अध्यायः 108
भीष्मयुद्धम् ॥ 1 । शिखण्डिनो भीष्मेण सह संवादो युद्धसन्नाहश्च ॥ 2 ॥ धृतराष्ट्र उवाच । कथं शिखण्डी गाङ्गेयमभ्यवर्तत संयुगे । पाण्डवाश्च कथं भीष्मं तन्ममाचक्ष्व सञ्जय ॥ सञ्जय उवाच । ततः प्रभाते विमले सूर्यस्योदयनं प्रति । ताड्यमानासु भेरीषु मृदङ्गेष्वानकेषु च ॥ ध्मायमानेषु शङ्खेषु पाण्डरेषु समन्ततः । शिखण्डिनं पुरस्कृत्य निर्याप्ताः पाण्डवा युधि ॥ कृत्वा व्यूहं महाराज सर्वशत्रुनिबर्हणम् । शिखण्डी सर्वसैन्यानामग्र आसीद्विशाम्पते ॥ चक्ररक्षौ ततस्तस्य भीमसेनधनञ्जयौ । पृष्ठतो द्रौपदेयाश्च सौभद्रश्चैव वीर्यवान् ॥ सात्यकिश्चेकितानश्च तेषां गोप्ता महारथः । धृष्टद्युम्नस्ततः पश्चात्पाञ्चालैरभिरक्षितः ॥ ततो युधिष्ठिरो राजा यमाभ्यां सहितः प्रभुः । प्रययौ सिंहनादेन नादयन्भरतर्षभ ॥ विराटस्तु ततः पश्चात्स्वेन सैन्येन संवृत्तः । द्रुपदश्च महाबाहो ततः पञ्चादुपाद्रवत् ॥ केकया भ्रातरः पञ्च धृष्टकेतुश्च वीर्यवान् । जघनं पालयामासुः पाण्डवेयश्च राक्षसः ॥ एवं व्यूह्य महासैन्यं पाण्डवास्तव वाहिनीम् । अभ्यद्रवन्त सङ्ग्रामे त्यक्त्वा जीवितमात्मनः ॥ तथैव कुरवो राजन्भीष्मं कृत्वा महारथम् । अग्रतः सर्वसैन्यानां प्रययुः पाण्डवान्प्रति ॥ पुत्रैस्तव दुराधर्षो रक्षितः सुमहाबलैः । ततो द्रोणो महेष्वासः पुत्रश्चास्य महाबलः ॥ भगदत्तस्ततः पश्चाद्गजानीकेन संवृतः । कृपश्च कृतवर्मा च भगदत्तमनुव्रतौ ॥ काम्भोजराजो बलवांस्ततः पश्चात्सुदक्षिणः । मागधश्च जयत्सेनः सौबलश्च बृहद्बलः ॥ तथैवान्ये महेष्वासाः सुशर्मप्रमुखा नृपाः । जघनं पालयामासुस्तव सैन्यस्य भारत ॥ दिवसेदिवसे प्राप्ते भीष्मः शान्तनवो युधि । आसुरानकरोद्व्यूहान्पैशाचानथ राक्षसान् ॥ ततः प्रववृते युद्धं तव तेषां च भारत । अन्योन्यं निघ्नतां राजन्यमराष्ट्रविवर्धनम् ॥ अर्जुनप्रमुखाः पार्थाः पुरस्कृत्य शिखण्डिनम् । भीष्मं युद्धेऽभ्यवर्तन्त किरन्तो विविधाञ्शरान् ॥ तत्र भारत भीमेन ताडितास्तावकाः शरैः । रुधिरौघपरिक्लिन्नाः परलोकं ययुस्तदा ॥ नकुलः सहदेवश्च सात्यकिश्च महारथः । तव सैनयं समासाद्य पीडयामासुरोजसा ॥ ते वध्यामानाः समरे तावका भरतर्षभ । नाशक्नुवन्वारयितुं पाण्डवानां महद्बलम् ॥ ततस्तु तावकं सैन्यं वध्यमानं समन्ततः । सम्प्राद्रवद्दशः दिशः काल्यमानं महारथैः ॥ त्रातारं नाध्यगच्छन्त तावका भरतर्षभ । वध्यमानाः शितैर्बाणैः पाण्डवैः सह सृञ्जयैः ॥ धृतराष्ट्र उवाच । पीड्यमानं बलं दृष्ट्वा पार्थैर्भीष्मः पराक्रमी । यदकार्षीद्रणे क्रुद्धस्तन्ममाचक्ष्व सञ्जय ॥ कथं वा पाण्डवा युद्धे प्रत्युद्याताः परन्तपाः । निघ्नन्तो मामकान्वीरांस्तन्ममाचक्ष्व सञ्जय ॥ सञ्जय उवाच । आचक्षे ते महाराज यदकार्षीत्पिता तव । पीडिते तव पुत्रस्य सैन्ये पाण्डव सृञ्जयैः ॥ प्रंहृष्टमनसः शूराः पाण्डवाः पाण्डुपूर्वज । अभ्यवर्तन्त निघ्नन्तस्तव पुत्रस्य वाहिनीम् ॥ तं विनाशं मनुष्येन्द्र नरवारणवाजिनाम् । नामृष्यत तदा भीष्मः सैन्यघातं रणे परैः ॥ स पाणडवान्महेष्वासः पञ्चालांश्चैव सृञ्जयान् । नाराचैर्वत्सदन्तैश्च शितैरञ्जलिकैस्तथा ॥ अभ्यवर्षत दुर्धर्षस्त्यक्त्वा जीवितमात्मनः । स पाण्डवानां प्रवरान्पञ्च राजन्महारथान् ॥ आत्तशस्त्रो रणे यत्नाद्वारयामास सायकैः । नानाशस्त्रास्त्रवर्षैस्तान्वीर्यामर्षप्रवेरितैः ॥ निजघ्ने समरे क्रुद्धो हस्त्यश्वं चामितं बहु । रथिनोऽपातयद्राजन्रथेभ्यः पुरुषर्षभ ॥ सादिनश्चाश्वपृष्ठेभ्यः पादातांश्च समागतान् ॥ गजारोहान्गजेभ्यश्च परेषां जयकारिणः । तमेकं समरे भीष्मं त्वरमाणं महारथम् ॥ पाण्डवाः समवर्तन्त वज्रहस्तमिवासुराः । शक्राशनिसमस्पर्शान्विमुञ्चन्निशिताञ्छरान् ॥ दिक्ष्वदृश्यत सर्वासु घोरं सन्धारयन्वपुः । मण्डलीभूतमेवास्य नित्यं धनुरदृश्यत ॥ सङ्ग्रामे युध्यमानस्य शक्रचापोपमं महत् ॥ तदृष्ट्वा समरे कर्म पुत्रास्तव विशाम्पते ॥ विस्मायं परमं गत्वा पितामहमपूजयन् । पार्था विमनसो भूत्वा प्रैक्षन्त पितरं तव ॥ युध्यमानं रणे शूरं विप्रचित्तिमिवामराः । न चैनं वारयामासुर्व्यात्ताननमिवान्तकम् ॥ दशमेऽहनि सम्प्राप्ते रथानीकं शिखण्डिनः । अदहन्निशितैर्बाणैः कृष्णवर्त्मेव काननम् ॥ तं शिखण्डी त्रिभिर्बाणैरभ्यविध्यत्सनान्तरे । आशीविषमिव क्रुद्धं कालसृष्टमिवान्तकम् ॥ स तेनातिभृशं विद्धः प्रेक्ष्य भीष्मः शिखण्डिनम् । पुनर्नालोकयत्क्रुद्धः प्रहसन्निदमब्रवीत् ॥ कामं प्रहर वा मा वा न त्वां योत्स्ये कथञ्चन । यैव हि त्वं कृता धात्रा सैव हि त्वं शिखण्डिनी ॥ तस्य तद्वचनं श्रुत्वा शिखण्डी क्रोधमूर्च्छितः । उवाच भीष्मं समरे सृक्विणी परिलेलिहन् ॥ जानामि त्वां महाबाहो क्षत्रियाणां भयङ्करम् । मया श्रुतं च ते युद्धं जामदग्न्येन वै सह ॥ दिव्यश्च ते प्रभावोऽयं मया च बहुशः श्रुतः । जनन्नपि प्रभावं ते योत्स्येऽद्याहं त्वया सह ॥ पाण्डवानां प्रियं कुर्वन्नात्मनश्च नरोत्तम ॥ अद्य त्वां योधयिष्यामि रणे पुरुषसत्तम ॥ ध्रुवं च त्वां हनिष्यामि शपे सत्येन तेऽग्रतः । एतच्छ्रुत्वा च मद्वाक्यं यत्कृत्यं तत्समाचर ॥ कामं युध्यस्व वा मा वा न मे जीवन्प्रमोक्ष्यसे । सुदृष्टः क्रियतां भीष्म लोकोऽयं समितिञ्जय ॥ सञ्जय उवाच । एवमुक्त्वा ततो भीष्मं पञ्चभिर्नतपर्वभिः । अविध्यत रणे भीष्मं प्रतुदन्वाक्यसायकैः ॥ तस्य तद्वचनं श्रुत्वा सव्यसाची महारथः । कालोऽयमिति सञ्चिन्त्य शिखण्डिनमचोदयत् ॥ अहं त्वामनुयास्यामि परान्विद्रावयञ्शरैः । अभिद्रव सुसंरब्धो भीष्मं भीमपराक्रमम् ॥ न हि ते संयुगे पीडां शक्ताः कर्तुं महाबलाः । तस्मादद्य महाबाहो यत्नाद्भीष्यमभिद्रव ॥ अहत्वा समरे भीष्म यदि यास्यसि मारिष । अवहास्योऽस्य लोकस्य भविष्यसि मया सह ॥ नावहास्या यथा वीर भवेम परमाहवे । तथा कुरु रणे यत्नं साधयस्व पितामहम् ॥ कुरूंश्च सहितान्सर्वान्यतमानान्महारथान् । अहमावारयिष्यामि सावयस्व पितामहम् ॥ द्रोणं च द्रोणपुत्रं च कृपं चाथ सुयोधनम् । चित्रसेनं विकर्णं च सैन्धवं च यजद्रथम् ॥ विन्दानुविन्दावावन्त्यौ काम्भोजं च सुदक्षिणम् । भगदत्तं तथा शूरं मागदं च महाबलम् ॥ सौमदत्तिं तथा शूरमार्श्यशृङ्गिं च राक्षसम् । त्रिगर्तराजं च रणे सह सर्वैर्महारथैः ॥ अहमावारयिष्यामि वेलेव मकरालयम् । कुरूंश्च सहितान्सर्वान्युध्यमानान्महाबलान् । निवारयिष्यामि रणे साधयस्व पितामहम् ॥ ॥
इति श्रीमन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि दशमदिवसयुद्धे अष्टाधिकशततमोऽध्यायः ॥
6-108-43 कामं स्वच्छन्दम् । अभ्यस इति पाठे प्रक्षिप ॥ 6-108-49 सुदृष्टः क्रियतां न पुनर्द्रक्ष्यसि लोकमिममिति भावः ॥ 6-108-55 साधयस्वस्वीकुरु जहि वा ॥