अध्यायः 094
घटोत्कचयुद्धम् ॥ 1 ॥ सञ्जय उवाच । स्वसैन्यं निहतं दृष्ट्वा राजा दुर्योधनः स्वयम् । अभ्यधावत्सुसङ्क्रुद्धो भीमसेनमरिन्दमम् ॥ प्रगृह्य सुमहच्चापमिन्द्राशनिसमस्वनम् । महता शरवर्षेण पाण्डवं समवाकिरत् ॥ अर्धचन्द्रं च सन्धाय सुतीक्ष्णं लोमवापिनम् । भीमसेनस्य चिच्छेद चापं क्रोधसमन्वितः ॥ तदन्तरं च सम्प्रेक्ष्य त्वरमामो महारथः । प्रसन्दधे शितं बाणं गिरीणामपि दारणम् ॥ तेनोरसि महाराज भीमसेनमताडयत् । स गाढविद्धो व्यथितः सृक्विणी परिसंलिहन् ॥ समाललम्बे तेजस्वी ध्वजं हेमपरिष्कृतम् । तथा विमनसं दृष्ट्वा भीमसेनं घटोत्कचः ॥ क्रोधेनाभिप्रजज्वाल दिधक्षन्निव पावकः । अभिमन्युमुखाश्चापि पाण्डवानां महारथाः ॥ समभ्यधावन्क्रोशन्तो राजानं जातसम्भ्रमाः । सम्प्रेक्ष्य तान्सम्पततः सङ्क्रुद्धाञ्जातसम्भ्रमान् ॥ भारद्वाजोऽब्रवीद्वाक्यं तावकानां महारथान् । क्षिप्रं गच्छत भद्रं वो राजानं परिरक्षत ॥ संशयं परमं प्राप्तं मञ्जन्तं व्यसनार्णवे । एते क्रुद्धा महेष्वासाः पाण्डवानां महारथाः ॥ भीमसेनं पुरस्कृत्य दुर्योधनमुपाद्रवन् । नानाविधानि शस्त्राणि विसृजन्तो महारथाः ॥ नदन्तो भैरवान्नादांस्त्रासयन्तश्च भूमिपान् । तदाऽऽचार्यवचः श्रुत्वा सौमदत्तिपुरोगमाः ॥ तावकाः समवर्तन्त पाम्डवानामनीकिनीम् । कृपो भूरिश्रवाः शल्यो द्रोणपुत्रो विविंशतिः ॥ चित्रसेनो विकर्णश्च सैन्धवोऽथ बृहद्बलः । आवन्त्यौ च महेष्वासौ कौरवं पर्यवारयन् ॥ ते विंशतिपदं गत्वा सम्प्रहारं प्रचक्रिरे । पाण्डवा धार्तराष्ट्राश्च परस्परजिघांसवःक ॥ एवमुक्त्वा महाबाहुर्महद्विष्फार्य कार्मुकम् । भारद्वाजस्ततो भीमं षड्विंशत्या समार्पयत् ॥ भूयश्चैनं महाबाहुः शरैः शीघ्रमवाकिरत् । पर्वतं वारिधाराभिः प्रावृषीव वलाहकः ॥ तं प्रत्यविध्यद्दशभिर्भीमसेनः शिलीमुखैः । त्वरमाणो महेष्वासः सव्ये पार्श्वे महाबलः ॥ स गाढविद्धो व्यथितो वयोवृद्धश्च भारत । प्रनष्टसञ्ज्ञः सहसा रथोपस्थ उपाविशत् ॥ गुरुं प्रव्यथितं दृष्ट्वा राजा दुर्योधनः स्वयम् । द्रौणायनिश्च सङ्क्रुद्धौ भीमसेनमभिद्रुतौ ॥ तावापतन्तौ सम्प्रेक्ष्य कालान्तकयमोपमौ । भीमसेनो महाबाहुर्गदामादाय सत्वरम् ॥ अवप्लुत्य रथात्तूर्णं तस्थौ गिरिरिवाचलः । समुद्यम्य गदां गुर्वी यमदण्डोपमां रणे । तमुद्यतगदं दृष्ट्वा कैलासमिव शृङ्गिणम् । कौरवो द्रोणपुत्रश्च सहितावभ्यधावताम् ॥ तावापतन्तौ सहितौ त्वरितौ बलिनां वरौ । अभ्यधावत वेगेन त्वरमाणो वृकोदरः ॥ तमापतन्तं सम्प्रेक्ष्य सङ्क्रुद्धं भीमदर्शनम् । समभ्यधावंस्त्वरिताः कौरवाणां महारथाः ॥ भारद्वाजमुखाः सर्वे भीमसेनजिघांसया । नानाविधानि शस्त्राणि भीमस्योरस्यपातयन् ॥ सहिताः पाण्डवं सर्वे पीडयन्तः समन्ततः । तं दृष्ट्वा संशयं प्राप्तं पीड्यमानं महारथम् ॥ अभिमन्युप्रभृतयः पाण्डवानां महारथाःक । अभ्यदावन्परीप्सन्तः प्राणांस्त्यक्त्वा सुदुस्त्यजान् अनूपाधिपतिः शूरो भीमस्य दयितः सखा । नीलो नीलाम्बुदप्रख्यः सङ्क्रुद्धो द्रौणिमभ्यात् ॥ स्पर्धते हि महेष्वासो नित्यं द्रोणसुतेन सः । स विष्फार्य महच्चापं द्रौणिं विव्याध पत्रिणा ॥ यथा शक्रो महाराज पुरा विव्याध दानवम् । विप्रचित्तिं दुराधर्षं देवतानां भयङ्करम् ॥ येन लोकत्रयं क्रोधात्रासितं स्वेन तेजसाक । 'स रुद्रेण जितः पूर्वं निहतो मातरिश्वना' तथा नीलेन निर्भिन्नः सम्यङ्भुक्तेन पत्रिणा ॥ सञ्जातरुधिरोत्पीडो द्रौणिः क्रोधसमन्वितः । स विष्फार्य धनुश्चित्रमिन्द्राशनिसमस्वनम् ॥ दध्रे नीलविनाशाय मतिं मतिमतां वरः । ततः सन्धाय विमलान्भल्लान्कर्मारमार्जितान् ॥ जघान चतुरो वाहान्पातयामास च ध्वजम् । 'सूतं चैकेन भल्लेन रथनीडादपाहरत्' सप्तमेन च भल्लेन नीलं विव्याध वक्षसि ॥ स गाढविद्धो व्यथितो रथोपस्थ उपाविशत् । मोहितं वीक्ष्य राजानं नीलमश्मचयोपमम् ॥ घटोत्कचोऽभिसङ्क्रुद्धो ज्ञातिभिः परिवारितः । अभिदुद्राव वेगेन द्रौणिमाहवशोभिनम् । तथेतरे चाभ्यधावन्राक्षसा युद्धदुर्मदाः ॥ ' भीमसेनो महाबाहुर्नीलं नीलाञ्जनप्रभम् । 'आरोप्य स्वरथं वीरो दुर्योधनमपाद्रवत् ॥ घटोत्कचं च सम्प्रेक्ष्य राक्षसं घोरदर्शनम् ॥ अभ्यधावत तेजस्वी भारज्वाजात्मजस्त्वरन् ॥ निजघान च सङ्क्रुद्धो राक्षसान्भीमदर्शनान् । योऽभवन्नग्रतः क्रुद्धा राक्षसस्य पुरःसराः । विमुखांश्चैव तान्दृष्ट्वा द्रौणिचापच्युतैः शरैः ॥ अक्रुद्ध्यत महाकायो भैमसेनिर्घटोत्कचः । प्रादुश्चक्रे ततो मायां घोररूपां सुदारुणाम् ॥ मोहयन्समरे द्रौणिं मायावी राक्षसाधिपः । ततस्ते तावकाः सर्वे मायया विमुखीकृताःक ॥ अन्योन्यं समपश्यन्त निकृत्ता मेदिनीतले । विचेष्टमानाः कृपणाः शोणितेन परिप्लुताः ॥ द्रोणं दुर्योधनं शल्यमश्वत्थामानमेव च । प्रायशश्च महेष्वासा ये प्रधानाः स्म कौरवाः ॥ विध्वस्ता रथिनः सर्वे गजाश्च विनिपातिताः । हयाश्चैव हयारोहाः सन्निकृत्ताः सहस्रशः ॥ तद्दृष्ट्वा तावकं सैन्यं विद्रुतं शिबिरं प्रति । मम प्राक्रोशतो राजंस्तथा देवव्रतस्य च ॥ युध्यध्वं मा पलायध्वं मायैषा राक्षसी रणे । घटोत्कचप्रमुक्तेति नातिष्ठन्त विमोहिताः ॥ नैव ते श्रद्दधुर्भीता वदतोरावयोर्वचः । तांश्च प्रद्रवतो दृष्ट्वा जयं प्राप्ताश्च पाण्डवाः ॥ घटोत्कचेन सहिताः सिंहनादान्प्रचक्रिरे । शङ्खदुन्दुभिनिर्घोषैः समन्तान्नेदिरे भृशम् ॥ एवं तव बलं सर्वं हैडिम्बेन महात्मना । सूर्यास्तमनवेलायां प्रभग्नं विद्रुतं दिशः ॥ ॥
इति श्रीमन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि अष्टमदिवसयुद्धे चतुर्नवतितमोऽध्यायः ॥
6-94-44 द्रोणाद्रींश्चापश्यन्तेति सम्बन्धः ॥