अध्यायः 089

धृतराष्ट्रेण पुत्रवधश्रवणात् शोचनम् ॥ 1 ॥ धृतराष्ट्र उवाच । दृष्ट्वा मे निहतान्पुत्रान्बहूनेकेन सञ्जय । भीष्मो द्रोणः कृपश्चैव किमकुर्वत संयुगे ॥ अहन्यहनि मे पुत्राः क्षयं गच्छन्ति सञ्जय । मन्येऽहं सर्वथा पुत्रान्दैवेनोपहतान्भृशम् ॥ यत्र मे तनयाः सर्वे जीयन्ते न जयन्त्युत । यत्र भीष्मस्य द्रोणस्य कृपस्य च महात्मनः ॥ सौमदत्तेश्च वीरस्य भगदत्तस्य चोभयोः । अश्वत्थाम्नस्तथा तात शूराणामनिवर्तिनाम् ॥ अन्येषां चैव शूराणां मध्यगास्तनया मम । यदहन्यन्त सङ्ग्रामे किमन्यद्भागधेयतः ॥ न हि दुर्योधनो मन्दः पुरा प्रोक्तमबुध्यत । वार्यमाणो मया तात भीष्मेण विदुरेण च ॥ गन्धार्या चैव दुर्मेधाः सततं हितकाम्यया । नाबुध्यत पुरा मोहात्तस्य प्राप्तमिदं फलम् ॥ यद्भीमसेनः समरे पुत्रान्मम विचेतसः । अहन्यहनि सङ्क्रुद्धो नयते यमसादनम् ॥ इदं तत्समनुप्राप्तं क्षत्तुर्वचनमुत्तमम् । न बुद्धवानस्मि विभो प्रोच्यमानमिदं तदा ॥ निवारय सुतं द्यूतात्पाण्डवान्मा द्रुहेति च । सुहृदां हितकामानां ब्रुवतां तत्तदेव च ॥ न शृणोमि पुरा वाक्यं मर्त्यः पथ्यमिवौषधम् । तदिदं समनुप्राप्तं वचनं साधु भाषितम् ॥ विदुरद्रोणभीष्माणां तथाऽन्येषां हितैषिणाम् । अकृत्वा वचनं पथ्यं क्षयं गच्छन्ति कौरवाः ॥ तदेतत्समतिक्रान्तं पूर्वमेव हि सञ्जय । तस्मान्मे वद तत्त्वेन यथा युद्धमवर्तत ॥ सञ्जय उवाच । मध्याह्ने मुमहारौद्रः सङ्ग्रामः समुपद्यत । लकक्षयकरो राजंस्तन्मे निगदतः शृणु ॥ ततः सर्वाणि सैन्यानि धर्मपुत्रस्य शासनात् । संरब्धान्यभ्यवर्तन्त भीष्ममेव जिघांसया ॥ धृष्टद्युम्नः शिखण्डी च सात्यकिश्च महारथः । युक्तानीका महाराज भीष्ममेव समभ्ययुः ॥ विराटो द्रुपदश्चैव सहिताः सर्वसोमकैः । अभ्यद्रवन्त सङ्ग्रामे भीष्ममेव महारथम् ॥ केकया धृष्टकेतुश्च कुन्तिभोजश्च दंशितः । शुक्तानीका महाराज भीष्ममेव समभ्ययुः ॥ अर्जुनो द्रौपदश्चैव कुन्तिभोजश्च दंशितः । दुर्योधनसमादिष्टान्राज्ञः सर्वान्समभ्ययुः ॥ अभिमन्युस्तथा शूरो हैडिम्बश्च महारथः । भीमसेनश्च सङ्क्रुद्धस्तेऽभ्यधावन्त कौरवान् ॥ त्रिधाभूतैरवध्यन्त पाण्डवैः कौरवा युधि । तथैव कौरवै राजन्नवध्यन्त परे रणे ॥ द्रोणस्तु रथिनां श्रेष्ठः सोमकान्सृञ्जयैः सह । अभ्यधावत सङ्क्रुद्धः प्रेषयिष्यन्यमक्षयम् ॥ तत्राक्रन्दो महानासीत्सृञ्जयानां महात्मानाम् । वध्यतां समरे राजन्भारद्वाजेन धन्विना ॥ द्रोणेन निहतास्तत्र क्षत्रिया बहवो रणे । विचेष्टन्तो हृदृश्यन्त व्याधिक्लिष्टा वरा इव ॥ कूजतां क्रन्दतां चैव स्तनतां चैव भारत । अनिशं शुश्रुवे शब्दः क्षुत्क्लिष्टानां नृणामिव ॥ तथैव कौरवेयाणां भीमसेनो महाबलः । चकार कदनं घोरं क्रुद्धः काल इवापरः ॥ वध्यतां तत्र सैन्यानामन्योन्येन महारणे । प्रावर्तत नदी घोरा रुधिरौघपरवाहिनी ॥ स सङ्ग्रामो महाराज घोररूपोऽभवन्महान् । कुरूणां पाणडवानां च यमराष्ट्रविवर्धनः ॥ ततो भीमो रणे क्रुद्धो रभसश्च विशेषतः । गजानीकं समासाद्य प्रेषयामास मृत्यवे ॥ तत्र भारत भीमेन नाराचाभिहता गजाः । पेतुर्नेदुश्च सेदुश्च दिशश्च परिबभ्रमुः ॥ छिन्नहस्ता महानागाश्छिन्नगात्राश्च मारिष । क्रौञ्चवद्व्यनदन्भीताः पृथिवीमधिशेरते ॥ नकुलः सहदेवश्च हयानीकमभिद्रुतौ । ते हयाः काञ्चनापीडा रुक्मभाण्डपरिच्छदाः ॥ वध्यमाना व्यदृश्यन्त शतशोऽथ सहस्रशः । पतिद्भिस्तुरगै राजन्समास्तीर्यत मेदिनी ॥ निर्जिह्वैश्च श्वसद्भिश्च कूजद्भिश्च गतासुभिः । हयैर्बभौ नरश्रेष्ठ नानारूपधरैर्धरा ॥ अर्जुनेन हतैः सङ्ख्ये तथा भारत राजभिः । प्रबभौ वसुधा घोरा तत्रतत्र विशाम्पते ॥ रथैर्भग्नैर्ध्वजैश्छिन्नैर्निकृत्तैश्च महायुधैः । चामरैर्व्यजनैश्चैव च्छत्रैश्च सुमहाप्रभैः ॥ हरैर्निष्कैः सकेयूरैः शिरोभिश्च सकुण्डलैः । उष्णीषैरपविद्धैश्च पताकाभिश्च सर्वशः ॥ अनुकर्षैः शुभै राजन्योक्रैश्चैव सरश्मिभिः । सङ्कीर्णा वसुधा भाति वसन्ते कुसुमैरिव ॥ एवमेष क्षयो वृत्तः पाण्डूनामपि भारत । क्रुद्धे शान्तनवे भीष्मे द्रोणे च रथसत्तमे ॥ अश्वत्थाम्नि कृपे चैव तथैव कृतवर्मणि । तथेतरेषु क्रुद्धेषु तावकानामपि क्षयः ॥ ॥

इति श्रीमन्महाभरते भीष्मपर्वणि भीष्मवधपर्वणि अष्टमदिवसयुद्धे एकोननवतितमोऽध्यायः ॥

6-89-25 कूजतां अव्यक्तं ध्वनताम् । स्तनतां उच्चैः शब्दायमानानाम् ॥ 6-89-37 निष्कैरुरोभूषणैः ॥ 6-89-38 योक्रैरीषायोजनरज्जुभिः रश्मिभिरश्वबन्धनरज्जुभिः ॥