास्थतः ॥ सञ्जय उवाच । नाशीर्यत धनुश्चास्य रथभङ्गो न चाप्यभूत् । युध्यमानस्य सङ्ग्रामे भीष्मस्य भरतर्षभ । निघ्नतः समरे शत्रून्शरैः सन्नतपर्वभिः ॥ अनेकशतसाहस्रावकानां महारथाः । तथा दन्तिगणा राजन्हायश्चैव सुसञ्जिताः ॥ अभ्यवर्तन्त युद्धाय पुरस्कृत्य पितामहम् ॥ यथाप्रतिज्ञं कौरव्य स चापि समिर्तिजयः । पार्यानामकरोद्भीष्मः सततं समिति क्षयम् ॥ युध्यमानं महेष्वासं विनिघ्नन्तं पराञ्शरैः । पाञ्चालाः पाण्डवैः सार्ध सर्वतः पर्यवारयन् ॥ दशमेऽहनि सम्प्राप्ते ततस्तां रिपुवाहिनीम् । कीर्यमाणां शितैर्बाणैः शतशोऽथ सहस्रशः ॥ न हि भीष्मं महेष्वासं पाण्डवाः पाण्डुपूर्वज । अशक्नुवन्रणे जेतुं पाशहस्तमिवानतकम् ॥ अथोपायान्महाराज सव्यसाची धनञ्जयः । त्रासयन्रथिनः सर्वान्बीभत्सुरपराजितः ॥ सिंहवद्विनदन्नुच्चैर्धनुर्ज्यां विक्षिपन्मुहुः । शरौघान्विसृजन्पार्थो व्यचरत्कालवद्रणे ॥ तस्य शब्देन वित्रस्तास्तावका भारतर्षभ । सिंहस्येव मृगा राजन्व्यद्रवन्त महाभयात् ॥ जयन्तं पाण्डवं दृष्ट्वा त्वत्सैन्यं चाभिपीडितम् । दुर्योधनस्ततो भीष्ममब्रवीद्भृशपीडितः ॥ एष पाण्डुसुतस्तात श्वेताश्वः कृष्णसारथिः । दहते मामकान्सर्वान्कृष्णवर्त्मेन काननम् ॥ पश्य सैन्यानि गाङ्गेय द्रवमाणानि सर्वशः । पण्डवेन युधां श्रेष्ठ काल्यमानानि संयुगे ॥ यथा पशुगणान्पालः सङ्कालयति कानने । तथेदं मामकं सैन्यं काल्यते शत्रुतापन ॥ धनञ्जयशरैर्भग्नं द्रवमाणं ततस्ततः । भीमोऽप्येवं दुराधर्पो विद्रावयति मे बलम् ॥ सात्यकिश्चेकितानश्च माद्रीपुत्रौ च पाण्डवौ । अभिमन्युः सुविक्रान्तो वाहिनीं द्रवते मम ॥ धृष्टद्युम्नस्तथा शूरो राक्षसश्च घटोत्कचः । व्यद्रावयेतां सहसा सैन्यं मम महारणे ॥ वध्यमानस्य सैन्यस्य सर्वैरेतैर्महारथैः । नान्यां गतिं प्रपश्यामि स्थाने युद्धे च भारत ॥ ऋते त्वां पुरुषव्याघ्र देवतुल्यपराक्रमम् । पर्याप्तस्तु भवाञ्शीघ्रं पीडितानां गतिर्भव ॥ सञ्जय उवाच । एवमुक्तो महाराज पिता देवव्रतस्तव । चिन्तयित्वा मुहूर्तं तु कृत्वा निश्चयमात्मनः ॥ तव सन्धारयन्पुत्रमब्रवीच्छन्तनोः सुतः । दुर्योधन विजानीहि स्थिरो भूत्वा विशाम्पते ॥ 'पातयिष्ये रिपूनन्यान्पाण्डवान्प्रतिपालयन् । प्रतिज्ञातो जयो ह्यद्य पाण्डवानां महात्मनाम् ॥' पूर्वकालं तव मया प्रतिज्ञानं महाबल । हत्वा दशसहस्राणि क्षत्रियाणां महात्मनाम् ॥ सङ्ग्रामादपयास्यामि ह्येतत्कर्म समाहितम् । इति तत्कृतवांश्चाहं यथोक्तं भरतर्षभ ॥ अद्य चापि महत्कर्म प्रकरिष्ये यथाबलम् । अहं वाऽद्य हतः शेष्ये हनिष्ये वाऽद्य पाण्डवान् ॥ 'अशक्याः पाण्डवा जेतुं देवैरपि सवासवैः । 'किं पुनर्मर्त्यधर्मेण क्षत्रियेण महाबलाः ॥ अद्य ते पुरुषव्याघ्र प्रतरिष्ये ऋणं तव । भर्तृपिण्डकृतं राजन्निहताः पृतनामुखे ॥ सञ्जय उवाच । इत्युक्त्वा भरतश्रेष्ठ क्षत्रियान्प्रवपञ्छरैः । आससाद दुराधर्षः पाण्डवानामनीकिनीम् ॥ अनीकमध्ये तिष्ठन्तं गाङ्गेयं भारतर्षभ । आशीविषमिव क्रुद्धं पाण्डवाः प्रत्यवारयन् ॥ दशमेऽहनि भीष्मस्तु दर्शयञ्शक्तिमात्मनः । राजञ्शतसहस्राणि सोऽवधीत्कुरुनन्दन ॥ पाञ्चालानां च ये श्रेष्ठा राजपुत्रा महारथाः । तेषामादत्त तेजांसि जलं सूर्य इवांशुभिः ॥ हत्वा दशसहस्राणि कुञ्जराणां तरस्विनाम् । सारोहाणां महाराज हयानां चायुतं तथा ॥ पूर्णे शतसहस्रे द्वे पादातानां नरोत्तमः । प्रजज्वाल रणे भीष्मो विधूम इव पावकः ॥ न चैवं पाण्डवेयानां केचिच्छेकुर्निरीक्षितुम् । उत्तरं मार्गमास्थाय तपन्तमिव भास्करम् ॥ ते पाण्डवेवाः संरब्धा महेष्वासेन पीडिताः । वधायाभ्यद्रवन्भीष्मं सृञ्जयाश्च महारथाः ॥ स वध्यमानो बहुभिर्भीष्मः शान्तनवस्तथा । अवकीर्णो महेष्वासैः शैलो मेघैरिवावृतः ॥ पुत्रास्तु तव गाङ्गेयं समन्तात्पर्यवारयन् । महत्या सेनया सार्धं ततो युद्धमवर्तत ॥ ॥
इति श्रीमन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि दशमदिवसयुद्धे नवाधिकशततमोऽध्यायः ॥
6-109-8 समितिञ्जयः सङ्ग्रामजित् । समिति युद्धे ॥ 6-109-20 द्रवते द्रावयति ॥ 6-109-22 गतिं धाम । आश्रयमिति यावत् । स्थाने अवस्थाने ॥ 6-109-29 शेष्ये स्वप्स्यामि ॥