अध्यायः 102
द्रोणार्जुनयुद्धं भीमसेनपराक्रमश्च ॥ 1 ॥ धृतराष्ट्र उवाच । कथं द्रोणो महेष्वासः पाण्डवश्च धनञ्जयः । समीयतू रणे यत्तौ तावुभौ पुरुषर्षभौ ॥ प्रियो हि पाण्डवो नित्यं भारद्वाजस्य धीमतः । आचार्यश्च रणे नित्यं प्रियः पार्थस्य सञ्जय ॥ तावुभौ रथिनो सङ्ख्ये हृष्टौ सिंहाविवोत्कटौ । कथं समीयतुर्यत्तौ भारद्वाजधनञ्जयौ ॥ सञ्जय उवाच । न द्रोणः समरे पार्थं जानीते प्रियमात्मनः । क्षत्रधर्मं पुरस्कृत्य पार्थो वा गुरुमाहवे ॥ न क्षत्रिया रणे राजन्वर्जयन्ति परस्परम् । निर्मर्यादं हि युध्यन्ते पितृभिर्भ्रातृभिः सह ॥ रणे भारत पार्थेन द्रोणो विद्धस्त्रिभिः शरैः । नाचिन्तयच्च तान्बाणान्पार्थचापच्युतान्युधि ॥ शरवृष्ट्या पुनः पार्थश्छादयामास तं रणे । स प्रजज्वाल रोषेण गहनेऽग्निरिवोर्जितः ॥ ततोऽर्जुनं रणे द्रोणः शरैः सन्नतपर्वभिः । छादयामास राजेन्द्र नचिरादेव भारत ॥ ततो दुर्योधनो राजा सुशर्माणमचोदयत् । द्रोणस्य समरे राजन्पार्ष्णिग्रहणकारणात् ॥ त्रिगर्तराडपि क्रुद्धो भृशमायम्य कार्मुकम् । छादयामास समरे पार्थं बाणैरयोमुखैः ॥ ताभ्यां मुक्ताः शरा राजन्नन्तरिक्षे विरेजिरे । हंसा इव महाराज शरत्काले नभस्तले ॥ ते शराः प्राप्य कौन्तेयं समन्ताद्विविशुः प्रभो । फलभारनतं यद्वत्स्वादुवृक्षं विहङ्गमाः ॥ अर्जुनस्तु रणे नादं विनद्य रथिनां वरः । त्रिगर्तराजं समरे सपुत्रं विव्यधे शरैः ॥ ते वध्यमानाः पार्थेन कालेनेव युगक्षये । पार्थमेवाभ्यवर्तन्त मरणे कृतनिश्चयाः । मुमुचुः शरवृष्टिं च पाण्डवस्य रथं प्रति ॥ शरवृष्टिं ततस्तां तु शरवर्षैः समन्ततः । प्रतिजग्राह राजेन्द्र तोयवृष्टिमिवाचलः ॥ तत्राद्भुतमपश्याम बीभत्सोर्हस्तलाघवम् । विमुक्तां बहुभिर्योधैः शस्त्रवृष्टिं दुरासदाम् ॥ यदेको वारयामास मारुतोऽभ्रगणानिव । कर्मणा तेन पार्थस्य तुतुषुर्देवदानवाः ॥ अथ क्रुद्धो रणे पार्थस्त्रिगर्तान्प्रति भारत । मुमोचास्त्रं महाराज वायव्यं पृतनामुखे ॥ प्रादुरासीत्ततो वायुः क्षोभयाणो नभस्तलम् । पातयन्वै तरुगणान्विनिघ्नंश्चैव सैनिकान् ॥ ततो द्रोणोऽभिवीक्ष्यैव वायव्यास्त्रं सुदारुणम् । शैलमन्यन्महाराज घोरमस्त्रं मुमोच ह ॥ द्रोणेन युधि निर्मुक्ते तस्मिन्नस्त्रे नराधिप । प्रशशाम ततो वयुः प्रसन्नाश्च दिशो दश ॥ ततः पाण्डुसुतो वीरस्त्रिगर्तस्य रथव्रजान् । निरुत्साहान्रणे चक्रे विमुखान्विपराक्रमान् ॥ ततो दुर्योधनश्चैव कृपश्च रथिनां वरः । अश्वत्थामा तथा शल्यः काम्भोजश्च सुदक्षिणः ॥ विन्दानुविन्दावावन्त्यौ बाह्लिकः सह बाह्लिकैः । महता रथवंशेन पार्थस्यावारयन्दिशः ॥ तथैव भगदत्तश्च श्रतायुश्च महाबलः । गजानीकेन भीमस्य ताववारयतां दिशः ॥ भूरिश्रवाः शलश्चैव सौबलश्च विशाम्पते । शरौघैर्विमलैस्तीक्ष्णैर्माद्रीपुत्राववारयन् ॥ भीष्मस्तु संहतः सङ्ख्ये धार्तराष्ट्रैः ससैनिकैः । युधिष्ठिरं समासाद्य सर्वतः पर्यवारयत् ॥ आपतन्तं गजानीकं दृष्ट्वा पार्थो वृकोदरः । लोलिहन्सृक्किणी वीरो मृगराडिव कानने ॥ भीमस्तु रथिनां श्रेष्ठो गदां गृह्य महाहवे । अवप्लुत्य रथात्तूर्णं तव सैन्यान्यभीषयत् ॥ तमुद्वीक्ष्य गदाहस्तं ततस्ते गजसादिनः । परिवव्रू रणे यत्ता भीमसेनं समन्ततः ॥ गजमध्यमनुप्राप्तः पाण्डवः स व्यराजत । मेघजालस्य महतो यथा मध्यगतो रविः ॥ व्यधमत्स गजानीकं गदया पाण्डवर्षभः । महाभ्रजालमतुलं मातरिश्वेव सन्ततम् ॥ ते वध्यमाना बलिना भीमसेनेन दन्तिनः । आर्तनादं रणे चक्रुर्गर्जन्तो जलदा इव ॥ बहुधा दारितश्चैव विषाणैस्तत्र दन्तिभिः । फुल्लाशोकनिभः पार्थः शुशुभे रणमूर्धनि ॥ 'सादिनां शस्त्रवृष्टिं च व्यधमद्गदया ततः । 'वायुवेगसमायुक्तो व्यचरत्पाण्डवो युधि ॥ विषाणोल्लिखितैर्गात्रौर्विषाणाभिहतो भृशम् । विषाणे दन्तिनं गृह्य निर्विषाणमथाकरोत् ॥ विषाणेन च तेनैव कुम्भोऽभ्याहत्य दन्तिनम् । पातयामास समरे दण्डहस्त इवान्तकः ॥ शोणिताक्तां गदां बिभ्रन्मेदोभञ्जाकृतच्छविः । कृताभ्यङ्गः शोणितेन रुद्रवत्प्रत्यदृश्यत ॥ एवं के वध्यमानाश्च हतशेषा महागजाः । प्राद्रवन्त दिशो राजन्विमृद्गन्तः स्वकं बलम् ॥ द्रवद्भिस्तैर्महानागैः समन्ताद्भरतर्षभ । दुर्योधनबलं सर्वं पुनरासीत्पराङ्भुखम् ॥
इति श्रीमन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि नवमदिवसयुद्धे द्व्यधिकशततमोऽध्यायः ॥