अध्यायः 100
अलम्बुसस्य द्रौपदेयैः सह युद्धमभिमन्युना समागमश्च ॥ 1 ॥ सञ्जय उवाच । अभिमन्यू रथोदारः पिशङ्गैस्तुरगोत्तमैः । अभिदुद्राव तेजस्वी दुर्योधनबलं महत् ॥ विकिरञ्शरवर्षाणि वारिधारा इवाम्बुदः । न शेकुः समरे क्रुद्धं सौभद्रमरिसूदनम् ॥ शस्त्रौघिणं गाहमानं सेनासागरमक्षयम् । निवारयितुमप्याजौ त्वदीयाः कुरुनन्दन ॥ तेन मुक्ता रणे राजञ्शराः शत्रुनिबर्हणाः । क्षत्रियाननयञ्शूरान्प्रेतराजनिवेशनम् ॥ यमदण्डोपमान्घोराञ्ज्वलिताशीविषोपमान् । सौभद्रः समरे क्रुद्धः प्रेषयामास सायकान् ॥ सरथान्रथिनस्तूर्णं हयांश्चैव ससादिनः । गजारोहांश्च सगजान्दारयामास फाल्गुनिः ॥ तस्य तत्कुर्वतः कर्म महत्सङ्ख्ये महीभृतः । पूजयाञ्चक्रिरे हृष्टाः प्रशशंसुश्च फाल्गुनिम् ॥ तान्यनीकानि सौभद्रो द्रावयामास भारत । तूलराशीनिवाकाशे मारुतः सर्वतो दिशम् ॥ तेन विद्राव्यमाणानि तव सैन्यानि भारत । त्रतारं नाध्यगच्छन्त पङ्क्ते मग्ना इव द्वीपाः ॥ विद्राव्य सर्वसैन्यानि तावकानि नरोत्तम । अभिमन्युः स्थितो राजन्विधूमोऽग्निरिव ज्वलन् ॥ न चैनं तावका राजन्विषेहुररिघातिनम् । प्रदीप्तं पावकं यद्वत्पतङ्गाः कालचोदिताः ॥ प्रहरन्सर्वशत्रुभ्यः पाण्डवानां महारथः । अदृश्यत महेष्वासः सवज्र इव वासवः ॥ हेमपृष्ठं धनुश्चास्य ददृशे विचरद्दिशः । तोयदेषु यथा राजन्राजमाना शतह्रदा ॥ शराश्च निशिताः पीता निश्चरन्ति स्म संयुगे । वनात्फुल्लद्रुमाद्राजन्भ्रमराणामिव व्रजाः ॥ तथैव चरतस्तस्य सौभद्रस्य महात्मनः । रथेन काञ्चनाङ्गेन ददृशुर्नान्तरं जनाः ॥ मोहयित्वा कृपं द्रोणं द्रौणिं च सबृहद्बलम् । सैन्धवं च महेष्वासो व्यचरल्लघु सुष्ठु च ॥ मण्डलीकृतमेवास्य धनुः पश्याम भारत । सूर्यमण्डलसङ्काशं दहतस्तव वाहिनीम् ॥ तं दृष्ट्वा क्षत्रियाः शुराः प्रतपन्तं तरस्विनम् । द्विफल्गुनमिमं लोकं मेनिरे तस्य कर्मभिः ॥ तेनार्दिता महाराज भारती सा महाचमूः । व्यभ्रमत्तत्रतत्रैव योषिन्मदवशादिव ॥ द्रावयित्वा महासैन्यं कम्पयित्वा महारथान् । नन्दयामास सुहृदो मयं जित्वेव वासवः ॥ तेन निद्राव्यमाणानि तव सैन्यानि संयुगे । चक्रुरार्तस्वनं घोरं पर्जन्यनिनदोपमम् ॥ तं श्रुत्वा निनदं घोरं तव सैन्यस्य भारत । मारुतोद्धूतवेगस्य सागरस्येव पर्वणि ॥ दुर्योधनस्तदा राजन्नार्श्यशृङ्गिमभाषत । एष कार्ष्णिर्महाबाहो द्वितीय इव फल्गुनः ॥ चमूं द्रावयते क्रोधाद्वृत्रो देवचमूमिव । तस्य चान्यत्र पश्यामि संयुगे भेषजं महत् ॥ ऋते त्वां राक्षसश्रेष्ठं सर्वविद्यासु पारगम् । स गत्वा त्वरितं वीरं जहि सौभद्रमाहवे ॥ वयं पार्थं हनिष्यामो भीष्मद्रोणपुरोगमाः । स एवमुक्तो बलवान्राक्षसेन्द्रः प्रतापवान् ॥ प्रययौ समरे तूर्णं तव पुत्रस्य शासनात् । नर्दमानो महानादं प्रावृषीव बलाहकः ॥ तस्य शब्देन महता पाण्डवानां बलं महत् । प्राचलत्सर्वतो राजन्वातोद्धूत इवार्णवः ॥ बहवश्च महाराज तस्य नादेन भीषिताः । प्रियान्प्राणान्परित्यज्य निपेतुर्धरणीतले ॥ कार्ष्णिश्चापि मुदा युक्तः प्रगृह्य सशरं धनुः । नृत्यन्निव रथोपस्थे तद्रक्षः समुपाद्रवत् ॥ ततः स राक्षसः क्रुद्धः सम्प्राप्यैवार्जुनं रणे । नातिदूरे स्थितां तस्य द्रावयामास वै चमूम् ॥ तां वध्यमानां च तथा पाण्डवानां महाचमूम् । प्रत्यद्ययौ रणे रक्षो देवसेनां यथा बलः ॥ विमर्दः सुमहानासीत्तस्य सैन्यस्य मारिष । रक्षसा घोररूपेण वध्यमानस्य संयुगे ॥ ततः शरसहस्त्रैस्तां पाण्डवानां महाचमूम् । व्यद्रावयद्रणे रक्षो दर्शयतत्स्वपराक्रमम् ॥ सा वध्यमाना च तथा पाण्डवानामनीकिनी । रक्षसा घोररूपेण प्रदुद्राव रणे भयात् ॥ प्रमृद्य च रणे सेनां पद्मिनीं वारणो यथा । ततोऽभिद्रद्राव रणे द्रौपदेयान्महाबलान् ॥ ते तु क्रुद्धा महेष्वासा द्रौपदेयाः प्रहारिणः । राक्षसं दुद्रुवुः सङ्ख्ये ग्रहाः पञ्च रविं यथा ॥ वीर्यवद्भिस्ततस्तैस्तु पीडितो राक्षसोत्तमः । यथा युगक्षये घोरे चन्द्रमाः पञ्चभिर्ग्रहैः ॥ प्रतिविन्ध्यस्ततो रक्षो बिभेद निशितैः शरैः । सर्वपारशवैस्तूर्णमकुण्ठाग्रैर्महाबलः ॥ स तैर्भिन्नतनुत्राणः शुशुभे राक्षसोत्तमः । मरीचिभिरिवार्कस्य संस्यूतो जलदो महान् ॥ विषक्तैः सशरैश्चापि तपनीयपरिच्छदैः । आर्श्यशृङ्गिर्बभौ राजन्दीप्तशृङ्ग इवाचलः ॥ ततस्ते भ्रातरः पञ्च राक्षसेन्द्रं महाहवे । विव्यधुर्निशितैर्बाणैस्तपनीयविभूषितैः । स निर्भिन्नः शरैर्घोरैर्भुजगैः कोपितैरिव । अलम्बुसो भृशं राजन्नागेन्द्र इव चुक्रुधे ॥ सोऽतिविद्धो महाराज मुहूर्तमथ मारिष । प्रविवेश तमो दीर्घं पीडितस्तैर्महारथैः ॥ प्रतिलभ्य ततः सञ्ज्ञां क्रोधेन द्विगुणीकृतः । चिच्छेद सायकैस्तेषां ध्वजांश्चैव धनूंषि च ॥ एकैकं पञ्चभिर्बाणैराजघान स्मयन्निव । अलम्बुसो रथोपस्थे नृत्यन्निव महारथः ॥ त्वरमाणः सुसम्बद्धो हयांस्तेषां महात्मनाम् । जघान राक्षसः क्रुद्धः सारथींश्च सहस्रशः ॥ बिभेद च सुसंरब्धः पुनश्चैनान्सुतांशितैः । शरैर्बहुविधाकारैः शतशोऽथ सहस्रशः ॥ विरथांश्च महेष्वासान्कृत्वा तत्र स राक्षसः । अभिदुद्राव वेगेन हन्तुकामो निशाचरः ॥ तानर्दितान्रणे तेन राक्षसेन दुरात्मना । दृष्ट्वाऽर्जुनसुतः सङ्ख्ये राक्षसं समुपाद्रवत् ॥ तयोः समभवद्युद्धं वृत्रवासवयोरिव । ददृशुस्तावकाः सर्वे पाण्डवाश्च परस्परम् ॥ तौ समेतौ महायुद्धे क्रोधदीप्तौ परस्परम् । महाबलौ महाराज क्रोधसंरक्तलोचनौ ॥ परस्परमवेक्षेतां कालानलसमौ युधि । 'आशीविषाविव क्रुद्धौ नेत्राभ्यामितरेतरम् ।' तयोः समागमो घोरो बभूव कटुकोदयः ॥ यथा देवासुरे युद्धे शक्रशम्बरयोः पुरा ॥ ॥
इति श्रीमन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि नवमदिवसयुद्धे शततमोऽध्यायः ॥
6-100-16 लघु सुष्ठु च शीघ्रं शोभनं च यथा स्तात्तथा ॥ 6-100-23 आर्ष्यशृङ्गिमलम्बुसम् ॥ 6-100-39 सर्वपारशवैः सर्वलोहमयैः ॥ 6-100-40 संस्यूतो ग्रथितः ॥