अध्यायः 086
सङ्कुलयुद्धवर्णनम् ॥ 1 ॥ सञ्जय उवाच । विरथं तं समासाद्य चित्रसेनं यशस्विनम् । रथमारोपयामास विकर्णस्तनयस्तव ॥ तस्मिंस्तथा वर्तमाने तुमुले सङ्कुले भृशम् । भीष्मः शान्तनवस्तूर्णं युधिष्ठिरमुपाद्रवत् ॥ ततः सरथनागाश्वाः समकम्पन्त सृञ्जयाः । मृत्योरास्यमनुप्राप्तं मेनिरे च युधिष्ठिरम् ॥ युधिष्ठिरोऽपि कौरव्यो यमाभ्यां सहितः प्रभुः । महेष्वासं नरव्याघ्रं भीष्मं शान्तनवं ययौ ॥ ततः शरसहस्राणि प्रमुञ्चन्पाण्डवो युधि । भीष्मं सञ्छादयामास यथा मेघो दिवाकरम् ॥ तेन सम्यक्प्रणीतानि शरजालानि मारिष । प्रतिजग्राह गाङ्गयः शतशोऽथ सहस्रशः ॥ तथैव शरजालानि भीष्मोणास्तानि मारिष । आकाशे समदृश्यन्त स्वगमानां व्रजा इव ॥ निमेषार्धेन कौन्तेयं भीष्मः शान्तनवो युधि । अदृश्यं समरे चक्रे शरजालेन भारत ॥ ततो युधिष्ठिरे राजा कौरव्यस्य महात्मनः । नाराचं प्रेषयामास क्रुद्ध आशीविषोपमम् ॥ असम्प्राप्तं ततस्तं तु क्षुरप्रेण महारथः । चच्छेद समरे राजन्भीष्मस्तस्य धनुश्च्युतम् ॥ तं तु च्छित्वा रणे भीष्मो नाराचं कलसम्मितम् । नजघ्ने कौरवेन्द्रस्य हयान्काञ्चनभूषणान् ॥ हताश्वं तु रथं त्यक्त्वा धर्मपुत्रो युधिष्ठिरः । आरुरोह रथं तूर्णं नकुलस्य महात्मनःक ॥ यमावपि हि सङ्क्रुद्धः समासाद्य रणे तदा । शरैः सञ्छादयामास भीष्मः परपुरञ्जयः ॥ तौ तु दृष्ट्वा महाराज भीष्मबाणप्रपीडितौ । जगाम परमां चिन्तां भीष्मस्य वधकाङ्क्षया ॥ ततो युधिष्ठिरो वश्यान्राज्ञस्तान्समचोदयत् । भीष्मं शान्तनवं सर्वे निहतेति सुहृद्गणान् ॥ ततस्ते पार्थिवाः सर्वे श्रुत्वा पार्थस्य भाषितम् । महता रथवंशेन परिवव्रुः पितामहम् ॥ स समन्तात्परिवृतः पिता देवव्रतस्तव । चिक्रीड धनुषा राजन्पातयानो महारथान् ॥ तं चरन्तं रणे पार्था ददृशुः कौरवं युधि । मृगमध्यं प्रविश्येव यथा सिंहशिशुं वने ॥ तर्जयानं रमे वीरांस्त्रासयानं च सायकैः । दृष्ट्वा त्रेसुर्महाराज सिंहं मृगगणा इव ॥ रणे भारत सिंहस्य ददृशुः क्षत्रिया गतिम् । अग्नेर्वायुसहायस्य यथा कक्षं दिधक्षतः ॥ शिरांसि रथिनां भीष्मः पातयामास संयुगे । तालेभ्यः परिपक्वानि फलानि कुशलो नरः ॥ पतद्भिश्च महाराज शिरोभिर्धरणीतले । बभूव तुमुलः शब्दः पततामश्मनामिव ॥ तस्मिन्सुतुमुले युद्धे वर्तमाने भयानके । सर्वेषामेव सैन्यानामासीद्व्यतिकरो महान् ॥ भिन्नेषु तेषु व्यूहेषु क्षत्रिया इतरेतरम् । एकमेकं समाहूय युद्धायैवावतस्थिरे ॥ शिखण्डी तु समासाद्य भरतानां पितामहम् । अभिदुद्राव वेगेन तिष्ठतिष्ठेति चाब्रवीत् ॥ अनादृत्य ततो भीष्मस्तं शिखण्डिनमाहवे । प्रययौ सृञ्जयान्क्रुद्धः स्त्रीत्वं तस्य विचिन्तयन् ॥ सृञ्जयास्तु ततो दृष्ट्वा हृष्टं भीष्म महारणे । सिंहनादांश्च विविधांश्चक्रुः शङ्खविमिश्रितान् ॥ ततः प्रववृते युद्धं व्यतिषक्तरथद्विपम् । पश्चिमां दिशमासाद्य स्थिते सवितरि प्रभो ॥ धृष्टद्युम्नोऽथ पाञ्चाल्यः सात्यकिश्च महारथः । पीडयन्तौ भृशं सैन्यं शक्तितोमरवृष्टिभिः ॥ शस्त्रैश्च बहुभी राजञ्जघ्नतुस्तावकान्रणे । ते हन्यमानाः समरे तावका भरतर्षभ ॥ आर्यां युद्धे मतिं कृत्वा न त्यजन्ति स्म संयुगम् । यथोत्साहं तु समरे निजघ्नुस्तावका रणे ॥ तत्राक्रन्दो महानासीत्तावकानां महात्मानाम् । वध्यतां समरे राजन्पार्षतेन महात्मना ॥ तं श्रुत्वा निनदं घोरं तावकानां महारथौ । विन्दानुविन्दावावन्त्यौ पार्षतं प्रत्युपस्थितौ ॥ तौ तस्य तुरगान्हत्वा त्वरमाणौ महारथौ । छादयामासतुरुभौ शरवर्षेण पार्षतम् ॥ अवप्लुत्याथ पाञ्चाल्यो रथात्तूर्णं महाबलः । आरुरोहक रथं तूर्णं सात्यकेस्तु महात्मनः ॥ ततो युधिष्ठिरो राजा महत्या सेनया वृतः । आवन्त्यौ समरे क्रुद्धावभ्ययात्स परन्तपौ ॥ तथैव तव पुत्रोऽपि सर्वोद्योगेन मारिष । विन्दानुविन्दौ समरे परिवार्यावतस्थिवान् ॥ अर्जुनश्चापि सङ्क्रुद्धः क्षत्रियान्क्षत्रियर्षभः । अयोधयत सङ्ग्रामे वज्रपाणिरिवासुरान् ॥ द्रोणास्तु समरे क्रुद्धः पुत्रस्य प्रियकृत्तव । व्यधमत्सर्वपाञ्चालांस्तूलराशिमिवानलः ॥ दुर्योधनपुरोगास्तु पुत्रास्तव विशाम्पते । परिवार्य रणे भीष्मं युयुधुः पाण्डवैः सह ॥ ततो दुर्योधनो राजा लोहितायति भास्करे । अब्रवीत्तावकान्सर्वांस्त्वरध्वमिति भारत ॥ युध्यतां तु तथा तेषां कुर्वतां कर्म दुष्करम् । अस्तं गिरिमथारूढे अप्रकाशति भास्करे ॥ प्रावर्तत नदी घोरा शोणितौघतरङ्गिणी । गोमायुगणसङ्कीर्णा क्षणेन क्षणदामुखे ॥ शिवाभिरशिवाभिश्च रुवद्भिर्भैरवं रवम् । घोरमायोधनं जज्ञे भूतसङ्घैः समाकुलम् ॥ राक्षसाश्च पिशाचाश्च तथान्ये पिशिताशिनः । समन्ततो व्यदृश्यन्त शतशोऽथ सहस्रशः ॥ अर्जुनोऽथ सुशर्मादीन्राज्ञस्तान्सपदानुगान् । विजित्य पृतनामध्ये ययौ स्वशिबिरं प्रति ॥ युधिष्टिरोऽपि कौरव्यो भ्रातृभ्यां सहितस्तथा । ययौ स्वशिबिरं राजा निशायां सेनया वृतः ॥ भीमसेनोऽपि राजेन्द्र दुर्योधनमुखान्रथान् । अवजित्य ततः सङ्ख्ये ययौ स्वशिबिरं प्रति ॥ दुर्योधनोऽपि नृपतिः परिवार्य महारणे । भीष्मं शान्तनवं तूर्णं प्रयातः शिबिरं प्रति ॥ द्रोणो द्रौणिः कृपः शल्यः कृतवर्मा च सात्वतः । परिवार्य चमूं सर्वाः प्रययुः शिबिरं प्रति ॥ तथैव सात्यकी राजन्धृष्टद्युम्नश्च पार्षतः । परिवार्य रणे योधान्ययतुः शिबिरं प्रति ॥ एवमेते महाराज तावकाः पाण्डवैः सह । पर्यवर्तन्त सहिता निशाकाले परन्तप ॥ ततः स्वशिबिरं गत्वा पाण्डवाः कुरवस्तथा । न्यवसन्त महाराज पूजयन्तः परस्परम् ॥ रक्षां कृत्वा ततः शूरा न्यस्य गुल्मान्यथाविधि । अपनीय च शल्यानि स्नात्वा च विविधैर्जलैः ॥ कृतस्वस्त्ययनाः सर्वे स्तूयमानाश्च बन्दिभिः । गीतवादित्रशब्देन व्यक्रीडन्त यशस्विनः ॥ मुहूर्तादिव तत्सर्वमभवत्स्वर्गसन्निभम् । न हि युद्धकथां काञ्चित्तत्राकुर्वन्महारथाः ॥ ते प्रसुप्ते बले तत्र परिश्रान्तजने नृप । हस्त्यश्वबहुले रात्रौ प्रेक्षणीये बभूवतुः ॥ ॥
इति श्रीमन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि सप्तमदिवसयुद्धे षडशीतितमोऽध्यायः ॥