अध्यायः 088

भीमेन सुनाभादिदुर्योधनानुजाष्टकहननम् ॥ 1 ॥ सञ्जय उवाच । भीष्मं तु समरे क्रुद्धं प्रतपन्तं समन्ततः । न शेकुः पाण्डवा द्रष्टुं तपन्तमिव भास्करम् ॥ ततः सर्वाणि सैन्यानि धर्मपुत्रस्य शासनात् । अभ्यद्रवन्त गाङ्गेयं मर्दयन्तं शितैः शरैः ॥ स तु भीष्मो रणश्लाघी तोमकान्सहसृज्जयान् । पाञ्चालांश्च महेष्वासान्पातयामास सायकैः ॥ ते वध्यमाना भीष्मेण पाञ्चालाः पाण्डवैः सह । भीष्ममेवाभ्ययुस्तूर्णं त्यक्त्वा मृत्युकृतं भयम् ॥ स तेषां रथिनां वीरो भीष्मः शान्तनवो युधि । चिच्छेद सहसा राजन्बाहूनथ शिरांसि च ॥ विरथान्रथिनश्चक्रे पिता देवव्रतस्तव । पतितान्युत्तमाङ्गानि हयेभ्यो हयसादिनाम् ॥ निर्मनुष्यांश्च मातङ्गाञ्शयानान्पर्वतोपमान् । अपश्याम महाराज भीष्मास्त्रेण प्रमाथितान् ॥ न तत्रासीत्पुमान्कश्चित्पाण्डवानां विशाम्पते । अन्यत्र रथिनां श्रेष्ठद्भीमसेनान्महाबलात् ॥ स हि भीष्मं समासाद्य छादयामास सायकैः । ततो निष्टानको घोरो भीष्मभीमसमागमे ॥ बभूव सर्वसैन्यानां घोररूपो भयानकः । तथैव पाण्डवा हृष्टाः सिंहनादमथानदन् ॥ ततो दुर्योधनो राजा सोदर्यैः परिवारितः । भीष्मं जुगोप समरे वर्तमाने जनक्षये ॥ भीमस्तु सारथिं हत्वा भीष्मस्य रथिनां वरः । प्रद्रुताश्वे रथे तस्मिन्द्रवमाणे समन्ततः ॥ सुनाभस्य शरेणाशु शिरश्चिच्छेद भारत । क्षुरप्रेण सुतीक्ष्णेन स हतो न्यपतद्भुवि ॥ हते तस्मिन्महाराज तव पुत्रे महारथे । नामृष्यन्त रणे शूराः सोदराः सप्त संयुगे ॥ आदित्यकेतुर्बह्वाशी कुण्डधारो महोदरः । अपराजितः पण्डितको विशालाक्षः सुदुर्जयः ॥ पाण्डवं चित्रसन्नाहा विचित्रकवचध्वजाः । अभ्यद्रवन्त सङ्ग्रामे योद्धुकामारिमर्दनाः ॥ महोदरस्तु समरे भीमं विव्याध पत्रिभिः । नवभिर्वद्रसङ्काशैर्नमुचिं वृत्रहा यथा ॥ आदित्यकेतुः सप्तत्या बह्वाशी चापि पञ्चभिः । नवत्या कुण्डधारश्च विशालाक्षश्च पञ्चभिः ॥ अपराजितो महाराज पराजिष्णुर्महारथम् । शरैर्बहुभिरानर्च्छद्भीमसेनं महाबलम् ॥ रणे पण्डितकश्चैनं त्रिभिर्बाणैः समार्पयत् । स तं न ममृषे भीमः शत्रुभिर्वधमाहवे ॥ धनुः प्रपीड्य वामेन करेणामित्रकर्सनः । शिरश्चिच्छेद समरे शरेणानतपर्वणा ॥ अपराजितस्य सुनसं तव पुत्रस्य संयुगे । पराजितस्य भीमेन कृत्तं गामपतच्छिरः ॥ अथापरेण भल्लेन कुण्डधारं महारथम् । प्राहिणोन्मृत्युलोकाय सर्वलोकस्य पश्यतः ॥ ततः पुनरमेयात्मा प्रसन्धाय शिलीमुखम् । प्रेषयामास समरे पण्डितं प्रति भारत ॥ स शरः पण्डितं हत्वा विवेश धरणीतलम् । यथा नरं निहत्याशु भुजगः कालचोदितः ॥ विशालाक्षशिरश्छित्त्वा पातयामास भूतले । त्रिभिः शरैरदीनात्मा स्मरन्क्लेशं पुरातनम् ॥ महोदरं महेष्वासं नाराचेन स्तनान्तरे । विव्याध समरे राजन्स हतो न्यपतद्भुवि ॥ आदित्यकेतोः केतुं च च्छित्त्वा बाणेन संयुगे । भल्लेन भृशतीक्ष्णेन शिरश्चिच्छेद भारत ॥ बह्वाशिनं तत भीमः शरेणानतर्वणा । प्रेषयामास सङ्क्रुद्धो यमस्य सदनं प्रति ॥ प्रदुद्रुवुस्ततस्तेऽन्ये पुत्रास्तव विशाम्पते । मन्यमाना हि तत्सत्यं सभायां तस्य भाषितम् ॥ ततो दुर्योधनो राजा भ्रातृव्यसनकर्शितः । अब्रवीत्तावकान्योधान्भीमोऽयं वध्यतामिति ॥ एवमेते महेष्वासाः पुत्रास्त्व विशाम्पते । भ्रातॄन्सन्दृश्य निहतान्प्रस्मरंस्ते हि तद्वचः ॥ यदुक्तवान्महाप्राज्ञः क्षत्ता हितमनामयम् । तदिदं समनुप्राप्तं वचनं दिव्यदर्शिनः ॥ लोभमोहसमाविष्टः पुत्रप्रीत्या जनाधिप । न बुध्यसे पुरा यत्तत्तथ्यमुक्तं वचो महत् ॥ तथैव च वधार्थाय पुत्राणां पाण्डवो बली । नूनं जातो महाबाहुर्यथा हन्ति स्म कौरवान् ॥ ततो दुरयोधनो राजा भीष्ममासाद्य संयुगे । दुःखेन महताऽऽविष्टो विललाप सुदुःखितः ॥ निहता भ्रातरः शूरा भीमसेनेन मे युधि । यतमानास्तथान्येऽपि हन्यन्ते सर्वसैनिकाः ॥ भवांश्च मध्यस्थतया नित्यमस्मानुपेक्षते । सोऽहं कुपथमारूढः पश्य दैवमिदं मम ॥ एतच्छ्रुत्वा वचः क्रूरं पिता देवव्रतस्तव । दुर्योधनमिदं वाक्यमब्रवीत्समाश्रुलोचनः ॥ उक्तमेतन्मया पूर्वं द्रोणेन विदुरेण च । गान्धार्या च यशस्विन्या तत्त्वं तात न बुद्धवान् ॥ समयश्च मया पूर्वं कृतो वै शत्रुकर्शन । नाहंयुधि नियोक्तव्यो नाप्याचार्यः कथञ्चना ॥ यय हि धर्तराष्ट्राणां भीमो द्रक्ष्यति संयुगे । हनिष्यति रणे नित्यं सत्यमेतद्ब्रवीमि ते ॥ स त्वं राजन्स्थिरो भूत्वा रणे कृत्वा दृढां मतिम् । योधयस्व रणे पार्थान्स्वर्गं कृत्वा परायणम् ॥ न शक्यः पाण्डवा जेतुं सेन्द्रैरपि सुरासुरैः । तस्माद्युद्धे स्थिरां कृत्वा मतिं युद्ध्यस्व भारत ॥ ॥

इति श्रीमन्महाभरते भीष्मपर्वणि भीष्मवधपर्वणि अष्टमदिवसयुद्धे अष्टाशीतितमोऽध्यायः ॥