अध्यायः 087

उभयसेनयोर्व्यूहरचनापूर्वकं परस्पराभियानम् ॥ 1 ॥ सञ्जय उवाच । परिणाम्य निशां तां तु सुखसुप्ता जनेश्वराः । कुरवः पाण्डवाश्चैव पुनर्युद्धाय निर्ययुः ॥ ततः शब्दो महानासीत्सेनयोरुभयोर्नृप । निर्गच्छमानयोः सङ्ख्ये यथा सागरयोरिव ॥ ततो दुर्योधनो राजा चित्रसेनो विविंशतिः । भीष्मश्च रथिनां श्रेष्ठो भारद्वाजश्च वै द्विजः ॥ एकीभूताः सुसंयत्ताः कौरवाणां महाचमूम् । व्यूहाय विदधू राजन्पाण्डवान्प्रतिदंशितान् ॥ कूर्मव्यूहं ततः कृत्वा पिता तव विशाम्पते । सागरप्रतिमं घोरं वाहनोर्मितरङ्गिणम् ॥ अग्रतः सर्वसैन्यानां भीष्मः शान्तनवो ययौ । मालवैर्दाक्षिणात्यैश्च आवन्त्यैश्च समन्वितः ॥ ततोऽनन्तरमेवासीद्भारद्वाजः प्रतापवान । पुलिन्दैः पारदैश्चैव तथा क्षुद्रकमालवैः ॥ द्रोणादनन्तरं यत्तो भगदत्तः प्रतापवान् । मगधैश्च कलिङ्गैश्च पिशाचैश्च विशाम्पते ॥ प्राग्ज्योतिषादनु नृपः कौसल्योऽथ बृहद्बलः । मेकलैः कुरुविन्दैश्च त्रैपुरैश्च समन्विताः ॥ बृहद्बलादनु नृपस्त्रिगर्तः प्रस्थलाधिपः । काम्भोजैर्बहुभिः सार्धं यवनैश्च सहस्रशः ॥ द्रौणिस्तु रभसः शूरस्त्रैगर्तादनु भारत । प्रययौ सिंहनादेन नादयानो धरातलम् ॥ तथा सर्वेण सैन्येन राजा दुर्योधनस्तदा । द्रौणेरनन्तरं प्रायात्सोदर्यैः परिवारितः ॥ दुर्योधनादनु ततः कृपः शारद्वतो ययौ । एवमेष महाव्यूहः प्रययौ सागरोपमः ॥ रेजुस्तत्र पताकाश्च श्वेतच्छत्राणि भारत । अङ्गदान्यत्र चित्राणि महार्हाणि धनूंषि च ॥ तं तु दृष्ट्वा महाव्यूहं तावकानां महारथः । युधिष्ठिरोऽब्रवीत्तूर्णं पार्षतं पृतनापतिम् ॥ पश्य व्यूहं महेष्वास निर्मितं सागरोपमम् । प्रतिव्यूहं रणे शूर कुरु क्षिप्रं महारथ ॥ ततः स पार्षतः क्रूरो व्यूहं चक्रे सुदारुणम् । श्रृङ्गाटकं महाराज परव्यूहविनाशनम् ॥ श्रृङ्गाभ्यां भीमसेनश्च सात्यकिश्च महारथः । रथैरनेकसाहस्रैस्तथा हयपदातिभिः ॥ नाभावभून्नरश्रेष्ठः श्वेताश्वः कृष्णसारथिः । मध्ये युधिष्ठिरो राजा माद्रीपुत्रौ च पाण्डवौ ॥ अथेतरे महेष्वासाः सहसैन्या नराधिपाः । व्यूहं तं पूरयामासुर्व्यूहशास्त्रविशारदाः ॥ एवमेतं महाव्यूहं व्यूह्य भारत पाण्डवाः । अतिष्ठन्समरे शूरा योद्धुकामा जयैषिणः ॥ भेरीशब्दैश्च विमलैर्विमिश्रैः शङ्खनिःस्वनैः । क्ष्वेडितास्फोटितोत्क्रुष्टैर्नादिताः सर्वतो दिशः ॥ ततः शूराः समासाद्य समरे ते परस्परम । नेत्रैरनिमिषै राजन्नवैक्षन्त परस्परम् ॥ 'मनोभिस्ते मनुष्येन्द्र युद्धं योधाः प्रचक्रिरे । 'पुनराहूय तेऽन्योन्यं शरीरैरपि चक्रिरे ॥ ततः प्रववृते युद्धं घोररूपं भयावहम् । तावकानां परेषां च निघ्नतामितरेतरम् ॥ नाराचा निशिताः सङ्ख्ये सम्पतन्ति स्म भारत । व्यात्तानना भयकरा उरगा इव सङ्घशः ॥ निष्पेतुर्विमलाः शक्त्यस्तैलधौताः सुतेजनाः । अम्बुदेभ्यो यथा राजन्भ्राजमानाः शतह्रदाः ॥ गदाश्च विमलैः पट्टैः पिनद्धाः स्वर्णभूषिताः । पतन्त्यस्तत्र दृस्यन्ते गिरिशृङ्गोपमाः शुभाः ॥ निस्त्रिंशाश्च व्यदृश्यन्त विमलाम्बरसन्निभाः । आर्षभाणि च चर्माणि शतचन्द्राणि भारतत ॥ अशोभन्त रणे राजन्पात्यमानानि सर्वशः । तेऽन्योन्यं समरे सेने युध्यमाने नराधिप ॥ अशोभेतां यथा देवदैत्यसेने समुद्यते । अभ्यद्रवन्त समरे तेऽन्योन्यं वै समन्ततः ॥ रथास्तु रथिभिस्तूर्णं प्रेषिताः परमाहवे । युगैर्युगानि संश्लिष्य युयुधुः पार्थिवर्षभाः ॥ दन्तिनां युध्यमानानां सङ्घर्षात्पावकोऽभवत् । दन्तेषु भरतश्रेष्ठ सधूमः सर्वतो दिशम् ॥ प्रासैरभिहताः केचिद्गजयोधाः समन्ततः । पतमानाः स्म दृश्यन्ते गिरिशृङ्गान्नगा इव ॥ पादाताश्चाप्यदृश्यन्त निघ्नन्तोऽथ परस्परम् । चित्ररूपधराः शूरा नखरप्रासयोधिनः ॥ अन्योन्यं ते समासाद्य कुरुपाण्डवसैनिकाः । अस्त्रैर्नानाविधैर्घोरै रणे निन्युर्यमक्षयम् ॥ ततः शान्तनवो भीष्मो रथघोषेण नादयन् । अभ्यागमद्रणे पार्थान्धनुःशब्देन मोहयन् ॥ पाण्डवानां रथाश्चापि नदन्तो भैरवं स्वनम् । अभ्यद्रवन्त संयत्ता धृष्टद्युम्नपुरोगमाः ॥ ततः प्रववृते युद्धं तव तेषां च भारत । नराश्वरथनागानां व्यतिषक्तं परस्परम् ॥ ॥

इति श्रीमन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि अष्टमदिवसयुद्धे सप्ताशीतितमोऽध्यायः ॥