अध्यायः 101

अभिमन्युनाऽलम्बुसस्य पराजयः ॥ 1 ॥ धृतराष्ट्र उवाच । आर्जुनं समरे शूरं विनिघ्नन्तं महारथान् । अलम्बुसः कथं युद्धे प्रत्ययुध्यत सञ्जय ॥ आर्श्यशृङ्गिं कथं चैव सौभद्रः परवीरहा । तन्ममाचक्ष्व तत्त्वेन यथावृत्तं स्म संयुगे ॥ धनञ्जयश्च किं चक्रे मम सैन्येषु संयुगे । भीमो वा रथिनां श्रेष्ठो राक्षसो वा घटोत्कचः ॥ नकुलः सहदेवो वा सात्यकिर्वा महारथः । एतदाचक्ष्व मे सत्यं कुशलो ह्यसि सञ्जय ॥ सञ्जय उवाच । हन्ते तेऽहं प्रवक्ष्यामि सङ्ग्रामं रोमहर्षणम् । यथाऽभूद्राक्षसेन्द्रस्य सौभद्रस्य च मारिष ॥ अर्जुनश्च यथा सङ्ख्ये भीमसेनश्च पाण्डवः । नकुलः सहदेवश्च रणे चक्रुः पराक्रमम् ॥ तथैव तावकाः सर्वे भीष्मद्रोणपुरःसराः । अद्भुतानि विचिन्राणि चक्रुः कर्माण्यभीतवत् ॥ अलम्बुसस्तु समरे अभिमन्युं महारथम् । विनद्य सुमहानादं तर्जयित्वा मुहुर्मुहुः ॥ अभिदुद्राव वेगेन तिष्ठतिष्ठेति चाब्रवीत् । अभिमन्युश्च वेगेन सिंहवद्विनदन्मुहुः ॥ आर्श्यशृङ्गिं महेष्वासि पितुरत्यन्तवैरिणम् । ततः समीपतुः सङ्ख्ये त्वरितौ नरराक्षसौ ॥ रथाभ्यां रथिनौ श्रेष्ठौ यथा वै देवदानवौ । मायावा राक्षसश्रेष्ठो दिव्यास्त्रश्चैव फाल्गुनिः ॥ ततः कर्ष्णिर्महाराज निशितैः सायकैस्त्रिभिः । आर्श्यशृङ्गिं रणे विद्ध्वा पुनर्विव्याव पञ्चभिः ॥ अलम्बुरोऽपि सङ्क्रुद्धः कार्ष्णि नवभिराशुगैः । हृदि विव्याध वेगेन तोत्रैरिव महाद्विपम् ॥ ततः शरसहस्रेण क्षिप्रकारी निशाचरः । अर्जुनास सुतं सङ्ख्ये पीडयामास भारत ॥ अभिमन्युस्ततः क्रुद्धो नवभिर्नतपर्वभिः । बिभेद निशिसैर्बाणै राक्षसेन्द्रं महोरसि ॥ ते तस्य विविशुस्तूर्णं कायं निर्भिद्य मर्मसु । स तैर्विभिन्नसर्वाङ्गः शुशुभे राक्षसोत्तमः ॥ पुष्पितैः किंशुकै राजन्संस्तीर्ण इव पर्वतः । स सन्दधानश्च शरान्हेमपुङ्खान्महाबलः ॥ विबभौ राक्षसश्रेष्ठः सज्वाल इव पर्वतः । ततः क्रुद्धो महाराज आर्श्यशृङ्गिरमर्षणः ॥ महेन्द्रप्रतिमं कार्ष्णि छादयामास पत्रिभिः । तेन ते विशिखा मुक्ता यमदण्डोपमाः शिताः ॥ अभिमन्युं विनिर्भिद्य प्राविशन्त धरातलम् । तथैवार्जुनिना मुक्ताः शराः कनकभूषणाः ॥ अलम्बुसं विनिर्भिद्य प्राविशन्त धरातलम् । सौभद्रस्तु रणे रक्षः शरैः सन्नतपर्वभिः ॥ चक्रे विमुखमासाद्य बलं शक्र इवाहवे । विमुखं च रणे रक्षो वध्यमानं रणेऽरिणा ॥ प्रादुश्चक्रे महामायां तामसीमरिघातिनीम् । ततस्ते तमसा सर्वे वृताश्चासन्महीपते ॥ नाभिमन्युमपश्यन्त नैव स्वान्न परान्रणे । अभिमन्युश्च तदृष्ट्वा घोररूपं महत्तमः ॥ प्रादुश्चक्रेऽस्त्रमत्सुग्रं भास्करं कुरुनन्दनः । ततः प्रकाशमभवज्जगत्सर्वं महीपते ॥ तां चाभिजघ्निवान्मायां राक्षसस्य दुरात्मनः । सङ्क्रुद्धश्च महावीर्यो राक्षसेन्द्रं नरोत्तमः ॥ छादयामास समरे शरैः सन्नतपर्वभिः । बह्वीस्तथाऽन्या मायाश्च प्रयुक्तास्तेन रक्षसा ॥ सर्वास्त्रविदमेयात्मा वारयामास फाल्गुनिः । हतमायं ततो रक्षो वध्यमानं च सायकैः ॥ रथं तत्रैव सन्त्यज्य प्राद्रवन्महतो भयात् । तस्मिन्विनिर्जिते तूर्णं कूटयोधिनि राक्षसे ॥ आर्जुनिः समरे सैन्यं तावकं सम्ममर्द ह । मदान्धो वन्यनागेन्द्रः सपद्मां पद्मिनीमिव ॥ ततः शान्तनवो भीष्मः सैन्यं दृष्ट्वाऽभिविद्रुतम् । महता शरवर्षेण सौभद्रं पर्यवारयत् ॥ कोष्ठीकृत्य च तं वीरं धार्तराष्ट्रा महारथः । एवं सुबहवो युद्धे ततक्षुः सायकैर्दृढम् ॥ स तेषां रथिनां वीरः पितुस्तुल्यपराक्रमः । सदृशो वासुदेवस्य विक्रमेण बलेन च ॥ उभयोः सदृशं कर्म स पितुर्मातुलस्य च । रणे बहुविधं चक्रे सर्वशस्त्रभृतां वरः ॥ ततो धनञ्जयो वीरो विनिघ्नंस्तव सैनिकान् । आससाद रणे भीष्मं पुत्रप्रेप्सुरमर्षणः ॥ तथैव समरे राजन्पिता देवव्रतस्तव । आससाद रणे पार्थं स्वर्भानुरिव भास्करम् ॥ ततः सरथनागाश्वाः पुत्रास्तव जनेश्वर । परिवव्रू रणे भीष्मं जुगुपुश्च समन्ततः ॥ तथैव पाण्डवा राजन्परिवार्य धनञ्जयम् । रणाय महते युक्ता दंशिता भरतर्षभ ॥ शारद्वतस्ततो राजन्भीष्मस्य प्रमुखे स्थितम् । अर्जुनं पञ्चविंशत्या सायकानां समाचिनोत् ॥ प्रत्युद्गम्याथ विव्याध सात्यकिस्तं शितैः शरैः । पाण्डवप्रियकामार्थं शार्दूल इव कुञ्जरम् ॥ गौतमोऽपि त्वरायुक्तो माधवं नवभिः शरैः । हृदि विव्याध सङ्क्रुद्धः कङ्कपत्रपरिच्छदैः ॥ शैनेयोऽपि ततः क्रुद्धश्चापमानम्य वेगवान् । गौतमान्तकरं तूर्णं समाधत्त शिलीमुखम् ॥ तमापतन्तं वेगेन शक्राशनिसमद्युतिम् । द्विधा चिच्छेद सङ्क्रुद्धो द्रौणिः परमकोपनः ॥ समुत्सृज्याथ शैनेयो गौतमं रथिनां वरः । अभ्यद्रवद्रणे द्रौणिं राहुः खे शशिनं यथा ॥ तस्य द्रोणसुतश्चापं द्विधा चिच्छेद भारत । अथैनं छिन्नधन्वानं ताडयामास सायकैः ॥ सोऽन्यत्कार्मुकमादाय शत्रुघ्नं भारसाधनम् । द्रौणिं षष्ट्या महाराज बाह्वोरुरसि चार्पयत् ॥ स विद्धो व्यथितश्चैव मुहूर्तं कश्मलायुतः । निषसाद रथोपस्थे ध्वजयष्टिं समाश्रितः ॥ प्रतिलभ्य ततः सञ्ज्ञां द्रोणपुत्रः प्रतापवान् । वार्ष्णेयं समरे क्रुद्धो नाराचेन समार्पयत् ॥ शैनेयं स तु निर्भिद्य प्राविशद्धरणीतलम् । वसन्तकाले बलवान्बिलं सर्पशिशुर्यथा ॥ अथापरेण भल्लेन माधवस्य ध्वजोत्तमम् । चिच्छेद समरे द्रौणिः सिंहनादं मुमोच ह ॥ पुनश्चैनं शरैर्घोरैश्छादयामास भारत । निदाघान्ते महाराज यथा मेघो दिवाकरम् ॥ सात्यकोऽपि महाराज शरजालं निहत्य तत् । द्रौणिमभ्याकिरत्तूर्णं शरजालैरनेकधा ॥ तापयामास च द्रौणिं शैनेयः परवारहा । विमुक्तो मेघजालेन यथैव तपनस्तथा ॥ शराणां च सहस्रेण पुनरेव समुद्यतः । सात्यकिश्छादयामास ननाद च महाबलः ॥ दृष्ट्वा पुत्रं च तं ग्रस्तं राहुणेव निशाकरम् । अभ्यद्रवत शैनेयं भारद्वाजः प्रतापवान् ॥ विव्याध च सुतीक्ष्णेन पृषत्केन महामृधे । परीप्सन्खसुतं राजन्वार्ष्णेयेनाभिपीडितम् ॥ सात्यकिस्तु रणे हित्वा गुरुपुत्रं महारथम् । द्रोणं विव्याध विंशत्या सर्वपारशवैः शरैः ॥ तदन्तरममेयात्मा कौन्तेयः शत्रुतापनः । अभ्यद्रवद्रणे क्रुद्धो द्रोणं प्रति महारथः ॥ ततो द्रोणश्च पार्थश्च समेयातां महामृधे । यथा बुधश्च शुक्रश्च महाराज नभस्तले ॥ ॥

इति श्रीमन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि नवमदिवसयुद्धे एकाधिकशततमोऽध्यायः ॥