अध्यायः 097

भीष्मो न्यस्तशस्त्रश्चेदहं पाण्डवान् जेष्यामीति कर्णबोधितेन दुर्योधनेन रात्रौ भीष्ममेत्य कर्णस्य युद्धानुज्ञाप्रार्थना ॥ 1 ॥ सञ्जय उवाच । ततो दुर्योधनो राजा शकुनिश्चापि सौबलः । दुःशासनश्च पुत्रस्ते सूतपुत्रश्च दुर्जयः ॥ समागम्य महाराज मन्त्रं चक्रुर्विवक्षितम् । कथं पाण्डुसुताः सङ्ख्ये जेतव्याः सगणा इति ॥ ततो दुर्योधनो राजा सर्वांस्तानाह मन्त्रिणः । सूतपुत्रं समाभाष्य सौबलं च महाबलम् ॥ द्रोणो भीष्म कृपः शल्यः सौमदत्तिश्च संयुगे । न पार्थान्प्रति बाधन्ते न जाने किन्नु कारणम् ॥ अवध्यमानास्ते चापि क्षपयन्ति बलं मम । सोऽस्मि क्षीणबलः कर्ण क्षीणशस्त्रश्च संयुगे ॥ 'द्रोणस्य प्रमुखे वीरा हतास्ते भ्रातरो मम । भीमसेनेन राधेय मम चैव च पश्यतः ' ॥ निकृतः पाण्डवैः शूरैरवध्यैर्दैवतैरपि । सोऽहं संशयमापन्नः प्रकरिष्ये कथं रणम् ॥ सञ्जय उवाच । तमब्रवीन्महाराज सूतपुत्रो नराधिपम् । मा शोच भरतश्रेष्ठ करिष्येऽहं प्रियं तव ॥ भीष्मः शान्तनवस्तूर्णमपयातु महारणात् । निवृत्ते युधि गाङ्गेये न्यस्तशस्त्रे च भारत ॥ अहं पार्थान्हनिष्यामि सहितान्सर्वसोमकैः । पश्यतो युधि भीष्मस्य शपे सत्येन ते नृप ॥ पाण्डवेषु दयां नित्यं स हि भीष्मः करोति वै । अशक्तश्च रणे भीष्मो जेतुमेतान्महारथान् ॥ अभिमानी रणे भीष्मो नित्यं चापि रणप्रियः । स कथं पाण्डवान्युद्धे जेष्यते तात सङ्गतान् ॥ स त्वं शीघ्रमितो गत्वा भीष्मस्य शिबिरं प्रति । अनुमान्य गुरुं वृद्धं शस्त्रं न्यासय भारत ॥ न्यस्तशस्त्रे ततो भीष्मे निहतान्पश्य पाण्डवान् । मयैकेन रणे राजन्ससुहृद्गणबान्धवान् ॥ एवमुक्तस्तु कर्णेन पुत्रो दुर्योधनस्तव । अब्रवीद्भ्रातरं तत्र दुःशासनमिदं वचः ॥ अनुयात्रं यथा सर्वं सज्जीभवति सर्वशः । दुःशासन तथा क्षिप्रं सर्वमेवोपपादय ॥ एवमुक्त्वा ततो राजन्कर्णमाह जनेश्वरः । अनुमान्य रणे भीष्ममेषोऽहं द्विपदां वरम् ॥ आगमिष्ये ततः क्षिप्रं त्वत्सकाशमरिन्दम । अपक्रान्ते ततो भीष्मे प्रहरिष्यसि संयुगे ॥ निष्पपात ततस्तूर्णं पुत्रस्तव विशाम्पते । सहितो भ्रातृभिस्तैस्तु देवैरिव शतक्रतुः ॥ ततस्तं नृपशार्दूलं शार्दूलसमविक्रमम् । आरोपयद्धयं तूर्णं भ्राता दुःशासनस्तदा ॥ अङ्गदी बद्धमुकुटो हस्ताभरणवान्नृप । धार्तराष्ट्रो महाराज विबभौ स पथि व्रजन् ॥ भण्डीपुष्पनिकाशेन तपनीयनिभेन च । अनुलिप्तः परार्द्ध्येन चन्दनेन सुगन्धिना ॥ अरजोम्बरसंवीतः सिंहखेलगतिर्नृप । शुशुभे विमलार्चिष्मान्नभसीव दिवाकरः ॥ तं प्रयान्तं नरव्याघ्रं भीष्मस्य शिबिरं प्रति । अनुजग्मुर्महेष्वासाः सर्वलोकस्य धन्विनः । भ्रातरश्च महेष्वासास्त्रिदशा इव वासवम् ॥ हयानन्ये समारुह्य गजानन्ये च भारत । रथानन्ये नरश्रेष्ठं परिवव्रुः समन्ततः ॥ 'पदातयश्च त्वरिता नखरप्रासयोधिनः । परिवव्रुर्महेष्वासं धार्तराष्ट्रं महारथम् ॥' आत्तशस्त्राश्च सुहृदो रक्षणार्थं महीपतेः । प्रादुर्बभूवुः सहिताः शक्रस्येवामरा दिवि ॥ स पूज्यमानः कुरुभिः कौरवाणां महाबलः । प्रययौ सदनं राजा गाङ्गेयस्य यशस्विनः । अन्वीयमानः सततं सोदरैः परिवारितः ॥ दक्षिणं दक्षिणः काले सम्भृत्य स्वभुजं तदा । हस्तिहस्तोपमं सौम्यं सर्वशत्रुनिबर्हणम् ॥ प्रगृह्णन्नञ्जलीन्नॄणामुद्यतान्सर्वतो दिशः । शुश्राव मधुरा वाचो नानादेशनिवासिनाम् ॥ संस्तूयमानः सूतैश्च मागधैश्च महायशाः । पूजयानश्च तान्सर्वान्सर्वलोकेश्वरेश्वरः ॥ प्रदीपैः काञ्चनैस्तत्र गन्धतैलावसेचितैः । परिवव्रुर्महाराजं प्रज्वलद्भिः समन्ततः ॥ स तैः परिवृतो राजा प्रदीपैः काञ्चनैर्ज्वलन् । शुशुभे चन्द्रमायुक्तो दीप्तैरिव महाग्रहैः ॥ कञ्चुकोष्णीषिणस्तत्र वेत्रझर्झरपाणयः । प्रोत्सारयन्तः शनकैस्तं जनं सर्वतो दिशम् ॥ सम्प्राप्य तु ततो राजा भीष्मस्य सदनं शुभम् । अवतीर्य हयाच्चापि भीष्मं प्राप्य जनेश्वरः ॥ अभिवाद्य ततो भीष्मं निषण्णः परमासने । काञ्चने सर्वतोभद्रे स्पर्द्ध्यास्तरणसंवृते । उवाच प्राञ्जलिर्भीष्मं बाष्पकण्ठोऽश्रुलोचनः ॥ त्वां वयं हि समाश्रित्य संयुगे शत्रुसूदन । उत्सहेम रणे जेतुं सेन्द्रानपि सुरासुरान् । किमु पाण्डुसुतान्वीरान्ससुहृद्गणबान्धवान् ॥ तस्मादर्हसि गाङ्गेय कृपां कर्तुं मयि प्रभो । जहि पाणडुसुतान्वारान्महेन्द्र इव दानवान् ॥ पूर्वमुक्तं महाबाहो हनिष्यामि ससोमकान् । पाञ्चालान्केकयैः सार्धं करूपांश्चेति भारत ॥ त्वद्वचः सत्यमेवास्तु जहि पार्थान्समागतान् । सोमकांश्च महेष्वासान्सत्यवाग्भव भारत ॥ दयया यदि वा राजन्द्वेष्यभावान्मम प्रभो । मन्दभाग्यतया वापि मम रक्षसि पाण्डवान् ॥ अनुजानीहि समरे कर्णमाहवशोभिनम् । स जेष्यति रणे पार्थान्ससुहृद्गणबान्धवान् ॥ सञ्जय उवाच । स एवमुक्त्वा नृपतिः पुत्रो दुर्योधनस्तव । नोवाच वचनं किञ्चिद्भीष्मं सत्यपराक्रमम् ॥ ॥

इति श्रीमन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि सप्तनवतितमोऽध्यायः ॥

6-97-21 भण्डीपुष्पं मञ्जिष्ठापुष्पम् ॥ 6-97-29 दक्षिणं स्वभुजं सम्भृत्य समुद्धृत्य ॥