अध्यायः 107

युधिष्ठिरेण कृष्णेनसह सम्मन्त्र्य रात्रौ भीष्ममेत्य तद्वधोपायकथनप्रार्थना ॥ 1 ॥ तम्प्रति भीष्मेण तत्कथनम् ॥ 2 ॥ सञ्जय उवाच । युध्यतामेव तेषां तु भास्करेऽस्तमुपागते । सन्ध्या समभवद्धोरा नापश्याम ततो रणम् ॥ ततो युधिष्ठिरो राजा सन्ध्यां सन्दृश्य भारत । वध्यमानं च भीष्मेण त्यक्तास्त्रं भयविह्वलम् ॥ स्वसैन्यं च परावृत्तं पलायनपरायणम् । भीष्मं च युधि संरब्धं पीडयन्तं महारथम् ॥ सोमकांश्च जितान्दृष्ट्वा निरुत्साहान्महारथान् । ' निशामुखं च सम्प्रेक्ष्य घोररूपं भयानकम् ।' चिन्तयित्वा ततो राज्ञामपहारमकारयत् ॥ ततोऽपहारं सैन्यानां चक्रे राजा युधिष्ठिरः । तथैव तव सैन्यानामपहारे ह्यभूत्तदा ॥ ततोऽपहारं सैन्यानां कृत्वा तत्र महारथाः । न्यविशन्त कुरुश्रेष्ठ सङ्ग्रामे क्षतविक्षताः ॥ भीष्मस्य समरे कर्म चिन्तयानास्तु पाण्डवाः । नालभन्त तदा शान्तिं भीष्मबाणप्रपीडिताः ॥ भीष्मोऽपि समरे जित्वा पाण्डवान्सह सृञ्जयान् । पूज्यमानस्तव सुतैर्वन्द्यमानश्च भारत ॥ न्यविशत्कुरुभिः सार्धं हृष्टरूपैः समन्ततः । ततो रात्रिः समभवत्सर्वभूतप्रमोहिनी ॥ तस्मिन्रात्रिमुखे घोरे पाण्डवा वृष्णिभिः सह । सृञ्जयाश्च दुराधर्षा मन्त्राय समुपाविशन् ॥ आत्मनिःश्रेयसं सर्वे प्राप्तकालं महाबलाः । मन्त्रयामासुरव्यग्रा मन्त्रनिश्चयकोविदाः ॥ ततो युधिष्ठिरो राजा मन्त्रयित्वा चिरं नृप । वासुदेवं समुद्वीक्ष्य वचनं चेदमाददे ॥ कृष्ण पश्य माहात्मानं भीष्मं भीमपराक्रमम् । गजं नलवनानीव विमृद्गन्तं बलं मम ॥ न चैवैनं महात्मानमुत्सहामो निरीक्षितुम् । लेलिह्यमानं सैन्येषु प्रवृद्धमिव पावकम् ॥ यथा घोरो महानागस्तक्षको वै विषोल्बणः । तथा भीष्मो रणे क्रुद्धस्तीक्ष्णशस्त्रः प्रतापवान् ॥ गृहीतचापः समरे प्रमुञ्चन्निशिताञ्छरान् । शक्यो जेतुं यमः क्रुद्धो वज्रपाणिश्च देवराट् ॥ वरुणः पाशभृच्चापि सगदो वा धनेश्वरः । न तु भीष्मः सुसङ्क्रुद्धः शक्यो जेतुं महाहवे ॥ सोऽहमेवं गते कृष्ण निमग्नः शोकसागरे । आत्मनो बुद्धिदौर्बल्याद्भीष्ममासाद्य संयुगे ॥ वनं यास्यामि दुर्धर्ष श्रेयो वै तत्र मे गतम् । न युद्धं रोचते कृष्ण हन्ति भीष्मो हि नः सदा ॥ यथा प्रज्वलितं वह्निं पतङ्गः समभिद्रवन् । एकतो मृत्युमभ्येति तथाऽहं भीष्ममेयिवान् ॥ क्षयं नीतोऽस्मि वार्ष्णेय राज्यहेतोः पराक्रमी । भ्रातरश्चैव मे शुराः सायकैर्भृशपीडिताः ॥ मत्कृते भ्रातृसौहार्दाद्राज्यभ्रष्टा वनं गताः । परिक्लिष्टा तथा कृष्णा मत्कृते मधुसूदन ॥ जीवितं बहु मन्येऽहं जीवितं ह्यद्य दुर्लभम् । जीवितस्याद्य शेषेण चरिष्ये धर्ममुत्तमम् ॥ यदि तेऽहमनुग्राह्यो भ्रातृभिः स केशव । स्वधर्मस्याविरोधेन हितं व्याहर केशव ॥ सञ्जय उवाच । एवं श्रुत्वा वचस्तस्य कारुण्याद्बहुविस्तरम् । प्रत्युवाच ततः कृष्णः सान्त्वयानो युधिष्ठिरम् ॥ श्रीभगवानुवाच । धर्मपुत्र विषादं त्वं मा कृथाः सत्यसङ्गर । यस्य ते भ्रातरः शूरा दुर्जयाः सत्रुसूदनाः ॥ अर्जुनो भीमसेनश्च वाय्वग्निसमतेजसौ । माद्रीपुत्रौ च विक्रान्तौ त्रिदशानामिविश्वरौ ॥ मां वा नियुङ्क्ष्व सौहार्दाद्योत्स्ये भीष्मेण पाण्डव । त्वप्रयुक्तो महाराज किं न कुर्यां महाहवे ॥ हनिष्यामि रणे भीष्ममाहूय पुरुषर्षभम् । पश्यतां धार्तराष्ट्राणां यदि नेच्छति फल्गुनः ॥ यदि भीष्मे हते वीरे जयं पश्यसि पण्डव । हन्तास्म्येकरथेनाद्य कुरुवृद्धं पितामहम् ॥ पश्य मे विक्रमं राजन्महेन्द्रस्येव संयुगे । विमुञ्चन्तं महास्त्रामि पातयिष्यामि तं रथात् ॥ यः शत्रुः पाण्डुपुत्राणां मच्छत्रुः स न संशयः । मदर्था भवदर्था ये ये मदीयास्तवैव ते ॥ तव भ्राता मम सखा सम्बन्धी शिष्य एव च । मांसान्युत्कृत्य दास्यामि फल्गुनार्थे महीपते ॥ एष चापि नरव्याघ्रो मत्कृते जीवितं त्यजेत् । एष नः समयस्तात तारयेम परस्परम् ॥ स मां नियुङ्क्ष्व राजेन्द्र यावत्सज्जो भवाम्यहम् । प्रतिज्ञातमुपप्लाव्ये यत्तत्पार्थेन पूर्वतः ॥ पातयिष्यामि गाङ्गेयमित्युलूकस्य सन्निधौ । परिरक्ष्यमिदं तावद्वचः पार्थस्य धीमतः ॥ अनुज्ञातेन पार्थेन मया कार्यं न संशयः । अथवा फल्गुनस्यैष भारः परिमितो रणे ॥ स हनिष्यति सङ्ग्रामे भीष्मं परपुरञ्जयम् । अशक्यमपि कुर्याद्धि रणे पार्थः समुद्यतः ॥ त्रिदशान्वा समुद्युक्तान्सहितान्दैत्यदानवैः । निहन्त्यादर्जुनः सङ्ख्ये किमु भीष्मं नराधिप ॥ विपरीतो महावीर्यो गतसत्वोऽल्पजीवनः । भीष्मः शान्तनवो नूनं कर्तव्यं नावबुध्यते ॥ युधिष्ठिर उवाच । एवमेतन्महाबाहो यथा वदसि माधव । सर्वे ह्येते न पर्याप्तास्तव वेगविधारणे ॥ नियतं समावाप्स्यामि सर्वमेतद्यथेप्सितम् । यस्य मे पुरुषव्याघ्र भवान्पक्षे व्यवस्थितः ॥ सेन्द्रानपि रणे देवाञ्जयेयं जयतां वर । त्वया नाथेन गोविन्द किमु भीष्मं महारथम् ॥ न तु त्वामनृतं कर्तुमुत्सहे स्वात्मगौरवात् । अयुध्यमानाः सहाय्यं यथोक्तं कुरु माधव ॥ समयस्तु कृतः कश्चिन्मम भीष्मेण संयुगे । मन्त्रयिष्ये तवार्थाय न तु योत्स्ये कथञ्चन ॥ दुर्योधनार्थं योत्स्यामि सत्यमेतदिति प्रभो । स हि राज्यस्य मे दाता मन्त्रस्यैव च माधव ॥ तस्माद्देवव्रतं भूयो वधोपायार्थमात्मनः । भवता सहिताः सर्वे प्रयाम मधुसूदन ॥ तद्वयं सहिता गत्वा भीष्ममाशु नरोत्तमम् । रुचिते तव पृच्छामि मन्त्रं वार्ष्णेय माचिरम् ॥ स वक्ष्यति हितं वाक्यं सत्यमस्माज्जनार्दन । यथा च वक्ष्यते कृष्ण तथा कर्तास्मि संयुगे ॥ स नो जयस्य दाता स्यान्मन्त्रस्य च दृढव्रतः । बालाः पित्रा विहीनाश्च तेन संवर्धिता वयम् ॥ तं चेत्पितामहं वृद्धं हन्तुमिच्छामि माधव । पितुः पितरमिष्टं च धिगस्तु क्षत्रजीविकाम् ॥ सञ्जय उवाच । ततोऽब्रवीन्महाराज वार्ष्णेयः कुरुनन्दनम् । रोचते मे महाप्राज्ञ राजेन्द्र तव भाषितम् ॥ देवव्रतः कृती भीष्मः प्रेक्षितेनापि निर्दहेत् । गम्यतां स्ववधोपायं प्रष्टुं सागरगासुतम् ॥ वक्तमर्हति सत्यं स त्वया पृष्टो विशेषतः । ते वयं तत्र गच्छामः प्रष्टुं कुरुपितामहम् ॥ गत्वा शान्तनवं वृद्धं मन्त्रं पृच्छाम भारत । स नो दास्यति मन्त्रं यं तेन योत्स्यामहे परान् ॥ सञ्जय उवाच । एवमामन्त्र्य ते वीराः पाण्डवाः पाण्डुपूर्वज । जग्मुस्ते सहिताः सर्वे वासुदेवश्च वीर्यवान् ॥ विमुक्तशस्त्रकवचा भीष्मस्य सदनं प्रति । प्रविश्य च तदा भीष्मं शिरोभिः प्रणिपेदिरे ॥ पूजयन्तो महाराज पाण्डवा भरतर्षभम् । प्रणम्य शिरसा चैनं भीष्मं शरणमभ्ययुः ॥ तानुवाच महाबाहुर्भीष्मः कुरुपितामहः । स्वागतं तव वार्ष्णेय स्वागतं ते धनञ्जय ॥ स्वागतं धर्मपुत्राय भीमाय यमयोस्तथा । किं वा कार्यं करोम्यद्य युष्माकं प्रीतिवर्धनं ॥ 'युद्धादन्यत्र हे वत्साः प्रीयन्तां मा विशङ्कथ । 'सर्वात्मनापि कर्तास्मि यदपि स्यात्सदुष्करम् । तथा ब्रुवाणं गाङ्गेयं प्रीतियुक्तं पुनःपुनः ॥ उवाच राजा दीनात्मा प्रीतियुक्तमिदं वचः । कथं जयेम सर्वज्ञ कथं राज्यं लभेमहि ॥ प्रजानां संशयो न स्यात्कथं तन्मे बद प्रभो । भवान्हि नो वधोपायं ब्रवीतु स्वयमात्मनः ॥ भवन्तं समरे वीर विषहेम कथं वयम् । न हि ते सूक्ष्ममप्यस्ति रन्ध्रं कुरुपितामह ॥ मण्डलेनैव धनुषा दृश्यसे संयुगे सदा । आददानं सन्दधानं विकर्षन्तं धनुर्न च ॥ पश्यामस्त्वां महाबाहो रथे सूर्यमिवापरम् । रथाश्वनरनागानां हन्तारं परवीरहन् ॥ कोऽथवोत्सहते जेतुं वां पुमान्भरतर्षभ । वर्षता शरवर्षाणि महान्ति पुरुषर्षभ ॥ क्षयं निता हि पृतना संयुगे महती मम । यथा युधि जयेम त्वां यथा राज्यं भृशं मम ॥ मम सैन्यस्य च क्षेमं तन्मे ब्रूहि पितामह । सञ्जय उवाच ।