अध्यायः 096

भीमेन दुर्योधनानुजानां कतिपयानां हननम् ॥ 1 ॥ सञ्जय उवाच । पुत्रं विनिहतं श्रुत्वा इरावन्तं धनञ्जयः । दुःखेन महताऽऽविष्टो निःश्वसन्पन्नगो यथा ॥ अब्रवीत्समरे राजन्वासुदेवमिदं वचः । इदं नूनं महाप्राज्ञो विदुरो दृष्टवान्पुरा ॥ कुरूणां पाण्डवानां च क्षयं घोरं महामतिःक । स ततो निवारितवान्धृतराष्ट्रं जनेश्वरम् ॥ अन्ये च बहवो वीराः सङ्ग्रामे मधुसूदन । निहताः कौरवैः सङ्ख्ये तथाऽस्माभिश्च कौरवाः ॥ अर्थहेतोर्नरश्रेष्ठ क्रियते कर्म कुत्सितम् । धिगर्थान्यत्कृते ह्येवं क्रियते ज्ञातिसङ्क्षयः ॥ अधनस्य मृतं श्रेयो न च ज्ञातिवधाद्वनम् । किं नु प्राप्स्यामहे कृष्ण हत्वा ज्ञातीन्समागतान् ॥ दुर्योधनापराधेन शकुनेः सौबलस्य च । क्षत्रिया निधनं यान्ति कर्णदुर्मन्त्रितेन च ॥ इदानीं च विजानामि सुकृतं मधुसूदन । कृतं राज्ञा महाबाहो याचता त सुयोधनम् ॥ राज्यार्धं पञ्च वा ग्रामान्नाकार्षीत्स च दुर्मतिःक । दृष्ट्वा हि क्षत्रियाञ्शूराञ्शयानान्धरणीतले ॥ निन्दामि भृशमात्मानं धिगस्तु क्षत्रिजीविकाम् । अशक्तमिति मामेते ज्ञास्यन्ते क्षत्रिया रणे ॥ एतदर्थं मया युद्धं रोचितं मधुसूदन । सञ्चोदय हयाञ्शीघ्रं धार्तराष्ट्रचमूं प्रति ॥ प्रतरिष्ये महापारं भुजाभ्यां समरोदधिम् । नायं क्लीबायितुं कालो विद्यते माधव क्वचित् ॥ सञ्जय उवाच । एवमुक्तस्तु पार्थेन केशवः परवीरहा । चोदयामास तानश्वान्पाण्डुरान्वातरंहसः ॥ अथ शब्दो महानासीत्तव सैन्यस्य भारत । मारुतोद्धूतवेगस्य सागरस्येव पर्वणि ॥ अपराह्णे महाराज सङ्ग्रामः समपद्यत । पर्जन्यसमनिर्घोषो भीष्मस्य सह पाण्डवैः ॥ ततो राजंस्तव सुता भीमसेनमुपाद्रवन् । परिवार्य रणे द्रोणं वसवो वासवं यथा ॥ ततः शान्तनवो भीष्मः कृपश्च रथिनां वरः । भगदत्तः सुशर्मा च धनञ्जयमुपाद्रवन् ॥ हार्दिक्यो बाह्लिकश्चैव सात्यकिं समभिद्रुतौ । अम्बष्ठकस्तु नृपतिरभिमन्युमवस्थितः ॥ शेषास्त्वन्ये महाराज शेषानेव महारथान् । ततः प्रववृते युद्धं घोररूपं भयावहम् ॥ 'भीमसेनस्तु सम्प्रेक्ष्य पुत्रांस्तव विशाम्पते' । प्रजज्वाल रणे क्रुद्धो हविषा हव्यवाडिव ॥ पुत्रास्तु तव कौन्तेयं छादयाञ्चक्रिरे शरैः । प्रावृषीव महाराज जलदा इव पर्वतम् ॥ स च्छाद्यमानो बहुधा पुत्रैस्तव विशाम्पते । सृक्विणी संलिहन्वीरः शार्दूल इव दर्पितः ॥ व्यूढोरस्कस्ततो भीमः पोथयामास पार्थिवम् । क्षुरप्रेण सुतीक्ष्णेन सुमुक्तेन महारणे ॥ ताडयामास सङ्क्रुद्धः सोऽभवद्व्यथितेन्द्रियः । अपरेण तु भल्लेन पीतेन निशितेन तु । अपातयत्कुण्डलितं सिंहः क्षुद्रमृगं यथा ॥ ततः सुनिशितान्बाणान्भीमसेनः शिलाशितान् । स सप्त सन्दधे हन्तुं पुत्रास्ते भरतर्षभ ॥ प्रेषिता भिमसेनेन शरास्ते दृढधन्वना । अपातयन्त पुत्रांस्ते रथेभ्यः सुमहारथान् ॥ अनाधृष्टिं कुण्डभेदिं विराजं दीप्तलोचनम् । दीर्घबाहुं सुबाहुं च तथैव मकरध्वजम् ॥ प्रपतन्तिस्म वीरास्ते विरेजुर्भरतर्षभ । वसन्ते पुष्पशबलाः किंशुकाः पतिता इव ॥ ततः प्रदुद्रुवुः शेषास्तव पुत्रा महाहवे । तं कालमिव मन्यन्तो भीमसेनं महाबलम् ॥ द्रोणस्तु समरे वीरं निर्दहनक्तं सुतांस्तव । यथाद्रिं वारिधाराभिः समन्ताद्व्यकिरच्छरैः ॥ तत्राद्भुतमपश्याम कुन्तीपुत्रस्य पौरुषम् । द्रोणेन वार्यमाणोऽपि निजघ्ने यत्सुतांस्तव ॥ यथा गोवृषभो वर्षं सन्धारयति स्वात्पतत् । भीमस्तथा द्रोणमुक्तं शरवर्षमदीधरत् ॥ अद्भुतं च महाराज तत्र चक्रे वृकोदरः । यत्पुत्रांस्तेऽवधीत्सङ्ख्ये द्रोणं चैव न्यवारयत् ॥ पुत्रेषु तव वीरेषु चिक्रीडार्जुनपूर्वजः । मृगेष्विव महाराज चरन्व्याघ्रो महाबलः ॥ यथा हि पशुमध्यस्थो द्रावयेत पशून्वृकः । वृकोदरस्तव सुतांस्तथा व्यद्रावयद्रणे ॥ गाङ्गेयो भगदत्तश्च गोतमश्च महारथाः । पाण्डवं रभसं युद्धे वारयामासुरर्जुनम् ॥ अस्त्रैरस्त्राणि संवार्य तेषां सोऽतिरथो रणे प्रवीरांस्तव सैन्येषु प्रेषयामास मृत्यवे ॥ अभिमन्युस्तु राजानमम्बष्ठं लोकविश्रुतम् । विरथं रथिनां श्रेष्ठं कारयामास सायकैः ॥ विरथो वध्यमानस्तु सौभद्रेण यशस्विना । अवप्लुत्य रथात्तूर्णमम्बष्ठो वसुधाधिपः ॥ असिं चिक्षेप समरे सौभद्रस्य महात्मनः । आरुरोह रथं चैव हार्दिक्यस्य महाबलः ॥ आपतन्तं तु निस्त्रिंशं युद्धमार्गविशारदः । लाघवाद्व्यंसयामास सौभद्रः परवीरहा ॥ व्यंसितं वीक्ष्य निस्त्रिंशं सौभद्रेण रणे तदा । साधुसाध्विति सैन्यानां प्रणादोऽभूद्विशाम्पते ॥ धृष्टद्युम्नमुखास्त्वन्ये तव सैन्यमयोधयन् । तथैव तावकाः सर्वे पाण्डुसैन्यमयोधयन् ॥ तत्राक्रन्दो महानासीत्तव तेषां च भारत । निघ्नतां दृढमन्योन्यं कुर्वतां कर्म दुष्करम् ॥ अन्योन्यं हि रणे शूराः केशेष्वाक्षिष्य मानिनः । नखदन्तैरयुध्यन्त मुष्टिभिर्जानुभिस्तथा ॥ तलैश्चैवाथ निस्त्रिंशैर्बाहुभिश्च सुसंस्थितैः । विवरं प्राप्य चान्योन्यमनयन्यमसादनम् ॥ न्यहनच्च पिता पुत्रं पुत्रश्च पितरं तथा । व्याकुलीकृतसङ्कल्पा युयुधुस्तत्र मानवाः ॥ रणे चारूणि चापानि हेमपृष्ठानि मारिष । हतानामपविद्धानि कलापाश्च महाधनाः ॥ जातरूपमयैः पुङ्खै राजतैर्निशिताः शराः । तैलधौता व्यराजन्त निर्मुक्तभुजगोपमाः ॥ खङ्गाश्च दान्तत्सरवो जातरूपपरिष्कृताः । चर्माणि चापविद्धानि रुक्मचित्राणि धन्विनां ॥ सुवर्णाविकृताः प्रासाः प्रभग्ना हेमभूषिताः । जातरूपमया यष्ट्यः शक्त्यश्च कनकोज्ज्वलाः ॥ अवस्कन्दाश्च पतिता मुसलानि गुरूणि च । परिघाः पट्टसाश्चैव भिण्डिपालाश्च मारिष ॥ पतिता विविधाश्चापाश्चित्रा हेमपरिष्कृताः । कुथा बहुविधाकाराश्चामरा व्यजनानि च ॥ नानाविधानि शस्त्राणि प्रगृह्य पतिता नराः । जीवन्त इव दृश्यनते गतसत्त्वा महारथाः ॥ गजाविमथितैर्गात्रैर्मुसलैर्भिन्नमस्तकाः । गजावाजिरथक्षुण्णाः शेरते स्म नराः क्षितौ ॥ तथैवाश्वनृनागानां शरीरैर्विबभौ तदा । सञ्छन्ना वसुधा राजन्पर्वतैरिव शातितैः ॥ समरे पतितैश्चैव शक्त्यृष्टिशरतोमरैः । निस्त्रिंशैः पट्टसैः प्रासैरवस्कन्दैः परश्वथैः ॥ परिघैर्भिण्डिपालैश्च शतघ्नीभिश्च मारिष । शरीरैः शस्त्रनिर्भिन्नैः समास्तीर्यत मेदिनी ॥ विशब्दैरल्पशब्दैश्च शोणितौगपरिप्लुतैः । गतासुभिरमित्रघ्न विबभौ निचिता मही ॥ सतलत्रैः सकेयूरैर्बाहुभिश्चन्दनोक्षितैः । हस्तिहस्तोपमैश्छिन्नैरूरुभिश्च तरस्विनाम् ॥ बद्धचूजामणिवरैः शिरोभिश्च सकुण्डलैः । पातितै ऋषभाक्षाणां बभौ भारत मेदिनी ॥ कवचैः शोणितादिग्धैर्विप्रकीर्णैश्च काञ्चनैः । रराज सुभृशं भूमिः शान्तार्चिर्भिरिवानलैः ॥ विप्रविद्धैः कलापैश्च पतितैश्च शरासनैः । विप्रकीर्णैः शरैश्चैव रुक्मपुङ्खैः समन्ततः ॥ रथैश्च सर्वतो भग्नैः किङ्किणीजालभूषितैः । वाजिभिश्च हतैर्बाणैः स्रस्तजिह्वैः सशोणितैः ॥ अनुकर्षैः पताकाभिरुपासङ्गैर्ध्वजैरपि । प्रवीराणां महाशङ्खैर्विप्रकीर्णैश्च पाण्डुरैः ॥ स्रस्तहस्तैश्च मातङ्गैः शयानैर्विबभौ मही । नानारूपेरलङ्कारैः प्रमदेवाभ्यलङ्कृता ॥ दन्तिभिश्चापरैस्तत्र सप्राणैर्गाढवेदनैः । करैः शब्दं विमुञ्चद्भिः शीकरं च मुहुर्मुहुः ॥ विबभौ तद्रणस्थानं स्यन्दमानैरिवाचलैः । नानारागैः कम्बलैश्च परिस्तोमेश्च दन्तिनाम् ॥ वैदूर्यमणिदण्डैश्च पतितैरङ्कुशैः शुभैः । घण्टाभिश्च गजेन्द्राणां पतिताभिः समन्ततः ॥ विपाटितविचित्राभिः कुथाभिरङ्कुशैस्तथा । ग्रैवेयैश्चित्ररूपैश्च रुक्मकक्ष्याभिरेव च ॥ यन्त्रैश्च बहुधा च्छिन्नैस्तोमरैश्चापि काञ्चनैः । 'रराज सुभृशं भूमिस्तत्रतत्र विशाम्पते' अश्वानां रेणुकपिलै रुक्मच्छन्नैरुरश्छदैः ॥ सादिनां च भुजैश्छिन्नैः पतितैः साङ्गदैस्तथा । प्रासैश्च विमलैस्तीक्ष्णैर्विमलाभिस्तथर्ष्टिभिः ॥ उष्णीषैश्च तथा चित्रैर्विप्रविद्धैस्ततस्ततः । विचित्रैर्बाणवर्षैश्च जातरूपपरिष्कृतैः ॥ अश्वास्तरपरिस्तोमै राङ्कवैर्मृदितैस्तथा । नरेन्द्रचूडामणिभिर्विचित्रैश्च महाधनैः ॥ छत्रैस्तथापविद्धैश्च चामरैर्व्यजनैरपि । पद्मेन्दुद्युतिभिश्चैव वदनैश्चारुकुण्डलैः ॥ क्लृप्तश्मश्रुभिरत्यर्थं वीराणां समलङ्कृतैः । अपविद्धैर्महाराज सुवर्णाज्ज्वलकुण्डलैः ॥ ग्रहनक्षत्रशबला द्यौरिवासीद्वसुन्धरा । एवमेते महासेने मृदिते तत्र भारत ॥ परस्परं समासाद्य तव तेषां च संयुगे । तेषु श्रान्तेषु भग्नेषु मृदितेषु च भारत ॥ रात्रिः समभवत्तत्र नापश्याम ततोऽनुगान् । ततोऽवहारं सैकन्यानां प्रचुक्रुः कुरुपाण्डवाः ॥ घोरे निशामुखे रौद्रे वर्तमाने महाभये । अवहारं ततः कृत्वा सहिताः कुरुपाणड्वाः । न्यविशन्त निशाकाले गत्वा स्वशिबिरं तदा ॥ ॥

इति श्रीमन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि अष्टमदिवसयुद्धे षण्णवतितमोऽध्यायः ॥

6-96-23 व्यूढोरस्कं इति झo पाठः ॥ 6-96-48 अपविद्धानि पतितानि ॥