अध्यायः 093
सङ्कुलमुद्धवर्णनम् ॥ 1 ॥ सञ्जय उवाच । विमुखीकृत्य वर्सांस्तु तावकान्युधि राक्षसः । जिघांसुभरतश्रेष्ठ दुर्योधनमुपाद्रवत् ॥ तमापतन्तं सम्प्रेक्ष्य राजानं प्रति वेगितम् । अभ्यधावञ्जिघांसन्तस्तावका युद्धदुर्मदाःक ॥ तालमात्राणि चापानि विकर्षन्तो महारथाः । तमेकमभ्यधावन्त नदन्तः सिंहसङ्घवत् ॥ अथैनं शरवर्षेण समन्तात्पर्यवाकिरन् । पर्वतं वारिधाराभिः शरदीव वलाहकाः ॥ स गाढविद्धो व्यथितस्तोत्रार्दित इव द्विपः । उत्पपात तदाऽऽकाशं समन्ताद्वैनतेयवत् ॥ व्यनदत्सुमहानादं जीमूत इव शारदः । दिशः खं विदिशश्चैव नादयन्भैरवस्वनः ॥ राक्षसस्य तु तं शब्दं श्रुत्वा राजा युधिष्ठिरः । उवाच भरतश्रेष्ठ भीमसेनमरिन्दमम् ॥ युध्यते राक्षसो नूनं धार्तराष्ट्रैर्महारथैः । यथाऽस्य श्रूयते शब्दो नदतो भैरवं स्वनम् ॥ अतिभारं च पश्यामि तस्मिन्राक्षसपुङ्गवे । पितामहश्च सङ्क्रुद्धः पाञ्चालान्हन्तुमुद्यतः ॥ तेषां च रक्षणार्थाय युध्यते फल्गुनः परैः । एतज्ज्ञात्वा महाबाहो कार्यद्वयमुपस्थितम् ॥ गच्छ रक्षस्व हैडिम्बं शंशयं परमं गतम् । भ्रातुर्वचनमाज्ञाय त्वरमाणो वृकोदरः ॥ प्रययौ सिंहनादेन त्रासयन्सर्वपार्थिवान् । वेगेन महता राजन्पर्वकाले यथोदधिःक ॥ तमन्वगात्सत्यधृतिः सौचित्तिर्युद्धदुर्मदः । श्रेणिमान्वसुदानश्च पुत्रः काश्यस्य चाभिभूः ॥ अभिमन्युमुखाश्चैव द्रौपदेया महारथाः । क्षत्रदेवश्च विक्रन्तः क्षत्रधर्मा तथैव च ॥ अनूपाधिपतिश्चैव नीलः स्वबलमास्थितः । महता रथवंशेन हैडिम्बं पर्यवारयन् ॥ कुञ्चरैश्च सदा मत्तैः षट्सहस्रैः प्रहारिभिःक । अभ्यरक्षन्त सहिता राक्षसेन्द्रं घटोत्कचम् ॥ सिंहनादेन महता नेमिघोषेण चैव ह । खुरशब्दनिपातैश्च कम्पयन्तो वसुन्धराम् ॥ तेषामापततां श्रुत्वा शब्दं तं तावकं बलम् । भीमसेनभयोद्विग्नं विवर्णवदनं तथा ॥ परिवृत्य महाराज परित्यज्य घटोत्कचम् । ततः प्रववृते युद्धङ्क तत्र तेषां महात्मनाम् ॥ तावकानां परेषां च सङ्ग्रामेष्वनिवर्तिनाम् । नानारूपाणि शस्त्राणि विसृजन्तो महारथाः ॥ अन्योन्यमभिधावन्तः सम्प्रहारं प्रचक्रिरे । व्यतिष्यक्तं महारौद्रं युद्धं भीरुभयावहम् ॥ हया हयैः समाजग्मुः पादाताश्च पदातिभिः । 'रथा रथैः समागच्छन्नागा नागैश्च संयुगे' अन्योन्यं समरे राजन्प्रार्थयानाः समभ्ययुः ॥ सहसा चाभवत्तीव्रं सन्निपातन्महद्रजः । गजाश्वरथपत्तीनां पादनेमिसमुद्धतम् ॥ धूम्रारुणं रजस्तीव्रं रणभूमिं समावृणोत् । नैव स्वे न परे राजन्समजानन्परस्परम् ॥ पिता पुत्रं न जानीते पुत्रो वा पितरं तथा । निर्मर्यादे तथाभूते वैशसे रोमहर्षणे ॥ शस्त्राणां भरतश्रेष्ठ मनुष्याणां च र्जताम् । सुमहानभवच्छब्दः प्रेतानामिव भारत ॥ गजवाजिमनुष्याणां शोणितान्रतरङ्गिणी । प्राववर्तत नदी तत्र केशशैवलशाद्वला ॥ नराणां चैव कायेभ्यः शिरसां पततां रणे । शुश्रुवे सुमहाञ्छब्दः पततामश्मनामिव ॥ विशिरस्कैर्मनुष्यैश्च छिन्नगात्रैश्च वारणैः । अश्वैः सम्भिन्नदेहैश्च सङ्कीर्णाऽभूद्वसुन्धरा ॥ नानाविधानि शस्त्राणि विसृजन्तो महारथाः । अन्योन्यमभिधावन्तः सम्प्रहारार्थमुद्यताः ॥ हया हयान्समासाद्य प्रेषिता हयसादिभिः । समाहत्य रणेऽन्योन्यं निपेतुर्गतजीविताः ॥ नरा नरान्समासाद्य क्रोधरक्तेक्षणा भृशम् । उरांस्युरोभिरन्योन्यं समाश्लिष्य निजघ्निरे ॥ प्रेषिताश्च महामात्रैर्वारणाः परवारणैः । अभ्यघ्नन्त विषणाग्रैर्वारणानेव संयुगे ॥ ते जातरुधिरोत्पीडाः पताकाभिरलङ्कृताः । संसक्ताः प्रत्यदृश्यन्त मेघा इव सविद्युतः ॥ केचिद्भिन्ना विषाणाग्रैर्भिन्नकुम्भाश्च तोमरैः । विनदन्तोऽभ्यधावन्त गर्जमाना धना इव ॥ केचिद्धस्तैर्द्विधाच्छिन्नैश्छिन्नगात्रास्तथाऽपरे । निपेतुस्तुमुले तस्मिंश्छिन्नपक्षा इवाद्रयः ॥ पार्श्वैस्तु दारितैरन्ये वारणैर्वरवारणाः । मुमुचुः शोणितं भूरि धातूनिव महीधराः ॥ नाराचनिहतास्त्वन्ये तथा विद्धाश्च तोमरैः । विनदन्तोऽभ्यधावन्त विशृङ्गा इव पर्वताः ॥ केचित्क्रोधसमाविष्टा मदान्धा निरवग्रहाः । रथान्हयान्पदातींश्च ममृदुः शतशो रणे ॥ तथा हया हयारोहैस्ताडिताः प्रासतोमरैः । तेन तेनाभ्यवर्तन्त कुर्वन्तो व्याकुला दिशः ॥ रथिनो रथिभिः सार्धं कुलपुत्रास्तनुत्यजः । परां शक्तिं समास्थाय चक्रुः कर्माण्यभीतवत् ॥ स्वयंवर इवामर्दे प्रजह्रुरितरेतरम् । प्रार्थयाना यशो राजन्स्वर्गं वा युद्धशालिनः ॥ तस्मिंस्तथा वर्तमाने सङ्ग्रामे रोमहर्षणे । धार्तराष्ट्रं महत्सैन्यं प्रययौ विमुखीकृतम् ॥ ॥
इति श्रीमन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि अष्टमदिवसयुद्धे त्रिनवतितमोऽध्यायः ॥