अध्यायः 104

सङ्कुलयुद्धवर्णनम् ॥ 1 ॥ सञ्जय उवाच । अर्जुनस्तान्नरव्याघ्रः सुशर्मानुचरान्नृपान् । अनयत्प्रेतराजस्य सदनं सायकैः शितैः ॥ सुशर्मापि ततो बाणैः पार्थं विव्याध संयुगे । वासुदेवं च सप्तत्या पार्थं च नवभिः पुनः ॥ तं निवार्य शरौघेण सक्रुसूनुर्महारथः । सुशर्मणो रणे योधान्प्राहिणोद्यमसादनम् ॥ ते वध्यमानाः पार्थेन कालेनेव युगक्षये । व्यद्रवन्त रणे राजन्भये जाते महारथाः ॥ उत्सृज्य तुरगान्केचिद्रथान्केचिच्च मारिष । गजानन्ये समुत्सृज्य प्राद्रवन्त दिशो दश ॥ अपरे तु तदादाय वाजिनागरथान्रणे । त्वरया परया युक्ताः प्राद्रवन्त विशाम्पते ॥ पादाताश्चापि शस्त्राणि समुत्सृज्य महारणे । निरपेक्षा व्यधावन्त तेनतेन स्म भारत ॥ वार्यमाणाः सुबहुशस्त्रैगर्तेन सुशर्मणा । तथान्यैः पार्थिवश्रेष्ठैर्न व्यतिष्ठन्त संयुगे ॥ तद्बलं प्रद्रुतं दृष्ट्वा पुत्रो दुर्योधनस्तव । पुरस्कृत्य रणे भीष्मं सर्वसैन्यपुरस्कृतः ॥ सर्वोद्योगेन महता धनञ्जयमुपाद्रवत् । त्रिगर्ताधिपतेरर्थे जीवितस्य विशाम्पते ॥ स एकः समरे तस्थौ किरन्बहुविधाञ्शरान् । भ्रातृभिः सहितः सर्वैः शेषा हि प्रद्रुता नराः ॥ तथैव पाण्डवा राजन्सर्वोद्योगेन दंशिताः । प्रययुः फल्गुनार्थाय यत्र भीष्मो व्यतिष्ठत ॥ ज्ञायमाना रणे वीर्यं घोरं गाण्डीवधन्वनः । हाहाकारकृतोत्साहा भीष्मं जग्मुः समन्ततः ॥ ततस्तालध्वजः शूरः पाण्डवानां वरूथिनीम् । छादयामास समरे शरैः सन्नतपर्वभिः ॥ एकीभूतास्ततः सर्वे कुरवः सह पाण्डवैः । अयुध्यन्त महाराज मध्यं प्राप्ते दिवाकरे ॥ सात्यकिः कृतवर्माणं विद्ध्वा पञ्चभिराशुगैः । अतिष्ठदाहवे शूरः किरन्बाणान्सहस्रशः ॥ तथैव द्रुपदो राजा द्रोणं विद्ध्वा शितैः शरैः । पुनर्विव्याध सप्तत्या सारथिं चास्य पञ्चभिः ॥ भीमसेनस्तु राजानं बाह्लीकं प्रपितामहम् । विद्ध्वा नदन्महानादं शार्दूल इव कानने ॥ आर्जुनिश्चित्रसेनेन विद्धो बहुभिरशुगैः । अतिष्ठदाहवे शूरः किरन्बाणान्सहस्रशः । चित्रसेनं त्रिभिर्बाणैर्विव्याध समरे भृशम् ॥ समागतौ तौ तु रणे महामात्रौ व्यरोचताम् । यथा दिवि महाघोरौ राजन्बुधशनैश्चरौ ॥ तस्याश्वांश्चतुरो हत्वा सूतं च नवभिः शरैः । ननाद बलवान्नादं सौभद्रः परवीरहा ॥ हताश्वात्तु रथात्तूर्णं सोऽवप्लुत्य महारथः । आरुरोह रथं तूर्णं दुर्मुखस्य विशाम्पते ॥ द्रोणश्च द्रुपदं भित्त्वा शरैः सन्नतपर्वभिः । सारथिं चास्य विव्याध त्वरमाणः पराक्रमी ॥ पीड्यमानस्ततो राजा द्रुपदो वाहिनीमुखे । अपायाज्जवनैरश्वैः पूर्ववैरमनुस्मरन् ॥ भीमसेनस्तु राजानं मुहूर्तादिव बाह्लिकम् । व्यश्वसूतरथं चक्रे सर्वसैन्यस्य पश्यतः ॥ ससम्भ्रमो महाराज संशयं परमं गतः ॥ अवप्लुत्य ततो वाहाद्बाह्लीकः पुरुषोत्तमः । आरुरह रथं तूर्णं लक्ष्मणस्य महारणे ॥ सात्यकिः कृतवर्माणं वारयित्वा महारणे । शरैर्बहुविधै राजन्नाससाद पितामहम् ॥ स विद्ध्वा भारतं षष्ट्या निशितै रोमवाहिभिः । नृत्यन्निव रथोपस्थे विधुन्वानो महद्धनुः ॥ तस्यायसीं महाशक्तिं चिक्षेपाथ पितामहः । हेमचित्रां महावेगां नागकन्योपमां शुभाम् ॥ तामापतन्तीं सहसा मृत्युकल्पां सुदुर्जयाम् । व्यंसयामास वार्ष्णेयो लाघवेन महायशाः ॥ अनासाद्य तु वार्ष्णेयं शक्तिः परमदारुणा । न्यपतद्धरणीपृष्ठे महोल्केव महाप्रभा ॥ वार्ष्णेयस्तु ततो राजन्स्वां शक्तिं कनकप्रभाम् । वेगवद्गृह्य चिक्षेप पितामहरथं प्रति ॥ वार्ष्णेयभुजवेगेन प्रणुन्ना सा महाहवे । अभिदुद्राव वेगेन कालरात्रिर्यथा नरम् ॥ तामापतन्तीं सहसा द्विधा चिच्छेद भारतः । क्षुरप्राभ्यां सुतीक्ष्णाभ्यांसा व्यशीर्यत मेदिनीम् ॥ छित्त्वा शक्तिं तु गाङ्गयः सात्यकिं नवभिः शरैः । आजघानोरसि क्रुद्धः प्रहसञ्छत्रुकर्शनः ॥ ततः सरथनागाश्वाः पाण्डवाः पाण्डुपूर्वज । परिवब्रू रणे भीष्मं माधवत्राणकारणात् ॥ ततः प्रववृते युद्धं तुमुलं रोमहर्षणम् । पाण्डवानां कुरूणां च समरे विजयैषिणाम् ॥ ॥

इति श्रीमन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि नवमदिवसयुद्धे चतुरधिकशततमोऽध्यायः ॥

6-104-7 तेनतेन पथा ॥ 6-104-20 महामात्रौ श्रेष्ठौ ॥ 6-104-29 भारत भीष्मम् । रोमवाहिभिः रोमच्छेदकैः ॥ 6-104-35 मेदिनीं प्राप्येति शेषः ॥ 6-104-37 माधवः सात्यकिः ॥