अध्यायः 099

कुरुपाण्डवसेनयोर्व्यूहरचनापूर्वकं परस्पराभिगमनम् ॥ 1 ॥ सञ्जय उवाच । ततः शान्तनवो भीष्मो निर्ययौ सह सेनया । व्यूहं चाव्यूहत महत्सर्वतोभद्रमात्मनः ॥ कृपश्च कृतवर्मा च शैब्यश्चैव महारथः । शकुनिः सैन्धवश्चैव काम्भोजश्च सुदक्षिणः ॥ भीष्मेण सहिताः सर्वे पुत्रैश्च तव भारत । अग्रतः सर्वसैन्यानां व्यूहस्य प्रमुखे स्थिताः ॥ द्रोणो भूरिश्रवाः शल्यो भगदत्तश्च मारिष । दक्षिणं पक्षमाश्रित्य स्थिता व्यूहस्य दंशिताः ॥ अश्वत्थामा सोमदत्तश्चावन्त्यौ च महारथौ । महत्या सेनया युक्ता वामं पक्षमपालयन् ॥ दुर्योधनो महाराज त्रिगर्तैः सर्वतो वृतः । व्यूहमध्ये स्थितो राजन्पाण्डवान्प्रति भारत ॥ अलम्बुसो रथश्रेष्ठः श्रुतायुश्च महारथः । पृष्ठतः सर्वसैन्यानां स्थितौ व्यूहस्य दंशितौ ॥ एवं च तं तदा व्यूहं कृत्वा भारत तावकाः । सन्नद्धाः समदृश्यन्त प्रतपन्त इवाग्नयः ॥ ततो युधिष्ठिरो राजा भीमसेनश्च पाण्डवः । नकुलः सहदेवश्च माद्रीपुत्रावुभावपि ॥ अग्रतः सर्वसैन्यानां स्थिता व्यूहस्य दंशिताः । धृष्टद्युम्नो विराटश्च सात्यकिश्च महारथः ॥ स्थिताः सैन्येन महता परानीकविनाशनाः । शिखण्डी विजयश्चैव राक्षसश्च घटोत्कचः ॥ चेकितानो महाबाहुः कुन्तिभोजश्च वीर्यवान् । स्थिता रणे महाराज महत्या सेनया वृताः ॥ अभिमन्युर्महेष्वासो द्रुपदश्च महाबलः । युयुधानो महेष्वासो युधामन्युश्च वीर्यवान् ॥ केकया भ्रातरश्चैव स्थिता युद्धाय दंशिताः । एवं तेऽपि महाव्यूहं प्रतिव्यूह्य सुदुर्जयम् ॥ पाण्डवाः समरे शूराः स्थिता युद्धाय दंशिताः । तावकास्तु रणे यत्ताः सहसेना नराधिपाः ॥ अभ्युद्ययू रणे पार्थान्भीष्मं कृत्वाऽग्रतो नृप । तथैव पाण्डवा राजन्भीमसेनपरोगमाः ॥ भीष्मं योद्धुमभीप्सन्तः सङ्ग्रामे विजयैषिणः । क्ष्वेलाः किलकिलाः शङ्खान्क्रकचान्गोविषाणिकाः ॥ भेरीमृदङ्गपणवान्नादयन्तश्च पुष्करान् । पाण्डवा अभ्यवर्तन्त नदन्तो भैरवान्रवान् ॥ भेरीमृद्गशङ्खानां दुन्दुभीनां च निःस्वनैः । उत्कृष्टसिंहनादैश्च वल्गितैश्च पृथग्विधैः ॥ वयं प्रतिनदन्तस्तानगच्छाम त्वरान्विताः । सहसैवाभिसङ्क्रद्धास्तदासीत्तुमुलं महत् ॥ ततोऽन्योन्यं प्रधावन्तः सम्प्रहारं प्रचक्रिरे । ततः शब्देन महता प्रचकम्पे वसुन्धरा ॥ पक्षिणश्च महाघोरं व्याहरन्तो विबभ्रमुः । सप्रभश्चोदितः सूर्यो निष्प्रभः समपद्यत ॥ ववुश्च वातास्तुमुलाः शंसन्तः सुमहद्भयम् । घोराश्च घोरनिर्ह्रादाः शिवास्तत्र ववाशिरे ॥ वेदयन्त्यो महाराज महद्वैशसमागतम् । दिशः प्रज्वलिता राजन्पांसुवर्षं पपात च ॥ रुधिरेण समुन्मिश्रमस्थिवर्षं पपात च । रुदतां वाहनानां च नेत्रेभ्यः प्रापतञ्जलम् ॥ सुस्रुवुश्च शकृन्मूत्रं प्रध्यायन्तो विशाम्पते । अन्तर्हिता महानादाः श्रूयन्ते भरतर्षभ ॥ रक्षसां पुरुषादानां नदतां भैरवान्रवान् । सम्पतन्तश्च दृश्यन्ते गोमायबलवायसाः ॥ श्वानश्च विविधैर्नादैर्भषन्तस्तत्र मारिष । ज्वलिताश्च महोल्का वै समाहत्य दिवाकरम् । निपेतुः सहसा भूमौ वेदयन्त्यो महद्भयम् ॥ महान्त्यनीकानि महासमुच्छ्रयेततस्तयोः पाण्डवधार्तराष्ट्रयोः । चकम्पिरे शङ्खमृदङ्गनिःस्वनैःप्रकम्पितानीव वनानि वायुना ॥ नरेन्द्रनागाश्वसमाकुलाना-मभ्यायतीनामशिवे मुहूर्ते । बभूव घोषस्तुमुलश्चमूनांवातोद्धुतानामिव सागराणाम् ॥ ॥

इति श्रीमन्महाभरते भीष्मपर्वणि भीष्मवधपर्वणि नवमदिवसयुद्धे एकोनशततमोऽध्यायः ॥

6-99-27 बलवायसाः बलोदग्राः काकाः ॥ 6-99-29 महासमुच्छ्रये महति युद्धे ॥ 6-99-30 अभ्यायतीनामभिमुखमागच्छन्तीनाम् ॥