अध्यायः 098
भीष्मेण दुर्योधनम्प्रति अर्जुनपराक्रमप्रशंसनपूर्वकं पाण्डवानामजय्यत्वमभिधाय शिखण्डिवर्जं पाञ्चालादिवधप्रतिज्ञा ॥ 1 ॥ सञ्जय उवाच । वाक्शल्यैस्तव पुत्रेण सोऽतिविद्धो महामनाः । नोवाच दुःखोपहतो ह्यप्रियं प्रियमण्वपि ॥ स ध्यात्वा सुचिरं कालं दुःखरोषसमन्वितः । श्वसन्निव महानागः प्रणुन्नो वाक्शलाकया ॥ उद्वृत्य चक्षुषी लोपान्निर्दहन्निव भारत । सदेवासुरगन्धर्वं लोकं काल इवापरः ॥ अब्रवीत्तव पुत्रं च सामपूर्वमिदं वचः । किं त्वं दुर्योधनैवं मां वाक्शल्यैरपकृन्तसि ॥ घटमानं यथाशक्तिं कुर्वाणं च तव प्रियम् । जुह्वानं समरे प्राणांस्तव वै प्रियकाम्यया ॥ यदा तु पाण्डवः शूरः खाण्डवेऽग्निमतर्पयत् । पराजित्य रणे शक्रं पर्याप्तं तन्निदर्शनम् ॥ यदा च त्वां महाबाहो गन्धर्वैर्हृतमोजसा । अमोचयत्पाण्डुसुतः पर्याप्तं तन्निदर्शनम् ॥ द्रवमाणेषु शूरेषु सोदरेषु तव प्रभो । सूतपुत्रे च राधेये पर्याप्तं तन्निदर्शनम् ॥ यच्च नः सहितान्सर्वान्विराटनगरे तदा । एक एवाजयत्पार्थः पर्याप्तं तन्निदर्शनम् ॥ द्रोणं च युधि संरब्धं मां च निर्जित्य संयुगे । वासांसि स समादत्त पर्याप्तं तन्निदर्शनम् ॥ तथा द्रौणिं महेष्वासं शारद्वतमथापि च । गोग्रहे जितवान्पूर्वं पर्याप्तं तन्निदर्शनम् ॥ विजित्य च यदा कर्णं सदा पुरुषमानिनम् । उत्तरायै ददौ वस्त्रं पर्याप्तं तन्निदर्शनम् ॥ निवातकवचान्युद्धे वासवेनापि दुर्जयान् । जितवान्समरे पार्थः पर्याप्तं तन्निदर्शनम् ॥ को हि शक्तो रणे जेतुं पाण्डवं रभसं तदा । यस्य गोप्ता जगद्गोप्ता शङ्खचक्रगदाधरः ॥ वासुदेवोऽनन्तशक्तिः सृष्टिसंहारकारकः । सर्वेश्वरो देवदेवः परमात्मा सनातनः ॥ उक्तोऽस्ति बहुशो राजन्नारदाद्यैर्महर्षिभिः । त्वं तु मोहान्न जानीषे वाच्यावाच्यं सुयोधन ॥ मुमूर्षुर्हि नरः सर्वान्वृक्षान्पश्यति काञ्चनान् । तथा त्वमपि गान्धारे विपरीतानि पश्यसि ॥ स्वयं वैरं महत्कृत्वा पाण्डवैः सह सृञ्जयैः । युद्ध्यस्व तानद्य रणे पश्यामः पुरुषो भव । 'अशक्याः पाण्डवा जेतुं देवैरपि सवासवैः ॥' अहं तु सोमकान्सर्वान्पाञ्चालांश्च समागतान् । निहनिष्ये नरव्याघ्र वर्जयित्वा शिखण्डिनम् ॥ तैर्वाऽहं निहतः सङ्ख्ये गमिष्ये यमसादनम् । तान्वा निहत्य समरे प्रीतिं दास्याम्यहं तव ॥ पूर्व हि स्त्री समुत्पन्ना शिखण्डी राजवेश्मनि । वरदानात्पुमाञ्जातः सैषा वे स्त्री शिखण्डिनी ॥ तमहं न हनिष्यामि प्राणत्यागेऽपि भारत । याऽसौ प्राङ्वर्मिता धात्रा सैषा वै स्त्री शिखण्डिनी ॥ सुखं स्वपिहि गान्धारे श्वोऽस्मि कर्ता महारणम् । यं जनाः कथयिष्यन्ति यावत्स्थास्यति मेदिनी ॥ सञ्जय उवाच । एवमुक्तस्तव सुतो निर्जगाम जनेश्वर । अभिवाद्य गुरुं मूर्ध्ना प्रययौ स्वं निवेशनम् ॥ आगम्य तु ततो राजा विसृज्य च महाजनम् । प्रविवेश ततस्तूर्णं क्षयं शत्रुक्षयङ्करः ॥ प्रहृष्टः स निशां तां च गमयामास पार्थिवः । प्रभातायां च शर्वर्यां प्रातरुत्थाय तान्नृपः ॥ राज्ञः समाज्ञापयत सेनां योजयतेति ह । अद्य भीष्मो रणे क्रद्धो निहनिष्यति सोमकान् ॥ दुर्योधनस्य तच्छ्रुत्वा रात्रौ विलपितं बहु । मन्यमानः स तं राजन्प्रत्यादेशमिवात्मनः ॥ निर्वेदं परमं गत्वा विनिन्द्य परवश्यताम् । दीर्घं दध्यौ शान्तनवो योद्धुकामोऽर्जुनं रणे ॥ इङ्गितेन तु तज्ज्ञात्वा गाङ्गेयेन विचिन्तितम् । दुर्योधनो महाराज दुःशासनमचोदयत् ॥ दुःशासन रथास्तूर्णं युज्यन्तां भीष्मरक्षिणः । द्वाविंशतिमनीकानि सर्वाण्येवाभिचोदय ॥ अयं हि समनुप्राप्तो वर्षपूगाभिचिन्तितः । पाण्डवानां ससैन्यानां वधो राज्यस्य चागमः ॥ तत्र कार्यमहं मन्ये भीष्मस्यैवाभिरक्षणम् । स नो गुप्तः सहायः स्याद्धन्यात्पार्थांश्च संयुगे ॥ अब्रवीद्धि विशुद्धात्मा नाहं हन्यां शिखण्डिनम् । स्त्रीपूर्वको ह्यसौ राजंस्तस्माद्वर्ज्यो मया रणे ॥ लोकस्तद्वेद यदहं पितुः प्रियचिकीर्षया । राज्यं स्फीतं महाबाहो स्त्रियश्च त्यक्तवान्पुरा ॥ नैव चाहं स्त्रियं जातु न स्त्रीपूर्वं कथञ्चन । हन्यां युधि नरश्रेष्ठ सत्यमेतद्ब्रवीमि ते ॥ अयं स्त्रीपूर्वको राजञ्छिखण्डी यदि ते श्रुतः । उद्योगे कथितं सर्वं यथा जाता शिखण्डिनी ॥ कन्या भूत्वा पुमाञ्जातः स च योत्स्यति भारत । तस्याहं प्रमुखे बाणान्न मुञ्चेयं कथञ्चन ॥ युद्धे हि क्षत्रियांस्तात पाण्डवानां जयैषिणः । सर्वानन्यान्हनिष्यामि सम्प्राप्तान्रणमूर्धनि ॥ एवं मां भरतश्रेष्ठ गाङ्गेयः प्राह शास्त्रवित् । तत्र सर्वात्मना मन्ये गाङ्गेयस्यैव पालनम् ॥ अरक्ष्यमाणं हि वृको हन्यात्सिंहं महाहवे । मा वृकेणेव गाङ्गेयं घातयेम शिखण्डिना ॥ मातुलः शकुनिः शल्यः कृपो द्रोणो विविंशतिः । यत्ता रक्षन्तु गाङ्गेयं तस्मिन्गुप्ते ध्रुवो जयः ॥ एतच्छ्रुत्वा तु ते सर्वे दुर्योधनवचस्तदा । सर्वतो रथवंशेन गाङ्गेयं पर्यवारयन् ॥ पुत्राश्च तव गाङ्गेयं परिवार्य ययुर्मुदा । कम्पयन्तो भुवं द्यां च क्षोभयन्तश्च पाण्डवान् ॥ ते रथैः सुप्रसंयुक्तैर्दन्तिभिश्च महारथाः । परिवार्य रणे भीष्मं दंशिताः समवस्थिताः ॥ यथा देवासुरे युद्धे त्रिदशा वज्रधारिणम् । सर्वे ते स्म व्यतिष्ठन्त रक्षन्तस्तं महारथम् ॥ ततो दुर्योधनो राजा पुनर्भ्रातरमब्रवीत् । सव्यं चक्रं युधामन्युरुत्तमौजाश्च दक्षिणम् । गोप्तारावर्जुनस्यैतावर्जुनोऽपि शिखण्डिनः ॥ रक्ष्यमाणः स पार्थेन तथास्माभिर्विवर्जितः । यथा भीष्मं न नो हन्याद्दुःशासन तथा कुरु ॥ सञ्जय उवाच । भ्रातुस्तद्वचनं श्रुत्वा पुत्रो दुःशासनस्तव । भीष्मं प्रमुखतः कृत्वा प्रययौ सह सेनया ॥ भीष्मं तु रथवंशेन दृष्ट्वा समभिसंवृतम् । अर्जुनो रथिनां श्रेष्ठो धृष्टद्युम्नमुवाच ह ॥ शिखण्डिनं नरव्याघ्रं भीष्मस्य प्रमुखे नृप । स्थापयस्वाद्य पाञ्चाल्य तस्य गोप्ताऽहमित्युत ॥ ॥
इति श्रीमन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि नवमदिवसयुद्धे अष्टनवतितमोऽध्यायः ॥
6-98-25 महाजनं जनसमूहम् । क्षयं गृहम् ॥ 6-98-28 प्रत्यादेशं निराकरम् ॥ 6-98-29 निर्वेदं खेदम् ॥ 6-98-37 उद्योगे युद्धात्प्राक् ॥