अध्यायः 106
भीष्मपराक्रमममृष्यता कृष्णेन रथादवरुह्य तद्वधायाभियानम् ॥ 1 ॥ अर्जुनेन पश्चादनुधाव्य निवर्तितस्य कृष्णस्य तेन सह पुना रथारोहणम् ॥ 2 ॥ सञ्जय उवाच । ततः पिता तव क्रुद्धो निशितैः सायकोत्तमैः । आजघान रणे पार्थान्सहसेनान्समन्ततः ॥ भीमं द्वादशभिर्विद्ध्वा सात्यकिं नवभिः शरैः । नकुलं च त्रिभिर्विद्ध्वा सहदेवं च सप्तभिः ॥ युधिष्ठिरं द्वादशभिर्बाह्वोरुरसि चार्पयत् । धृष्टद्युम्नं ततो विद्ध्वा ननाद सुमहाबलः ॥ तं द्वादशाख्यैर्नकुलो माधवश्च त्रिभिः शरैः । धृष्टद्युम्नश्च सप्तत्या भीमसेनश्च सप्तभिः । युधिष्ठिरो द्वादशभिः प्रत्यविध्यत्पितामहम् ॥ द्रोणस्तु सात्यकिं विद्ध्वा भीमसेनमविध्यत । एकैकं पञ्चभिर्बाणैर्यमदण्डोपमैः शितैः ॥ तौ च तं प्रत्यविध्येतां त्रिभिस्त्रिभिरजिह्मगैः । तोत्रैरिव महानागं द्रोणं ब्राह्मणपुङ्गवम् ॥ सौवीरा कितवाः प्राच्याः प्रतीच्योदीच्यमालवाः । अभीषाहाः शूरसेनाः शिबयोऽथ वसातयः । सङ्ग्रमे नाजहुर्भीष्मं वध्यमानाः शितैः शरैः ॥ तथैवान्ये महीपाला नानादेशसमागताः । पाण्डवानभ्यवर्तन्त विविधायुधपाणयः । तथैव पाण्डवा राजन्परिवव्रुः पितामहम् ॥ स समन्तात्परिवृतो रथौघैरपराजितः । गहनेऽग्निरिवोत्सृष्टः प्रजज्वाल दहन्परान् ॥ रथाग्न्यगारश्चापार्चिरसिशक्तिगजेन्धनः । शरस्फुलिङ्गो भीष्माग्निर्ददाह क्षत्रियर्षभान् ॥ ' यथा हि सुमहानग्निः कक्षे चरसि सानिलः । 'तथा भीष्मो महाराज दिव्यमस्त्रमुदीरयन् ॥ सुवर्णपुङ्खैरिषुभिर्गार्ध्रपक्षैः सुतेजनैः । कर्णिनालीकनाराचैश्छादयामास तद्बलम् ॥ अपातयद्ध्वजांश्चैव रथिनश्च शितैः शरैः । मुण्डतालवनानीव चकार स रथव्रजान् ॥ निर्मनुष्यान्रथान्राजन्गजानश्वांश्च संयुगे । अकरोत्स महाबाहुः सर्वशस्त्रभृतां वरः ॥ तस्य ज्यातलनिर्घोषं विस्फूर्जितमिवाशनेः । निशम्य सर्वभूतानि समकम्पन्त भारत ॥ अमोघा ह्यपत्नबाणाः पितुस्ते भरतर्षभ । नासज्जन्त तनुत्रेषु भीष्मचापच्युताः शराः ॥ हतवीरान्रथान्राजन्संयुक्ताञ्जवनैर्हयैः । अपश्याम महाराज ह्रियमाणान्रणाजिरे ॥ चेदिकाशिकरूषाणां सहस्राणि चतुर्दश । महारथाः समाख्याताः कलपुत्रास्तनुत्यजः । अपरावर्तिनः सर्वे सुवर्णविकृतध्वजाः ॥ सङ्ग्रामे भीष्ममासाद्य व्यादितास्यमिवान्तकम् । निमग्नाः परलोकाय सवाजिरथकुञ्जराः ॥ भग्नाक्षोपस्करान्कांश्चिद्भग्नचक्रांश्च भारत । अपश्याम महाराज शतशोऽथ सहस्रशः ॥ सवरूथै रथैर्भग्नै रथिभिश्च निपातितैः । शरैः सुकवचैश्छिन्नैः पट्टसैश्च विशाम्पते ॥ गदाभिर्भिण्डिपालैश्च निशितैश्च शिलीमुखैः । अनुकर्षैरुपासङ्गैश्चक्रैर्भग्नैश्च मारिष ॥ बाहुभिः कार्मुकैः खङ्गैः शिरोभिश्च सकुण्डलैः । तलत्रैरङ्गुलित्रैश्च ध्वजैश्च विनिपातितैः । चापैश्च बहुधा च्छिन्नैः समास्तीर्यत मेदिनी ॥ गजारोहा गजान्राजन्हयांश्च हयसादिनः । अभिपेतुर्द्रुतं तत्र शतशोऽथ सहस्रशः ॥ यतमानाश्च ते वीरा द्रवमाणान्महारथान् । नाशक्नुवन्वारयितुं भीष्मबाणप्रपीडितान् ॥ महेन्द्रसमवीर्येण वध्यमाना महाचमूः । अभज्यत महाराज न च द्वौ समधावताम् ॥ आविद्धरथनागाश्वं पतितध्वजसङ्कुलम् । अनीकं पाण्डुपुत्राणां हाहाभूतमचेतनम् ॥ जघानात्र पिता पुत्रं पुत्रश्च पितरं तथ । प्रियं सखाय चाक्रन्दे सखा दैवबलात्कृतः ॥ विमुच्य कवचानन्ये पाण्डुपुत्रस्य सैनिकाः । प्रकीर्य केशान्धावन्तः प्रत्यदृश्यन्त सर्वशः ॥ तद्गोकुलमिवोद्भ्रान्तमुद्भान्तरथकूबरम् । ददृशे पाण्डुपुत्रस्य सैन्यमार्तस्वरं तदा ॥ प्रभज्यमानं सैन्यं तु दृष्ट्वा यादवनन्दनः । उवाच पार्थं बीभत्सुं निगृह्य रथमुत्तमम् ॥ श्रीभगवानुवाच । अयं स कालः सम्प्राप्तः पार्थ यः काङ्क्षितस्तव । प्रहरास्मै नरव्याघ्र भीष्मायाहवशोभिने ॥ यत्पुरा कथितं वीर त्वया राज्ञां समागमे । विराटनगरे तात सञ्जयस्य समीपतः ॥ भीष्मद्रोणमुखान्सर्वान्धार्तराष्ट्रस्य सैनिकान् । सानुबन्धान्हनिष्यामि ये मां योत्स्यन्ति सङ्गरे ॥ इति तत्कुरु कौन्तेय सत्यं वाक्यमरिन्दम । क्षत्रधर्ममनुस्मृत्य युध्यस्व विगतज्वरः ॥ सञ्जय उवाच । इत्युक्तो वासुदेवेन तिर्यग्दृष्टिरधोमुखः । अकाम इव बीभत्सुरिदं वचनमब्रवीत् ॥ अवध्यानां वधं कृत्वा राज्यं वा नरकोत्तरम् । दुःखानि वनवासे वा किं नु मे सुकृतं भवेत् ॥ चोदयाश्वान्यतो भीष्मः करिष्ये वचनं तव । पातयिष्यामि दुर्धर्षं भीष्मं कुरुपितामहम् ॥ सञ्जय उवाच । स चाश्वान्रजतप्रख्यांश्चोदयामास माधवः । यतो भीष्मस्ततो राजन्दुष्प्रेक्ष्यो रश्मिवानिव । ततस्तत्पुनरावृत्तं युधिष्ठिरबलं महत् । दृष्ट्वा पार्थं महाबाहुं भीष्मायोद्यतमाहवे ॥ ततो भीष्मः कुरुश्रेष्ठः सिंहवद्विनदन्मुहुः । धनञ्जयरथं शीघ्रं शरवर्षैरवाकिरत् ॥ क्षणेन स रथस्तस्य सहयः सहसारथिः । शरवर्षेण महता न प्राज्ञायत भारत ॥ वासुदेवस्त्वसम्भ्रान्तो धैर्यमास्थाय सत्वरः । चोदयामास तानश्वान्विनुन्नान्भीष्मसायकैः ॥ ततः पार्थो धनुर्गृह्य दिव्यं जलदनिःस्वनम् । पातयामास भीष्मस्य धनुश्छित्त्वा शितैः शरैः ॥ स च्छिन्नधन्वा कौरव्यः पुनरन्यन्महद्धनुः । निमेषान्तरमात्रेण सज्यं चक्रे पिता तव ॥ चकर्ष च ततो दोर्भ्यां धनुर्जलदनिःस्वनम् । अथास्य तदपि क्रुद्धश्चिच्छेद धनुरर्जुनः । तस्य तत्पूजयामास लाघवं शन्तनोः सुतः ॥ गाङ्गेयस्त्वब्रवीत्पार्थं धन्विश्रेष्ठमरिन्दम । साधुसाधु महाबाहो साधु कुन्तीसुतेति च ॥ समाभाष्यैवमपरं प्रगृह्य रुचिरं धनुः । मुमोच समरे भीष्मः शरान्पार्थरथं प्रति ॥ अदर्शयद्वसुदेवो हययाने परं बलम् । मोघान्कुर्वञ्शरांस्तस्य मण्डलानि निदर्शयन् ॥ शुशुभाते नरव्याघ्रौ तौ भीष्मशरविक्षतौ । गोवृषाविव संरब्धौ विषाणोल्लिखिताङ्कितौ ॥ वासुदेवस्तु सम्प्रेक्ष्य पार्थस्य मृदुयुद्धताम् । भीष्मं च शरवर्षाणि सृजन्तमनिशं युधि ॥ प्रतपन्तमिवादित्यं मध्यमासाद्य सेनयोः । वरान्वरान्विनिघ्नन्तं पाण्डुपुत्रस्य सैनिकान् ॥ युगान्तमिव कुर्वाणं भीष्मं यौधिष्ठिरे बले । नामृष्यत महाबाहुर्माधवः परवीरहा ॥ उत्सृज्य रजतप्रख्यान्हयान्पार्थस्य मारिष । वासुदेवस्ततो योगी प्रचस्कन्द महारथात् ॥ अभिदुद्राव भीष्मं स भुजप्रहरणो बली । प्रतोदपाणिस्तेजस्वी सिंहवद्विनदन्मुहुः ॥ दारयन्निव पद्भ्यां स जगतीं जगदीश्वरः । क्रोधताम्रेक्षणः कृष्णो जिघांसुरमितद्युतिः ॥ ग्रसन्निव च तेजांसि तावकानां महाहवे । दृष्ट्वा माधवमाक्रन्दे भीष्मायोद्यतमन्तिके ॥ हतो भीष्मो हतो भीष्म इति तत्रस्म सैनिकाः । क्रोशन्तः प्राद्रवन्सर्वे वासुदेवभयातुराः ॥ पीतकौशेयसंवीतो मणिश्यामो जनार्दनः । शुशुभे विद्रवन्भीष्मं विद्युन्माली यथाम्बुदः ॥ स सिंह इव मातङ्गं यथर्षभ इवर्षभम् । अभिदुद्राव वेगेन विनदन्यादवर्षभः ॥ तमापतन्तं सम्प्रेक्ष्य पुण्डरीकाक्षमाहवे । असम्भ्रमं रणे भीष्मो विचकर्ष महद्धनुः । उवाच चैव गोविन्दमसम्भ्रान्तेन चेतसा ॥ एह्येहि पुण्डरीकाक्ष देवदेव नमोस्तु ते । मामद्य सात्वतश्रेष्ठ तापयस्त महाहवे ॥ त्वया हि देव सङ्ग्रामे हतस्यापि ममानघ । श्रेय एव परं कृष्ण लोके भवति सर्वतः ॥ सम्भावितोऽस्मि गोविन्द त्रैलोक्येनाद्य संयुगे । प्रहरस्व यथेष्टं वै दासोऽस्मि तव चानघ ॥ सञ्जय उवाच । अन्वगेव ततः पार्थः समभिद्रुत्य केशवम् । निजग्राह महाबाहुर्बाहुभ्यां परिगृह्य वै ॥ निगृह्यमाणः पार्थेन कृष्णो राजीवलोचनः । जगामैवैनमादाय वेगेन पुरुषोत्तमः ॥ पार्थस्तु विष्टभ्य बलाच्चरणौ परवीरहा । निजग्राह हृषीकेशं कथञ्चिद्दशमे पदे ॥ तत एवमुवाचार्तः क्रोधपर्याकुलेक्षणम् । निःश्वसन्तं यथा नागमर्जुनः प्रणयात्सखा ॥ निवर्तस्व महाबाहो नानृतं कर्तुमर्हसि । यत्त्वया कथितं पूर्वं न योत्स्यामीति केशव ॥ मिथ्यावादीति लोकास्त्वां कथयिष्यन्ति माधव । ममैष भारः सर्वो हि हनिष्यामि पितामहम् ॥ शपे केशव शस्त्रेण सत्येन सुकृतेन च । अन्तं यथा गमिष्यामि शत्रूणां शत्रुसूदन ॥ अद्यैव पश्य दुर्धर्षं पात्यमानं महारथम् । तारापतिमिवापूर्णमन्तकाले यदृच्छया ॥ माधवस्तु वचः श्रुत्वा फल्गुनस्य महात्मनः । 'अभवत्परमप्रीतो दृष्ट्वा पार्थस्य विक्रमम्' । न किञ्चिदुक्त्वा सक्रोध आरुरोह रथं पुनः ॥ तौ रथस्थौ नरव्याघ्रौ भीष्मः शान्तनवः पुनः । ववर्ष शरवर्षेण मेघो वृष्ट्या यथाऽचलौ ॥ प्राणानादत्त योधानां पिता देवव्रतस्तव । गभस्तिभिरिवादित्यस्तेजांसि शिशिरात्यये ॥ यथा कुरूणां सैन्यानि बभञ्जुर्युधि पाण्डवाः । तथा पाण्डवसैन्यानि बभञ्ज युधि ते पिता ॥ हतविद्रुतसैन्यास्तु निरुत्साहा विचेतसः । निरीक्षितुं न शेकुस्ते भीष्ममप्रतिमं रणे ॥ मध्यं गतमिवादित्यं प्रतपन्तं स्वतेजसा । ते वध्यमाना भीष्मेण शतशोऽथ सहस्रशः ॥ कुर्वाणं समरे कर्माण्यतिमानुषविक्रमम् । वीक्षाञ्चक्रुर्महाराज पाण्डवा भयपीडिताः ॥ तथा पाण्डवसैन्यानि द्राव्यमाणानि भारत । त्रातारं नाध्यगच्छन्त गावः पङ्कगता इव । पिपीलिका इव क्षुण्णा दुर्बला बलिना रणे ॥ तथैव योधा राजेन्द्र भीष्मेणामित्रघातिना । समरे मृदिताः सर्वे पाण्डवाः सह सृञ्जयैः ॥ महारथं भारत दुष्प्रकम्पंशरौघिणं प्रतपन्तं नरेन्द्रान् । भीष्मं न शेकुः प्रतिवीक्षितुं तेशरार्चिषं सूर्यमिवातपन्तम् ॥ विमृद्गतस्तस्य तु पाण्डुसेना-मस्तं जगामाथ सहस्ररश्मिः । ततो हि भीष्मः सबलान्ससैन्या-न्न्यवारयत्पाण्डुसुताञ्शरौघैः ॥ जघान चैतान्सुभृशं महाबलोमहाव्रतः पाण्डुसुतान्महास्त्रैः । रणे करूणाधिपचेदिपैर्बलै-र्वृतान्सदा चक्रधरस्य पश्यतः । ततो बलानां श्रमकर्शितानां मनोऽवहारं प्रति सम्बभूव ॥ ॥
इति श्रीमन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि नवमदिवसयुद्धे षडधिकशततमोऽध्यायः ॥