अध्यायः 092

घटोत्कचयुद्धवर्णनम् ॥ 1 ॥ सञ्जय उवाच । ततस्तद्बाणवर्षं तु दुःसहं दानवैरपि । दधार युधि राजेन्द्रो यथा वर्षं महाद्विपः ॥ ततः क्रोधसमाविष्टो निःश्वसन्निव पन्नगः । संशयं परमं प्राप्तः पुत्रस्ते भरतर्षभ ॥ मुमोच निशितांस्तीक्ष्णान्नाराचान्पञ्चविंशतिम् । तेऽपतन्सहसा राजंस्तस्मिन्राक्षसपुङ्गवे ॥ आशीविषा इव क्रुद्धाः पर्वते गन्धमादने । स तैर्विद्धः स्रवन्रक्तं प्रभिन्न इव कुञ्जरः ॥ दध्रे मतिं विनाशाय राज्ञः स पिशिताशनः । जग्राह च महाशक्तिं गिरीणामपि दारिणीम् ॥ सम्प्रदीप्तां महोल्काभामशनिं ज्वलितामिव । तमागच्छन्महाबाहुर्जिघांसुस्तनयं तव ॥ तामुद्यतामभिप्रेक्ष्य वङ्गानामधिपस्त्वरन् । कुञ्जरं गिरिसङ्काशं राक्षसं प्रत्यचोदयत् ॥ स नागप्रवरेणाजौ बलिना शीघ्रगामिना । यतो दुर्योधनरथस्तं मार्गं प्रत्यषेधयत् ॥ पन्थानं वारयामास कुञ्जरेण सुतस्य ते । मार्गमावारितं दृष्ट्वा राज्ञा वङ्गेन धीमता ॥ घटोत्कचो महाराज क्रोधसंरक्तलोचनः । उद्यतां तां महाशक्तिकं तस्मिंश्चिक्षेप वारणे ॥ स तयाऽभिहतो राजंस्तेन बाहुप्रमुक्तया । सञ्जातरुधिरोत्पीडः पपात च ममार च ॥ पतत्यथ गजे चापि वङ्गानामीश्वरो बली । जवेन समभिद्रुत्य जगाम धरणीतलम् ॥ दुर्योधोऽपि सम्प्रेक्ष्य पतितं वरवारणम् । प्रभग्नं च बलं दृष्ट्वा जगाम परमां व्यथाम् ॥ 'अशक्तः प्रतियोद्धुं वै दृष्ट्वा तस्य पराक्रमम् । 'क्षत्रधर्मं पुरस्कृत्य आत्मनश्चातिमानिताम् । प्राप्तेऽपक्रनये राजा तस्थौ गिरिरिवाचलः ॥ राधान च शितं बाणं कालाग्निसमतेजसम् । सुयोच धरमक्रुद्धस्तस्मिन्घोरे निशाचरे ॥ तमापतन्तं सम्प्रेक्ष्य वणिमिन्द्राशनिप्रभम् । लाघवान्मोचयामास महात्मा वै घटोत्कचः ॥ भूयश्च निननादोषं क्रोधसंरक्तलोचनः । त्रासयामास रौन्यानि युगन्ते जलदो यथा ॥ तं श्रुत्वा निनिदं घोरं तस्व भीमस्य रक्षसः । आचार्यमुसङ्गम्य भीष्मः शान्तनवोऽब्रवीत् ॥ यथैव निनन्दो घोरः श्रूयते राक्षसेरितः । हैडिम्बो युध्यते नूनं राज्ञा दुर्योधनेन च ॥ नैष शक्यो हि सङ्ग्रामे जेतुं भूतेन केनचित् । तत्र गच्छत भद्रं वो राजानं परिरक्षितुम् ॥ अभिद्रुत्य महाबाहुं राक्षसेन प्रपीडितम् । एतद्धि परमं कृत्यं सर्वेषां नः परन्तपाः ॥ पितामहवचः श्रुत्वा त्वरमाणा महारथाः । उत्तमं जवमास्थाय प्रययुर्यत्र कौरवः ॥ द्रोणश्च सोमदत्तश्च बाह्लीकोऽथ जयद्रथः । कृपो भिरिश्रवाः शल्य आवन्त्यः स बृहद्बलः ॥ अश्वत्थामा विकर्णश्च चित्रसेनो विविंशतिः । रथाश्चानेकसाहस्रा ये तेषामनुयायिनः ॥ अभिद्रुतं परीप्सन्तः पुत्रं दुर्योधनं तव । तदनीकमनाधृष्यं पालितं तु महारथैः ॥ पाततायिनमायान्तं प्रेक्ष्य राक्षससत्तमः । …कम्पत महाबाहुर्मैनाक इव पर्वतःक ॥ प्रगृह्य विपुलं चापं ज्ञातिभिः परिवारितः । शूलमुद्गरहस्तैश्च नानाप्रहरणैरपि ॥ ततः समभवद्युद्धं तुमुलं रोमहर्षणम् । राक्षसानां च मुख्यस्य दुर्योधनबलस्य च ॥ धनुषां कूजतां शब्दः सर्वतस्तुमुलो रणे । अश्रूयत महाराज वंशानां दह्यतामिव ॥ शस्त्राणां पात्यमानानां कवचेषु शरीरिणाम् । शब्दः समभवद्राजन्गिरीणामिव भिद्यताम् ॥ वीरबाहुविसृष्टानां तोमराणां विशाम्पते । रूपमासीद्वियत्स्थानां सर्पाणामिव सर्पताम् ॥ ततः परमसङ्क्रुद्धो विष्फार्य सुमहद्धनुः । राक्षसन्द्रो महाबाहुर्विनदन्भैरव रवम् ॥ आचार्यस्यार्धचन्द्रेण क्रुद्धश्चिच्छेद कार्मुकम् । सोमदत्तस्य भल्लेन ध्वजं चोन्मथ्य चानदत् ॥ बाह्लीकं च त्रिभिर्बाणैः प्रत्यविध्यत्स्तनान्तरे । कृपमेकेन विव्याध चित्रसेनं त्रिभिः शरैः ॥ पूर्णायतविसृष्टेन सम्यक्प्रणिहितेन च । जत्रुदेशे समासाद्य विकर्णं समताडयत् ॥ न्यषीदत्स्वरथोपस्थे शोणितेन परिप्लुतः । ततः पुनरमेयात्मा नाराचान्दश पञ्च च ॥ भूरिश्रवसि सङ्क्रुद्धः प्राहिणोद्भरतर्षभ । ते वर्म भित्त्वा तस्याशु विविशुर्धरणीतलम् ॥ विविंशतेश्च द्रौणेश्च यन्तारौ समताडयत् । तौ पेततू रथोपस्थे रश्मीनुत्सृज्य वाजिनाम् ॥ सिन्धुराज्ञोऽर्धचन्द्रेण वाराहं स्वर्णभूषितम् । उन्ममाथ महाराज द्वितीयेनाच्छिनद्धनुः ॥ चतुर्भिरथ नाराचैरावन्त्यस्य महात्मनः । जघान चतुरो वाहान्क्रोधसंरक्तलोचनः ॥ पूर्णायतविसृष्टेन पीतेन निशितेन च । निर्बिभेद महाराज राजपुत्रं बृहद्बलम् ॥ स गाढविद्धो व्यथितो रथोपस्थ उपाविशत् । भृशं क्रोधेन चाविष्टो रथस्थो राक्षसाधिपः ॥ चिक्षेप निशितांस्तीक्ष्णाञ्छरानाशीविषोपमान् । बिभिदुस्ते महाराज शल्यं युद्धविशारदम् ॥ ॥

इति श्रीमन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि अष्टमदिवसयुद्धे द्विनवतितमोऽध्यायः ॥