अध्यायः 105
युधिष्ठिरादियुद्धवर्णनम् ॥ 1 ॥ सञ्जय उवाच । दृष्ट्वा भीष्मं रणे युद्धं पाण्डवैरभिसंवृतम् । यथा मेघैर्महाराज तपान्ते दिवि भास्करम् ॥ दुर्योधनो महाराज दुःशासनमभाषत । एष शूरो महेष्वासो भीष्मः शूरनिषूदनः ॥ छादितः पाण्डवैः शूरैः समन्ताद्भरतर्षभ । तस्य कार्यं त्वया वीर रक्षणं सुमहात्मनः ॥ रक्ष्यमाणो हि समरे भीष्मोऽस्माकं पितामहः । निहन्यात्समरे यत्तान्पाञ्चालान्पाण्डवैः सह ॥ तत्र कार्यतमं मन्ये भीष्मस्यैवाभिरक्षणम् । गोप्ता ह्येष महेष्वासो भीष्मोऽस्माकं महाव्रतः ॥ स भवान्सर्वसैन्येन परिवार्य पितामहम् । समरे कर्म कुर्वाणं दुष्करं परिरक्षतु ॥ सञ्जय उवाच । स एवमुक्तः समरे पुत्रो दुःशासनस्तव । परिवार्य स्थितो भीष्मं सैन्येन महता वृतः ॥ ततः शतसहस्राणां हयानां सुबलात्मजः । विमलप्रासहस्तानामृष्टितोमरधारिणाम् ॥ दर्पितानां सुवेगानां बलस्थानां पताकिनाम् । शिक्षितैर्युद्धकुशलैरुपेतानां नरोत्तमैः ॥ नकुलं सहदेवं च धर्मराजं च पाण्डवम् । न्यवारयन्नरश्रेष्ठान्परिवार्य समन्ततः ॥ ततो दुर्योधनो राजा शूराणां हयसादिनाम् । अयुतं प्रेषयामास पाण्डवानां निवारणे ॥ तैः प्रविष्टैर्महावेगैर्गरुत्मद्भिरिवाहवे । खुराहता धरा राजंश्चकम्पे च ननाद च ॥ खुरशब्दश्च सुमहान्वाजिनां शुश्रुवे तदा । महावंशवनस्येव दह्यमानस्य पर्वते ॥ उत्पतद्भिश्च तैस्तत्र समुद्धूतं महद्रजः । दिवाकररथं प्राप्य च्छादयामास भास्करम् ॥ वेगवद्भिर्हयैस्तैस्तु क्षोभिता पाण्डवीक चमूः । निपतद्भिर्महावेगैर्हंसैरिव महत्सरः ॥ हेषतां चैव शब्देन न प्राज्ञायत किञ्चन । 'अन्तर्दधे महाञ्शब्दस्तेन शब्देन मोहितः ॥' ततो युधिष्ठिरो राजा माद्रीपुत्रौ च पाण्डवौ । प्रत्यघ्नंस्तरसा वेगं समरे हयसादिनाम् ॥ उद्वृत्तस्य महाराज प्रावृट्कालेऽतिपूर्यतः । पौर्णमास्यामम्बुवेगं यथा वेला महोदधेः ॥ ततस्ते रथिनो राजञ्शरैः सन्नतपर्वभिः । न्यकृन्तन्नुत्तमाङ्गानि शरेण हयसादिनाम् ॥ ते निपेतुर्महाराज निहता दृढधन्विभिः । नागैरिव महानागा यथावद्गिरिगह्वरे ॥ तेऽपि प्रासैः सुनिशितैः शरैः सन्नतपर्वभिः । न्यकृन्तन्नुत्तमाङ्गानि विचरन्तो दिशो दश ॥ अभ्याहता हयारोहा ऋष्टिभिर्भरतर्षभ । अत्यजन्नुत्तमाङ्गानि फलानीव महाद्रुमाः ॥ समादिनो हया राजंस्तत्रतत्र निषूदिताः । पतिताः पात्यमानाश्च प्रत्यदृश्यन्त सर्वशः ॥ वध्यमाना हयाश्चैव प्राद्रवन्त भयार्दिताः । यथा सिंहं समासाद्य मृगाः प्राणपरायणाः ॥ पाण्डवाश्च महाराज जित्वा शत्रून्महामृधे । दध्मुः शङ्खांश्च भेरीश्च ताडयामासुराहवे ॥ ततो दुर्योधनो दीनो दृष्ट्वा सैन्यं पराजितम् । अब्रवीद्रतश्रेष्ठ मद्रराजमिदं वचः ॥ एष पाण्डुसुतो ज्येष्ठो यमाभ्यां सहितो रणे । पश्यतां वो महाबाहो सेनां द्रावयति प्रभो ॥ तं वारय महाबाहो वेलेव मकरालयम् । त्वं हि संश्रूयसेऽत्यर्थमसह्यबलविक्रमः ॥ सञ्जय उवाच । पुत्रस्य तव तद्वाक्यं श्रुत्वा शल्यः प्रतापवान् । स ययौ रथवंशेन यत्र राजा युधिष्ठिरः ॥ तदापतद्वै सहसा शल्यस्य सुमहद्बलम् । महौघवेगं समरे वारयामास पाण्डवः ॥ मद्रराजं च समरे धर्मराजो महारथः । दशभिः सायकैस्तूर्णमाजघान स्तनान्तरे । नकुलः सहदेवश्च तं सप्तभिरजिह्नगैः ॥ मद्रराजोऽपि तान्सर्वानाजघान त्रिभिस्त्रिभिः । युधिष्ठिरं पुनः षष्ट्या विव्याध निशितैः शरैः ॥ माद्रीपुत्रौ च सम्भ्रान्तौ द्वाभ्यां द्वाभ्यामताडयत् । ततो भीमो महाबहुर्दृष्ट्वा राजनमाहवे ॥ मद्रराजवशं प्राप्तं मृत्योरास्यगतं यथा । अभ्यपद्यत सङ्ग्रामे युधिष्ठिरममित्रजित् ॥ 'आपतन्नेव भीमस्तु मद्रराजमताडयत् । 'सर्वपारशवैस्तीक्ष्णैर्नाराचैर्मर्मभेदिभिः ॥ ततो भीष्मश्च द्रोणश्च सैन्येन महता वृतौ । राजानमभ्यपद्येतामञ्जसा शरवर्षिणौ ॥ ततो युद्धं महाघोरं प्रावर्तत सुदारुणम् । अपरां दिशमास्थाय द्योतमाने दिवाकरे ॥ ॥
इति श्रीमन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि नवमदिवसयुद्धे पञ्चाधिकशततमोऽध्यायः ॥
6-105-8 तत इति । सैन्येनेति पूर्वस्मादनुकृष्यते । हयानां सैन्येन परिवार्य न्यवारयदिति तृतीयेनान्वयः ॥