अध्यायः 095

भगदत्तादियुद्धम् ॥ 1 ॥ सञ्जय उवाच । तस्मिन्महति सङ्क्रन्दे राजा दुर्योधनस्तदा । 'पराजयं राक्षसेन नामृष्यत परन्तपः ।' गाङ्गेयमुपसङ्गम्य विनयेनाभिवाद्य च ॥ तस्य सर्वं यथावृत्तमाख्यातुमुपचक्रमे । घटोत्कचस्य विजयमात्मनश्च पराजयम् ॥ कथयामास दुर्धर्षो विनिःश्वस्य पुनःपुनः । अब्रवीच्च तदा राजन्भीष्मं कुरुपितामहम् ॥ भवन्तं समुपाश्रित्य द्रोणं चैव पितामह । पाण्डवैर्विग्रहो घोरः समारब्धो मया प्रभो ॥ एकादश समाख्याता अक्षौहिण्यश्च या मम । निदेशे तव तिष्ठन्ति मया सार्धं परन्तप ॥ सोऽहं भरतशार्दूल भीमसेनपुरोगमैः । घटोत्कचं समाश्रित्य पाण्डवैर्युधि निर्जितः ॥ तन्मे दहति गात्राणि शुष्कवृक्षमिवानलः । तदिच्छामि महाभाग त्वत्प्रसादात्परन्तप ॥ राक्षसापशदं हन्तुं स्वयमेव पितामह । त्वां समाश्रित्य दुर्धर्षं तन्मे कर्तुं त्वमर्हसि ॥ सञ्जय उवाच । एतच्छ्रुत्वा तु वचनं राज्ञो भरतसत्तम । दुर्योधनमिदं वाक्यं भीष्मः शान्तनवोऽब्रवीत् ॥ शृणु राजन्मम वचो यत्त्वां वक्ष्यामि कौरव । यथा त्वया महाराज वर्तितव्यं परन्तप ॥ आत्मा रक्ष्यस्त्वया तात सर्वावस्थास्वरिन्दम । धर्मराजेन सङ्ग्रामस्त्वया कार्यः सदाऽनघ ॥ अर्जुनेन यमाभ्यां वा भीमसेनेन वा पुनः । अन्यैर्वा पृथिवीपालै राजा राजानमृच्छति ॥ न तु कार्यस्त्वया राजन्हैडिम्बेन दुरात्मा । अहं द्रोणः कृपो द्रौणिः कृतवर्मा च सात्वतः । शल्यश्च वृषसेनश्च विकर्णश्च महारथः ॥ शेषाश्च भ्रातरस्त्वन्ये दुःशासनपुरोगमाः । त्वदर्थे प्रतियोत्स्यामो राक्षसं तं महाबलम् ॥ रौद्रे तस्मिन्राक्षसेन्द्रे यदि ते हृच्छयो महान् । अयमागच्छतु रणं तस्य युद्धाय दुर्मतेः ॥ भगदत्तो महीपालः पुरन्दरसमो युधि । एतावदुक्त्वा राजानं भगदत्तमथाब्रवीत् ॥ समक्षं पार्थिवेन्द्रस्य वाक्यं वाक्यविशारदः । गच्छ शीघ्रं महाराज हैडिम्बं युद्धदुर्मदम् ॥ वारयस्व रणे यत्तो मिषतां सर्वधन्विनाम् । राक्षसं क्रूरकर्माणं यथेन्द्रस्तारकं पुरा ॥ तव दिव्यानि चास्त्राणि विक्रमश्च परन्तप । समागमश्च बहुभिः पुराऽभूदमरैः सह ॥ त्वं तस्य नृपशार्दूल प्रतियोद्धा महाहवे । स्वबलेनावृतो गच्छ जहि राक्षसपुङ्गवम् ॥ सञ्जय उवाच । एतच्छ्रुत्वा तु वचनं भीष्मस्य पृतनापतेः । प्रययौ सिंहनादेन परानभिमुखको द्रुतम् ॥ तमापतन्तं सम्प्रेक्ष्य गर्जन्तमिव तोयदम् । अभ्यवर्तन्त सङ्क्रुद्धाः पाण्डवानां महारथाः ॥ भीमसेनोऽभिमन्युश्च राक्षसश्च घटोत्कचः । द्रौपदेयाः सत्यधृतिः क्षत्रदेवश्च भारत ॥ चेदिपो वसुदानश्च दशार्णाधिपतिस्तथा । सुप्रतीकेन तांश्चापि भगदत्तोऽप्युपाद्रवत् ॥ ततः समभवद्युद्धं घोररूपं भयानकम् । पाण्डूनां भगदत्तेन यमराष्ट्रविवर्धनम् ॥ प्रयुक्ता रथिभिर्बाणा भीमवेगाः सुतेजनाः । ते निपेतुर्महाराज नागेषु च रथेषु च ॥ प्रभिन्नाश्च महानागा विनीता हस्तिसादिभिः । परस्परं समासाद्य सन्निपेतुरभीतवत् ॥ मदान्धा रोषसंरब्धा विषाणाग्रैर्महाहवे । बिभिदुर्दन्तमुसलैः समासाद्य परस्परम् ॥ हयाश्च चामरापीडाः प्रासपाणिभिरास्थिताः । चोदिताः सादिभिः क्षिप्रं निजघ्रुरितरेतरम् ॥ पादाताश्च पदात्योघैस्ताडिताः शक्तितोमरैः । न्यपतन्त तदा भूमौ शतशोऽथ सहस्रशः ॥ रथिनश्च रथाकंश्चित्रान्कर्णिनालीकतोमरैः । निहत्य समरे वीरान्सिंहनादान्विनेदिरे ॥ तस्मिंस्तथा वर्तमाने सङ्ग्रामे रोमहर्षणे । भगतत्तो महेष्वासो भीमसेनमथाद्रवत् ॥ कुञ्जरेण प्रभिन्नेन सप्तधा स्रवता मदम् । पर्वतेन यथा तोयं स्रवमाणेन सर्वशः ॥ किरञ्छरसहस्राणि सुप्रतीकशिरोगतः । ऐरावतस्थो मघवान्वारिधारा इवानघ ॥ स भीमं शरधाराभिस्ताजयामास पार्थिवः । पर्वतं वारिधाराभिस्तपान्ते जलदो यथा ॥ भीमसेनस्तु सङ्क्रुद्धः पादरक्षान्परःशतान् । निजघान महेष्वासः संरब्धः शरवृष्टिभिः ॥ तान्दृष्ट्वा निहतान्क्रुद्धो भगदत्तः प्रतापवान् । चोदयामास नागेन्द्रं भीमसेनरथं प्रति ॥ स नागः प्रेषितस्तेन बाणो ज्याचोदितो यथा । अभ्यधावत वेगेन भीमसेनपुरोगमाः ॥ तमापतन्तं सम्प्रेक्ष्य पाण्डवानां महारथाः । अभ्यवर्तन्त वेगेन भीमसेनपुरोगमाः ॥ केकयाश्चाभिमन्युश्च द्रौपदेयाश्च सर्वशः । दशार्णाधिपतिः शूरः क्षत्रदेवश्च मारिष ॥ चेदिपो धृष्टकेतुश्च संरब्धाः सर्व एव ते । उत्तमास्त्राणि दिव्यानि दर्शयन्तो महाबलाः ॥ तमेकं कुञ्जरं क्रुद्धाः समन्तात्पर्यवारयन् । स विद्धो बहुभिर्बाणैर्व्यरोचत महाद्विपः ॥ सञ्जातरुधिरोत्पीडो धातुचित्र इवाद्रिराट् । दशार्णाधिपतिश्चाऽपि गजं भूमिधरोपमम् ॥ समास्थितोऽभिदुद्राव भगदत्तस्य वारणम् । तमापतन्तं समरे जगं जगपतिः स च ॥ दधार सुप्रतीकोऽपि वेलेव मकरालयम् । वारितं प्रेक्ष्य नागेन्द्रं दशार्णस्य महात्मनः ॥ साधुसाध्विति सैन्यानि त्वदीयान्यभ्यपूजयन् । ततः प्राग्ज्योतिषः क्रुद्धस्तोमरान्वै चतुर्दश ॥ प्राहिणोत्तस्य नागस्य प्रमुखे नृपसत्तम । तस्य कुम्भपरित्राणां शातकुम्भपरिष्कृतम् ॥ विदार्य प्राविशन्क्षिप्रं वल्मीकमिव पन्नगाः । स गाढविद्धो व्यथितो नागो भरतसत्तम ॥ उपावृत्तमदः क्षिप्रमभ्यवर्तत वेगिनः । स प्रदुद्राव वेगेन प्रणदन्भैरवं रवम् ॥ सम्मर्दमानः स्वबलं वायुर्वृक्षानिवौजसा । तस्मिन्पराजिते नागे पाण्डवानां महारथाः ॥ सिंहनादं विनद्योच्चैर्युद्धायैवावतस्थिरे । ततो भीमं पुरस्कृत्य भगदत्तमुपाद्रवन् ॥ किरन्तो विविधान्बाणाञ्शस्त्राणि विविधानि च । तेषामापततां राजन्सङ्क्रुद्धानाममर्षिणाम् ॥ श्रुत्वा स निनदङ्क घोरममर्षाद्गतसाध्वसः । भगदत्तो महेष्वासः स्वनागं प्रत्यचोदयत् ॥ अङ्कुशाङ्गुष्ठनुदितः स गजप्रवरो युधि । तस्मिन्क्षणे समभवत्सांवर्तक इवानलः ॥ रथसङ्घांस्तथा नागान्हयांश्च हयसादिनः । पादातांश्च सुसङ्क्रुद्धः शतशोऽथ सहस्रशःक ॥ अमृद्गात्समरे नागः सम्प्रधावंस्ततस्ततः । तेन संलोड्यमानं तु पाण्डवानां बलं महत् ॥ सञ्चुकोच महाराज चर्मेवाग्नौ समाहितम् । भग्नं तु स्वबलं दृष्ट्वा भगदत्तेन धीमता ॥ घटोत्कचोऽथ सङ्क्रुद्धो भगदत्तमुपाद्रवत् । विकटः परुषो राजन्दीप्तास्यो दीप्तलोचनः ॥ रूपं विभीषणं कृत्वा रोषेण प्रज्वलन्निव । जग्राह विमलं शूलं गिरीणामपि दारणम् ॥ नागं जिघांसुः सहसा चिक्षेप च महाबलः । स विस्फुलिङ्गमालाभिः समन्तात्परिवेष्टितम् ॥ तमापतन्तं सहसा दृष्ट्वा प्राग्ज्योतिषो नृपः । चिक्षेप रुचिरं तीक्ष्णमर्धचन्द्रं सुदारुणम् ॥ चिच्छेद तन्महच्छूलं तेन बाणेन वेगवान् । उत्पपात द्विधा च्छिन्नं शूलं हेमपरिष्कृतम् ॥ महाशनिर्यथा भ्रष्टा शक्रमुक्ता नभोगता । शूलं निपतितं दृष्ट्वा द्विधा कृत्तं च पार्थिवः ॥ रुक्मदण्डां महाशक्तिं जग्राहाग्निशिखोपमान् । चिक्षेप तां राक्षसस्य तिष्ठितिष्ठेति चाब्रवीत् ॥ तामापतन्तीं सम्प्रेक्ष्य वियत्स्थामशनीमिव । उत्पत्य राक्षसस्तूर्णं जग्राह च ननाद च ॥ बभञ्ज चैनां त्वरितो जानुन्यारोप्य भारत । पश्यतः पार्थिवेन्द्रस्य तदद्भुतमिवाभवत् ॥ तदवेक्ष्य कृतं कर्म राक्षसेन बलीयसा । दिवि देवाः सगन्धर्वा मुनयश्चापि विस्मिताः ॥ पाण्डवाश्च महाराज भीमसेनपुरोगमाः । साधुसाध्विति नादेन पृथिवीमन्वनादयन् ॥ तं तु श्रुत्वा महानादं प्रहृष्टानां महात्मनाम् । नामृष्यत महेष्वासो भगदत्तः प्रतापवान् ॥ स विष्फार्य महच्चापमिन्द्राशानिसमप्रभम् । अभिदुद्राव वेगेन पाण्डवानां महारथान् ॥ विसृजन्विमलांस्तीक्ष्णान्नाराचाञ्ज्वलनप्रभान् । भीममेकेन विव्याध राक्षसं नवभिः शरैः ॥ अभिमन्युं त्रिभिश्चैव केकयान्पञ्च पञ्चभिः । पूर्णायतविसृष्टेन शरेणानतपर्वणा ॥ बिभेद दक्षिणं बाहुं क्षत्रेदवस्य चाहवे । पपात सहसा तस्य सशरं धनुरुत्तमम् ॥ द्रौपदेयांस्ततः पञ्च पञ्चभिः समताडयत् । भीमसेनस्य च क्रोधान्निजघान तुरङ्गमान् ॥ ध्वजं केसरिणं चास्य चिच्छेद विशिखैस्त्रिभिः । निर्बिभेद त्रिभिश्चान्यैः सारथिं चास्य पत्रिभिः ॥ स गाढविद्धो व्यथितो रथोपस्थ उपाविशत् । विशोको भरतश्रेष्ठ भगदत्तेन संयुगे ॥ ततो भीमो महाबाहुर्विरथो रथिनां वरः । गदां प्रगृह्य वेगेन प्रचस्कन्द रथोत्तमात् ॥ तमुद्यतगदं दृष्ट्वा सशृङ्गमिव पर्वतम् । तावकानां भयं घोरं समपद्यत भारत ॥ एतस्मिन्नेव काले तु पाण्डवः कृष्णसारथिः । आजगाम महाराज निघ्नञ्शत्रून्समन्ततः ॥ यत्र तौ पुरुषव्याघ्रौ पितापुत्रौ महाबलौ । प्राग्ज्योतिषेण संयुक्तौ भीमसेनघटोत्कचौ ॥ दृष्ट्वा च पाण्डवो भ्रातॄन्युध्यमानान्महारथान् । त्वरितो भरतश्रेष्ठ तत्रायुध्यत्किरञ्छरान् ॥ ततो दुर्योधनो राजा त्वरमाणो महारथः । सेनामचोदयत्क्षिप्रं रथनागाश्वसङ्कुलाम् ॥ तामापतन्तीं सहसा कौरवाणां महाचमूम् । अभिदुद्राव वेगेन पाण्डवः श्वेतवाहनः ॥ भगदत्तश्च समरे तेन नागेन भारत । विमृद्गन्पाण्डवबलं युधिष्ठिरमुपाद्रवत् ॥ तदासीत्सुमहद्युद्धं भगदत्तस्य मारिष । पाञ्चालैः पाण्डवेयैश्च केकयैश्चोद्यतायुधैः ॥ भीमसेनोऽपि समरे तावुभौ केशवार्जिनौ । अश्रावयद्यथावृत्तमिरावद्वधतुत्तमम् ॥ ॥

इति श्रीमन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि अष्टमदिवसयुद्धे पञ्चनवतितमोऽध्यायः ॥

6-95-4 भवन्तं समुपाश्रित्य वासुदेवं यथा परैः इति झo पाठः । ड पाठे अयमर्थश्लोको नास्ति ॥ 6-95-15 अनुशय इति पाठे पश्चात्तापः ॥ 6-95-77 प्रचस्कन्द अवततार ॥