अध्यायः 103
सङ्कुलयुद्धवर्णनम् ॥ 1 ॥ सञ्जय उवाच । मध्यन्दिनो महाराज सङ्ग्रामः समपद्यत । लोकक्षयकरो रौद्रो भीष्मस्य सह सोमकैः ॥ गाङ्गेयो रथिनां श्रेष्ठः पाण्डवानामनीकिनीम् । व्यधमन्निशितैर्बाणैः शतशोऽथ सहस्रशः ॥ सम्ममर्द च तत्सैन्यं पिता देवव्रतस्तव । मर्दयेच्च यथा राजन्सिंहः प्राप्य मृगव्रजम् ॥ धृष्टद्युम्नः शिखण्डी च विराटो द्रुपदस्तथा । भीष्ममासाद्य समरे शरैर्जघ्नुर्महारथम् ॥ धृष्टद्युम्नं ततो विद्ध्वा विराटं च शरैस्त्रिभिः । द्रुपदस्य च नाराचं प्रेषयामास भारत ॥ तेन विद्धा महेष्वासा भीष्मेणामित्रकर्शिना । चुक्रुधुः समरे राजन्पादस्पृष्टा इवोरगाः ॥ शिखण्डी तं च विव्याध भरतानां पितामहम् । स्त्रीमयं मनसा ध्यात्वा नास्मै प्राहरदच्युतः ॥ धृष्टद्युम्नस्तु समरे क्रोधेनाग्निरिव ज्वलन् । पितामहं त्रिभिर्बाणैर्बाह्वोरुरसि चार्पयत् ॥ द्रुपदः पञ्चविंशत्या विराटो दशमिः शरैः । शिखण्डी पञ्चविंशत्या भीष्मं विव्याध सायकैः ॥ सोऽतिविद्धो महाराज शोणितौघपरिप्लुतः । वसन्ते पुष्पशबलो रक्ताशोक इवाबभौ ॥ तान्प्रत्यविध्यद्गाङ्गेयस्त्रिभिस्त्रिभिरजिह्मगैः । द्रुपदस्य च भल्लेन धनुश्चिच्छेद मारिष ॥ सोऽन्यत्कार्मुकमादाय भीष्मं विव्याध पञ्चभिः । सारथिं च त्रिभिर्बाणैः सुशितै रणमूर्धनि ॥ तथा भीमो महाराज द्रौपद्याः पञ्च चात्मजाः । केकया भ्रातरः पञ्च सात्यकिश्चैव सात्वतः ॥ अभ्यद्रवन्त गाङ्गेयं युधिष्ठिरसमाज्ञया । प्रति रक्षणकार्यार्थं धृष्टद्युम्नमुखान्रणे ॥ तथैव तावकाः सर्वे भीष्मरक्षार्थमुद्यताः । प्रत्युद्ययुः पाण्डुसेनां सहसैन्या नराधिप ॥ तत्रासीत्सुमहद्युद्धं तव तेषां च सङ्कुलम् । नराश्वरथनागानां यमराष्ट्रविवर्धनम् ॥ रथी रथिनमासाद्य प्राहिणोद्यमसादनम् । तथेतरान्समासाद्य नरनागाश्वसादिनः ॥ अनयन्परलोकाय शरैः सन्नतपर्वभिः । शरैश्च विविधैर्घोरैस्तत्रतत्र विशाम्पते ॥ रथास्तु रथिभिर्हीना हतसारथयस्तथा । विप्रद्रुताश्वाः समरे दिशो जग्मुः समन्ततः ॥ मृद्गन्तस्ते नरान्राजन्हयांश्च सुबहून्रणे । वातायमाना दृश्यन्ते गन्धर्वनगरोपमाः ॥ रथिनश्च रथैर्हीना वर्मिणस्तेजसा युताः । कुण्डलोष्णीषिणः सर्वे निष्काङ्गदविभूषणाः ॥ देवपुत्रसमाः सर्वे शौर्ये शक्रसमा युधि । ऋद्ध्या वैश्रवणां चाति नयेन च बृहस्पतिम् ॥ सर्वलोकेश्वराः शूरास्तत्रतत्र विशाम्पते । विप्रद्रुता व्यदृश्यन्त प्राकृता इव मानवाः ॥ दन्तिनश्च नरश्रेष्ठ हीनाः परमसादिभिः । मृद्गन्तः स्वान्यनीकानि निपेतुः सर्वशब्दगाः ॥ चर्मभिश्चामरैश्चित्रैः पताकाभिश्च मारिष । छत्रैः सितैर्हेमदण्डैश्चामरैश्च समन्ततः ॥ विशीर्णैर्विप्रधावन्तो दृश्यन्ते स्म दिशो दश । नवमेघप्रतीकाशा जलदोपमनिःस्वनाः ॥ तथैव दन्तिभिर्हीना गजारोहा विशाम्पते । प्रधावन्तोऽन्वदृश्यन्त तव तेषां च सङ्कुले ॥ नानादेशसमुत्थांश्च तुरगान्हेमभीषितान् । वातायमानानद्राक्षं शतशोऽथ सहस्रशः ॥ अश्वारोहान्हतैरश्वैर्गृहीतासन्समन्ततः । द्रवमाणानपश्याम द्राव्यमाणांश्च संयुगे ॥ गजो गजं समासाद्य द्रवमाणं महाहवे । ययौ प्रमृद्य तरसा पादातान्वाजिनस्तथा । तथैव च रथान्राजन्प्रममर्द रणे गजः ॥ रथाश्चैव समासाद्य पतितांस्तुरगान्भुवि । व्यमृद्गन्समरे राजंस्तुरगांश्च नरान्रमे ॥ एवं ते बहुधा राजन्प्रत्यमृद्गन्परस्परम् । 'दृश्यन्तेस्म महाबाहो तत्रतत्र महाबलाः ॥' तस्मिन्रौद्रे तथा युद्धे वर्तमाने महाभये । प्रावर्तत नदी घोरा शोमितान्त्रतरङ्गिणी ॥ अस्थिसङ्घातसम्बाधा केशशैवलाद्वला । रथह्रदा शरावर्ता हयमीना दुरासदा ॥ शीर्षोपलसमाकीर्णा हस्तिग्राहसमाकुला । कवचोष्णीषफेनौघा धनुर्वेगासिकच्छपा ॥ ' शङ्खनक्रौघसङ्कीर्णा छत्रकूर्मरथोडुपा । 'पताकाध्वजवृक्षाढ्या मर्त्यकूलापहारिणी । क्रव्यादहंससङ्कीर्णा यमराष्ट्रविवर्धनी ॥ तां नदीं क्षत्रियाः शूरा रथनागहयप्लवैः । प्रतेरुर्बहवो राजन्भयं त्यक्त्वा महारथाः ॥ अपोवाह रणे भीरून्कश्मलेनाभिसंवृतान् । यथा वैतरणी प्रेतान्प्रेतराजपुरं प्रति ॥ प्राक्रोशन्क्षत्रियास्तत्र दृष्ट्वा तद्वैशसं महत् । दुर्योधनापराधेन गच्छन्ति क्षत्रियाः क्षयम् ॥ गुणवत्सु कथं द्वेषं धृतराष्ट्रो जनेश्वरः । कृतवान्पाण्डुपुत्रेषु पापात्मा लोभमोहितः ॥ एवं बहुविधा वाचः श्रूयन्ते स्म परस्परम् । पाण्डवस्तवसंयुक्ताः पुत्राणां ते सुदारुणाः ॥ ता निशम्य ततो वाचः सर्वयोधैरुदाहृताः । आगस्कृत्सर्वलोकस्य पुत्रो दुर्योधनस्तव ॥ भीष्मं द्रोणं कृपं चैव शल्यं चोवाच भारत । युध्यध्वमनहङ्कराः किं चिरं कुरुथेति च ॥ 'इति दुर्योधनोत्सृष्टाः सर्वे युयुधिरे नृपाः 'ततः प्रववृते युद्धं कुरूणां पाण्डवैः सह । अक्षद्यूतकृतं राजन्सुघोरं वैशसं तदा ॥ यत्पुरा न निगृह्णासि वार्यमाणो महात्मभिः । वैचित्रवीर्य तस्येदं फलं पश्य सुदारुणम् ॥ न हि पाण्डुसुता राजन्ससैन्याः सपदानुगाः । रक्षन्ति समरे प्राणान्कौरवा वापि संयुगे ॥ एतस्मात्कारणाद्धोरो वर्तते स्वजनक्षयः । दैवाद्वा पुरुषव्याघ्र तव चापनयान्नृप ॥ ॥
इति श्रामन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि नवमदिवसयुद्धे त्र्यधिकशततमोऽध्यायः ॥
6-103-7 स्त्रीमयं अयं भीष्मः स्त्रीं ध्यात्वा चिन्तयित्वा । यद्वा स्त्रीमयं स्वार्थे मयट् ॥ 6-103-22 वैश्रवणं कुबेरं चाति अतिक्रान्ता ॥ 6-103-28 अद्राक्षमहं सञ्जयः ॥ 6-103-42 आगस्कृदपराधी ॥