अध्यायः 090

अर्जुनात्मजेन इरावता शकुनेरनुजानां वधः ॥ 1 ॥ आर्श्चशृङ्गिनाम्ना राक्षसेन इरावतो वधः ॥ 2 ॥ सञ्जय उवाच । वर्तमाने तथा रौद्रे राजन्वीरवरक्षये । शकुनिः सौबलः श्रीमान्पाण्डवान्समुपाद्रवत् ॥ तथैव सात्वतो राजन्हार्दिक्यः परवीरहा । अभ्यद्रवत सङ्ग्रामे पाण्डवानां वरूथिनीम् ॥ ततः काम्भोजमुख्यानां नदीजानां च वाजिनाम् । आरट्टानां महीजानां सिन्धुजानां च सर्वशः ॥ वनायुजानां शुभ्राणां तथा पर्वतवासिनाम् । वाजिनां बहुभिः सङ्ख्ये समन्तात्परिवारयन् ॥ ये चापरे तित्तिरिजा जवना वातरंहसः । सुवर्णालङ्कृतैरेतैर्वर्मवद्भिः सुकल्पितैः ॥ हयैर्वातजवैर्मुख्यैः पाण्डवस्य सुतो बली । अभ्यवर्तत तत्सैन्यं हृष्टरूपः परन्तपाः ॥ अर्जुनस्य सुतः श्रीमानिरावान्नाम वीर्यवान् । सुतायां नागराजस्य जातः पार्थेन धीमता ॥ ऐरावतेन सा दत्ता अनपत्या महात्मना । पत्यौ हते सुपर्णेन कृपणा दीनचेतना ॥ कार्यार्थं तां च जग्राह पार्थः कामवशानुगाम् । एवमेष समुत्पन्नः परक्षेत्रेऽर्जुनात्मजः ॥ स नागलोके संवृद्धो मात्रा च परिरक्षितः । पितृव्येण परित्यक्तः पार्थद्वेषाद्दुरात्मना ॥ खमुत्पत्य महाराज नागराट् सत्यविक्रमः । इन्द्रलोकं जगामाशु श्रुत्वा तत्रार्जुनं गतम् ॥ सोऽभिगम्य महाबाहुः पितरं सत्यविक्रमः । अभ्यवादयदव्यग्रो विनयेन कृताञ्जलिः ॥ न्यवेदयत चात्मानमर्जुनस्य महात्मनः । इरावानस्मि भद्रं ते पुत्रश्चाहं तव प्रभो ॥ मातुः समागमो यश्च तत्सर्वं प्रत्यवेदयत् । तच्च सर्वं यथावृत्तमनुसस्मार पाण्डवः ॥ परिष्वज्य सुतं चापि आत्मनः सदृशं गुणैः । प्रीतिमाननयत्पार्थो देवराजनिवेशनम् ॥ सोऽर्जुनेन समाज्ञप्तो देवलोके तदा नृप । प्रीतिपूर्वं महाबाहुः स्वकार्यं प्रति भारत ॥ 'स चापि नरशार्दूलः शार्दूलसमविक्रमः । 'अब्रवीच्च तदा पार्थमयमस्मि तवानघ ॥ स्थितः प्रेष्यश्च पुत्रश्च सर्वथा त्वं प्रशाधि माम् । कं करोमि च ते कामं कं च कामं त्वमिच्छसि ॥ परिष्वज्य सुतं प्रेम्णा वासविः प्रत्युवाच तम् । प्रीतिपूर्वं च कार्यं च कार्या प्रीतिश्च मानदः ॥' युद्धकाले तु साहाय्यं दातव्यं नो भवेदिति । बाढमित्येवमुक्त्वा तु युद्धकाल इहागतः ॥ कामवर्णजवैरश्वैः सर्वतः शुशुभे वृतः । ते हयाः काञ्चनापीडा नानावर्णा मनोजवाः ॥ उत्पेतुः सहसा राजन्हंसा इव महोदधौ । ते त्वदीयान्समासाद्य हयसङ्घान्मनोजवान् ॥ क्रोडैः क्रोडानभिघ्नन्तो घोणाभिश्च परस्परम् । निपेतुः सहसा राजन्सुवेगाभिहता भुवि ॥ निपतद्भिस्तथा तैश्च हयसङ्घैः परस्परम् । शुश्रुवे दारुणः शब्दः सुपर्णपतने यथा ॥ तथैव तावका राजन्समेत्यान्योन्यमाहवे । परस्परवधं घोरं चक्रुस्ते हयसादिनः ॥ तस्मिंस्तथा वर्तमाने सङ्कुले तुमुले भृशम् । उभयोरपि संशान्ता हयसङ्घाः समन्ततः ॥ प्रक्षीणसायकाः शूरा निहताश्वाः श्रमातुराः । विलयं समनुप्राप्तास्तक्षमाणाः परस्परम् ॥ ततः क्षीणे हयानिके किञ्चिच्छेषे च भारत । सौबलस्यानुजाः शूरा निर्गता रणमूर्धनि ॥ वायुवेगसमस्पर्शाञ्जवे वायुसमांश्च ते । आरुह्य बलसम्पन्नान्वयःस्थांस्तुरगोत्तमान् ॥ गजो गवाक्षो वृषकश्चर्मवानार्जयः शुकः । षडेते बलसम्पन्ना निर्ययुर्महतो बलात् ॥ वार्यमाणाः शकुनिना स्वैश्च योधैर्महाबलैः । सन्नद्धा युद्धकुशला रौद्ररूपा महाबलाः ॥ तदनीकं महाबहो भित्त्वा परमदुर्जयम् । बलेन महता युक्ताः स्वर्गाय विजयैषिणः ॥ विविशुस्ते तदा हृष्टा गान्धारा युद्धदुर्मदाः । तान्प्रविष्टांस्तदा दृष्ट्वा इरावानपि वीर्यवान् ॥ अब्रवीत्समरे योधान्स्वान्विचित्रहयस्थितान् । यथैते धार्तराष्ट्रस्य योधाः सानुगवाहनाः ॥ हन्यन्ते समरे सर्वे तथा नीतिर्विधीयताम् । बाढमित्येवमुक्त्वा ते सर्वे योधा इरावतः ॥ जघ्नुस्तेषां बलानीकं दुर्जयं समरे परैः । तदनीकमनीकेन समरे वीक्ष्य पातितम् ॥ अमृष्यमाणास्ते सर्वे सुबलस्यात्मजा रणे । इरावन्तमभिद्रुत्य सर्वतः पर्यवारयन् ॥ ताडयन्तः शितैः प्रासैश्चोदयन्तः परस्परम् । ते शूराः पर्यधावन्त कुर्वन्तो महदाकुलम् ॥ इरावानथ निर्भिन्नः प्रासैस्तीक्ष्णैर्महात्मभिः । स्रवता रुधिरेणाक्तस्तोत्रैर्विद्ध इव द्विपः ॥ उरस्यपि च पृष्ठे च पार्श्वयोश्च भृशाहतः । एको बहुभिरत्यर्थं धैर्याद्राजन्न विव्यथे ॥ इरावानपि सङ्क्रुद्धः सर्वास्तान्निशितैः शरैः । मोहयामास समरे विद्ध्वा परपुरञ्जयः ॥ प्रासानुत्कृष्य तरसा स्वशरीरादरिन्दमः । तैरेव ताडयामास सुबलस्यात्मजान्रणे ॥ विकृष्य च शितं खङ्गं गृहीत्वा च शरावरम् । पदातिर्द्रुतमागच्छज्जिघांसुः सौबलान्युधि ॥ ततः प्रत्यागतप्राणाः सर्वे ते सुबलात्मजाः । भूयः क्रोधसमाविष्टा इरावन्तमभिद्रुताः ॥ इरावानपि खङ्गेन दर्शयन्पाणिलाघवम् । अभ्यवर्तत देवांश्च मानुषांश्चैव संयुगे ॥ लाघवेनाथ चरतः सर्वे ते सुबलात्मजाः । अन्तरं नाभ्यगच्छन्त चरन्तः शीघ्रगैर्हयैः ॥ भूमिष्ठमथ तं सह्ख्ये ह्यन्तरिक्षादवप्लुतम् । परिवार्य भृशं सर्वे ग्रहीतुमुपचक्रमुः ॥ अथाभ्याशगतानां तेषां गात्राण्यकृन्तत । असिहस्तोऽस्त्रहस्तानां तेषां गात्राण्यकृन्तत ॥ आयुधानि च सर्वेषां बाहूनपि विभूषितान् । अपतन्त निकृत्ताङ्गा मृता भूमौ गतासवः ॥ वृषकस्तु महाराज बहुधा विपरिक्षतः । अमुच्यत महारौद्रात्तस्माद्वीरावकर्तनात् ॥ तान्सर्वान्पतितान्दृष्ट्वा भीतो दुर्योधनस्ततः । अभ्यधावत सङ्क्रुद्धो राक्षसं घोरदर्शनम् ॥ आर्श्यशृङ्गिं महेष्वासं मायाविनमरिन्दमम् । वैरिणं भीमसेनस्य पूर्वं बकवधेन वै ॥ पश्य वीर यथा ह्येष फल्गुनस्य सुतो बली । मायावी विप्रियं कर्तुमकार्षीन्मे बलक्षयम् ॥ त्वं च कामगमस्तात मायास्त्रे च विशारदः । कृतवैरश्च पार्थेन तस्मादेनं रणे जहि ॥ बाढमित्येवमुक्त्वा तु राक्षसो घोरदर्शनः । प्रययौ सिंहनादेन यत्रार्जुनसुतो युवा ॥ स योधैर्युद्धकुशलैर्विमलप्रासयोधिभिः । वीरैः प्रहारिभिर्युक्तैः स्वैरनीकैः समावृतः ॥ [हतशेषैर्महाराज द्विसाहस्त्रैर्हयोत्तमैः] निहन्तुकामः समरे इरावन्तं महाबलम् ॥ इरावानपि सङ्क्रुद्धस्त्वरमाणः पराक्रमी हन्तुकाममयित्रघ्नो राक्षसं प्रत्यवारयत् ॥ तमापतन्तं सम्प्रेक्ष्य राक्षसः सुमहाबलः । त्वरमाणस्ततो मायां प्रयोक्तुमुपचक्रमे ॥ तेन मायामयाः सृष्टा हयास्तावन्त एव हि । स्वारूढा राक्षसैर्घोरैः शूलपट्टसधारिभिः ॥ ते संरब्धाः समागम्य द्विसाहस्राः प्रहारिणः । अचिराद्गमयामासुः प्रेतलोकं परस्परम् ॥ तस्मिंस्तु निहते सैन्ये तावुभौ युद्धदुर्मदौ । सङ्ग्रामे समतिष्ठेतां यथा वै वृत्रवासवौ ॥ आद्रवन्तमभिप्रेक्ष्य राक्षसं युद्धदुर्मदम् । इरावाथ संरब्धः प्रत्यधावन्महाबलः ॥ समभ्याशगतस्याजौ तस्य खङ्गेन दुर्मदः । चिच्छेद कार्मुकं दीप्तं शरवापं च कञ्चुकम् ॥ स निकृत्तं धनुर्दृष्ट्वा खं जवेन समाविशत् । इरावन्तमभिक्रुद्धं मोहयन्निव मायया ॥ ततोऽन्तरिक्षमुत्पत्य इरावानपि राक्षसम् । विमोहयित्वा मायाभिसत्स्य गात्रामि सायकैः ॥ चिच्छेद सर्वमर्मज्ञः कामरूपो दुरासदः । तथा स राक्षसश्रेष्ठः शरैः कृत्तः पुनः पुनः ॥ सम्बभूव महाराज समवाप च यौवनम् । माया हि सहराज समवाप च यौवनम् ॥ एवं तद्राक्षसस्याङ्गं छिन्नञ्छिन्नं व्यरोहत । इरावानपि सङ्क्रुद्धो राक्षसं त महाबलम् ॥ परश्वथेन तीक्ष्णेन चिच्छेद च पुनः पुनः । स तेन बलिना वीरश्छिद्यमान इव द्रुमः ॥ राक्षसो व्यनदद्धोरं स शब्दस्तुमुलोऽभवत् । परश्वथक्षतं रक्षः सुस्राव बहुशोणितम् ॥ ततश्रुक्रोध बलवांश्चक्रे वेगं च संयुगे । आर्श्यशृङ्गिस्ततो दृष्ट्वा समरे शत्रुमूर्चितम् ॥ कृत्वा घोरं महद्रूपं ग्रहीतुमुपचक्रमे । अर्जुनस्य सुतं वीरमिरावन्तं यशस्विनम् ॥ सङ्ग्रामशिरसो मध्ये सर्वेषां तत्र पश्यताम् । तां दृष्ट्वा तादृशीं मायां राक्षसस्य दुरात्मनः ॥ इरावानपि सङ्क्रुद्धो मायां स्रष्टुं प्रचक्रमे । तस्य क्रोधाभिभूतस्य समरेष्वनिवर्तिनः ॥ योऽन्वयो मातृकस्तस्य स एनमभिपेदिवान् । स नागैर्बहुभी राजन्निरावान्संवृतो रणे ॥ दधार सुमहद्रूपमनन्त इव भोगवान् । ततो बहुविधैर्नागैश्छादयामास राक्षसम् ॥ छाद्यमानस्तु नागैः स ध्यात्वा राक्षसपुङ्गवः । सौपर्णं रूपमास्थाय भक्षयामास पन्नगम् ॥ मायया भक्षिते तस्मिन्नन्वये तस्य मातृके । विमोहितमिरावन्तं न्यहनद्राक्षसोऽसिना ॥ सकुण्डलं समुकुटं पद्मेन्दुसदृशप्रभम् । इरावतः शिरो रक्षः पातयामास भूतले ॥ तस्मिंस्तु निहते वीरे राक्षसेनार्जुनात्मजे । विशोकाः समपद्यन्त धार्तराष्ट्राः सराजकाः ॥ तस्मिन्महति सङ्ग्रामे तादृशे भैरवे पुनः । महान्व्यतिकरो घोरः सेनयोः समपद्यत ॥ गजा हयाः पदाताश्च विमिश्रा दन्तिभिर्हताः । रथाश्वा दन्तिनश्चैव पत्तिभिस्तत्र सूदिताः ॥ तथा पत्तिरथौघाश्च हयाश्च बहवो रणे । रथिभिर्निहता राजंस्तव तेषां च सङ्कुले ॥ अजानन्नर्जुनश्चापि निहतं पुत्रमौरसम् । जघान समरे शूरान्राज्ञस्तान्भीष्मरक्षिणः ॥ तथैव तावका राजन्सृञ्जयाश्च सहस्रशः । जुह्वतः समरे प्राणान्निजघ्रुरितरेतरम् ॥ मुक्तकेशा विकवचा विरथाश्छिन्नकार्मुकाः । बाहुभिः समयुध्यन्त समवेताः परस्परम् ॥ तथा मर्मातिगैर्भीष्मो निजघान महारथान् । कम्पयन्समरे सेनां पाण्डवानां परन्तपः ॥ तेन यौधिष्ठिरे सैन्ये बहवो मानवा हताः । दन्तिनः सादिनश्चैव रथिनोऽथ हयास्तथा ॥ तत्र भारत भीष्मस्य रणे दृष्ट्वा पराक्रमम् । अत्यद्भुतमपश्याम शक्रस्येव पराक्रमम् ॥ तथैव भीमसेनस्य पार्षतस्य च भारत । रौद्रमासीद्रणे युद्धं सात्यकस्य च धन्विनः ॥ दृष्ट्वा द्रोणस्य विक्रान्तं पाण्डवान्भयमाविशत् । एक एव रणे शक्तो निहन्तुं सर्वसैनिकान् ॥ किं पुनः पृथिवीशूरैर्योधव्रातैः समावृतः । इत्यब्रुवन्महाराज रणे द्रोणेन पीडिताः ॥ वर्तमाने तथा रौद्रे सङ्ग्रामे भरतर्षभ । उभयोः सेनयोः शूरा नामृष्यन्त परस्परम् ॥ आविष्टा इव युध्यन्ते रक्षोभूतैर्महाबलैः । तावकाः पाण्डवेयाश्च संरब्धास्तात धन्विनः ॥ न स्म पश्यामहे कञ्चित्प्राणान्यः परिरक्षति । दैवासुराभे समरे तस्मिन्योधा नराधिप ॥ ॥

इति श्रीमन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि अष्टमदिवसयुद्धे नवतितमोऽध्यायः ॥

6-90-3 वाजिनां वेगवतां वाजिनामश्वानां बहुभिर्गणैः परिवारयन्निति गणशब्दाध्याहारेण द्वयोः सम्बन्धः ॥ 6-90-6 पाण्डवस्यार्जुनस्य सुत इरावान् ॥ 6-90-7 नागराजस्य ऐरावतस्य ॥ 6-90-10 पितृव्येण अश्वसेनेन ॥ 6-90-57 अयमर्धः श्लोको दाक्षिणात्यकोशेषु नास्ति खo झo पुस्तकयोरस्ति ॥ 6-90-95 आविष्टाः ग्रहाद्याविष्टाः ॥