ततोऽब्रवीच्छान्तनवः पाण्डवान्पाण्डुपूर्वज ॥ न कथञ्चन कौन्तेय मयि जीवति संयुगे । जयो भवति सर्वज्ञ सत्यमेतद्ब्रवीमि ते ॥ निर्जिते मयि युद्धेन रणे जेष्यथ पाण्डवाः । क्षिप्रं मयि प्रहरत यदीच्छथ रणे जयम् ॥ अनुजानामि वः पार्थाः प्रहरध्वं यथासुखम् । एवं हि सुकृतं मन्ये भवतां विदितो ह्यहम् । हते मयि हतं सर्वं तस्मादेवं विधीयताम् ॥ युधिष्ठिर उवाच । ब्रूहि तस्मादुपायं नो यथा युद्धे जयेमहि । भवन्तं समरे क्रुद्धं दण्डहस्तमिवान्तकम् ॥ शक्यो वज्रधरो जेतुं वरुणोऽथ यमस्तथा । न भवान्समरे शक्यः सेन्द्रैरपि सुरासुरैः ॥ भीष्म उवाच । सत्यमेतन्महाबाहो यथा वदसि पाण्डव ॥ नाहं जेतुं रणे शक्यः सेन्द्रैरपि सुरासुरैः । आत्तशस्त्रो रणे यत्तो गृहीतवरकार्मुकः । ततो मां न्यस्तशस्त्रं तु एते हन्युर्महारथाः ॥ निक्षिप्तशस्त्रे पतिते विमुक्तकवचध्वजे । द्रवमाणे च भीते च तवास्मीति च वादिनि ॥ 'स्त्रीजिते स्त्रीप्रधाने च स्त्रीप्रधायिनि धर्मज' स्त्रियां स्त्रीनामधेये च विकले चैकपुत्रिणि । अप्रसूते च षण्डे च न युद्धं रोचते मम ॥ इमं मे शृणु राजेन्द्र सङ्कल्पं पूर्वचिन्तितम् । असङ्कल्पध्वजं दृष्ट्वा न युध्येयं कदाचन ॥ य एष द्रौपदो राजंस्तव सैन्ये महारथः । शिखण्डी समरामर्षी शूरश्च समितिञ्जयः ॥ यथाऽभवच्च स्त्रीपूर्वं पश्चात्पुंस्त्वं समागतः । जानन्ति च भवन्तोऽपि सर्वमेतद्यथातथम् ॥ अर्जुनः समरे शूरः पुरस्कृत्य शिखण्डीनम् । मामेव विशिखैस्तीक्ष्णैरभिद्रवतु दंशितः ॥ असङ्कल्पध्वजे तस्मिन्स्त्रीपूर्वे च विशेषतः । न प्रहर्तुमभीप्सामि गृहीतेषु कथञ्चन ॥ तदन्तरं समासाद्य पाण्डवो मां धनञ्जयः । शरैर्घातयतु क्षिप्रं समन्ताद्भरतर्षभ ॥ न तं पश्यामि लोकेष मां हन्याद्यः समुद्यतम् । ऋते कृष्णान्महाभागात्पाण्डवाद्वा धनञ्जयात् ॥ पार्षतं तु पुरोधाय क्लीबमद्य ममाग्रतः । आत्तशस्त्रो रणे यत्तो गृहीतवरकार्मुकः । मां पातयतु बीभत्सुरेवं तव जयो ध्रुवम् ॥ एतत्कुरुष्व कौन्तेय यथोक्तं मम सुव्रत । ततो जेष्वसि सङ्ग्रामे धार्तराष्ट्रान्समागतान् ॥ सञ्जय उवाच । तेऽनुज्ञातास्ततः पार्था जग्मुः स्वशिबिरं प्रति । अभिवाद्य महात्मानं भीष्मं कुरुपितामहम् ॥ तथोक्तवति गाङ्गेये परलोकाय दीक्षिते । अर्जुनो दुःखसन्तप्तः सव्रीडमिदमब्रवीत् ॥ गुरुणा कुरुवृद्धेन कृतप्रज्ञेन धीमता । पितामहेन सङ्ग्रामे कथं योद्धास्मि माधव ॥ क्रीडता हि मया बाल्ये वासुदेव महामनाः । पांसुरूषितगात्रेण महात्मा परुषीकृतः ॥ यस्याहमधिरुह्याङ्कं वालः किल गदाग्रज । तातेत्यवोचं पितरं पितुः पाण्डोर्महात्मनः ॥ नाहं तातस्तव पितुस्तातोऽस्मि तव भारत । इति मामब्रवीद्बाल्ये यः स वध्यः कथं मया ॥ कामं वध्यतु सैन्यं मे नाहं योत्स्ये महात्मना । जयो वास्तु वधो वा मे कथं वा कृष्ण मन्यसे ॥ ' कथमस्माद्विधः कृष्ण जानन्धर्मं सनातनम् । न्यस्तशस्त्रे च वृद्धे च प्रहरेद्धि पितामहे ॥' श्रीवासुदेव उवाच । प्रतिज्ञाय वधं जिष्णो पुरा भीष्मस्य संयुगे । क्षत्रधर्मे स्थितः पार्थ कथं नैनं हनिष्यसि ॥ पातयैनं रथात्पार्थ क्षत्रियं युद्धदुर्मदम् । नाहत्वा युधि गाङ्गेयं विजयस्ते भविष्यति ॥ दृष्टमेतत्पुरा देवैर्भविष्यत्यवशस्य ते । यद्दृष्टं हि पुरा पार्थ तत्तथा न तदन्यथा ॥ न हि भीष्मं दुराधर्षं व्यात्ताननमिवान्तकम् । त्वदन्यः शक्नुयाद्योद्धुमपि वज्रधरः स्वयम् ॥ जहि भीष्मं स्थिरो भूत्वा शृणु चेदं वचो मम । यथोवाच पुरा शक्रं महाबुद्धिर्बृहस्पतिः ॥ ज्यायांसमपि चेद्वृद्धं गुणैरपि समन्वितम् । आततायिनमायान्तं हन्याद्धातकमात्मनः ॥ शाश्वतोऽयं स्थितो धर्मः क्षत्रियाणां धनञ्जय । योद्धव्यं रक्षितव्यं च यष्टव्यं चानसूयुभिः ॥ अर्जुन उवाच । शिखण्डी निधनं कृष्ण भीष्मस्य भविता ध्रुवम् । दृष्ट्वैव हि सदा भीष्मः पाञ्चाल्यं विनिवर्तते ॥ ते वयं प्रमुखे तस्य पुरस्कृत्य शिखण्डिनम् । गाङ्गेयं पातयिष्याम उपायेनेति मे मतिः ॥ अहमन्यान्महेष्वासान्वारयिष्यामि सायकैः । शिखण्ड्यपि युधां श्रेष्ठं भीष्ममेवाभियोधयेत् ॥ श्रुतं हि कुरुमुख्यस्य नाहं हन्यां शिखण्डिनम् । कन्या ह्येषा पुरा भूत्वा पुरुषः समपद्यत ॥ 'अर्जुनस्य वचः श्रुत्वा भीष्मस्य वधसंयुतम् । जहृषुर्हृष्टरोमाणः सकृष्णाः पाण्डवास्तदा ॥' इत्येवं निश्चयं कृत्वा पाण्डवाः सहमाधवाः । अनुमान्य महात्मानं प्रययुर्हृष्टमानसाः । शयनानि यथा स्वानि भेजिरे पुरुषर्षभाः ॥ ॥

इति श्रीमन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि सप्ताधिकशततमोऽध्यायः ॥

6-107-20 एकत इति द्वितीयान्तात्तसिः । एकं केवलं मृत्युमेवाभ्येतीत्यर्थः ॥ 6-107-40 विपरीतः क्षुद्रेषु पराक्रमी । गतसत्वो गतबुद्धिः ॥ 6-107-61 युद्धादन्यत्रेत्यर्धं कः पुस्तक एव दृश्यते ॥ 6-107-91 परुषीकृतः रूक्षीकृतः ॥ 6-107-97 युद्धदुर्मदं युद्धोत्सुकम् ॥ 6-107-98 गमिष्याति यमक्षयं इति पाठे भीष्म इति शेषः ॥ 6-107-101 आततायिनमित्यस्य घातकमिति विशेषणमन्येभ्य आततायिभ्यो व्यवच्छेदायोक्तम् ॥ 6-107-103 निधनं निधनहेतुः ॥