अध्यायः 085

सङ्कुलयुद्धवर्णनम् ॥ 1 ॥ सञ्जय उवाच । स ताड्यमानस्तु शरैर्धनञ्जयःपदाहतो नाग इव श्वसन्बली । बाणांश्च बाणेन महारथानाञ्चिच्छेद चापानि रणे प्रसह्य ॥ सञ्छिद्य चापानि च तानि राज्ञान्तेषां रणे वीर्यवतां क्षणेन । विव्याध बाणैर्युगपन्महात्मानिःशेषतां तेष्वथ मन्यमानः ॥ निपेतुराजौ रुधिरप्रदिग्धा-स्ते ताडिताः शक्रसुतेन राजन् । विभिन्नगात्राः पतितोत्तमाङ्गागतासवश्छिन्नतनुक्रकायाः ॥ महीं गताः पर्थबलाभिभूताविचित्ररूपा युगपद्विनेशुः । दृष्ट्वा हतांस्तान्युधि राजपुत्रां-स्त्रिगर्तराजः प्रययौ रथेन ॥ तेषां रथानामथ पृष्ठगोपाद्वात्रिंशदन्येऽभ्यपतन्त पार्थम् । तथैव ते तं परिवार्य पार्थंविकृष्य चापानि महारवाणि ॥ अवीवृषन्बाणमहौघवृष्ट्यायथा गिरिं तोयधरा जलौघैः । सम्पीड्यमानस्तु शरौघवृष्ट्याधनञ्जयस्तान्युधि जातरोषः ॥ षष्ट्या शरैः संयति तैलधौतै-र्जघान तानप्यथ पृष्ठगोपान् । रथांश्च तांस्तनवजित्य सङ्ख्येधनञ्जयः प्रीतमना यशस्वी ॥ अथात्वरद्भीष्मवधाय जिष्णु-र्बलानि राजन्समरे निहत्य । त्रिगर्तराजो निहतान्समीक्ष्यमहात्मना तानथ बन्धुवर्गान् ॥ रणे पुरस्कृत्य नराधिपांस्तान्जगाम पार्थं त्वरितो वधाय अभिद्रुतं चास्त्रभृतां वरिष्ठन्धनञ्जयं वीक्ष्य शिखण्डिमुख्याः ॥ अभ्यद्ययुस्ते शितशस्त्रहस्तारिरक्षिषन्तो रथमर्जुनस्य । पार्थोऽपि तानापततः समीक्ष्यत्रिगर्तराज्ञा सहितान्नृवीरान ॥ विध्वंसयित्वा समरे धनुष्मान्गाण्डीवमुक्तैर्निशितैः पृषत्कैः । भीष्मं यियासुर्युधि सन्ददर्शदुर्योधनं सैन्धवादींश्च राज्ञः ॥ संवारयिष्णूनभिवारयित्वामुहूर्तमायोध्य बलेन वीरः । उत्सृज्य राजानमनन्तवीर्योजयद्रथादींश्च नृपान्महौजाः । ययौ ततो भीमबलो मनस्वीगाङ्गेयमाजौ शरचापपाणिः ॥ भीष्मोऽपि दृष्ट्वा समरे कृतास्त्रान्स पाण्डवानां रथिनोऽभ्युदारान् । विहाय सङ्ग्राममुखे धनञ्जयञ्जवेन पार्थं पुनराजगाम ॥ युधिष्ठिरश्च प्रबलो महात्मासमाययौ त्वरितो जातकोपः । मद्राधिपं समभित्यज्य सङ्ख्येस्वभागमाप्तं तमनन्तकीर्तिः । सार्धं स माद्रीसुतभीमसेनै-र्भीष्मं ययौ शान्तनवं रणाय ॥ तैः सम्प्रयुक्तैः स महारथाग्र्यै-र्गङ्गासुतः समरे चित्रयोधी । न विव्यधे शान्तनवो महात्मासमागतैः पाण्डुसुतैः समस्तैः ॥ अथैत्य राजा युधि सत्यसन्धोजयद्रथोऽत्युग्रबलो मनस्वी । चिच्छेद चापानि महारथानाम्प्रसह्य तेषां धनुषा वरेण ॥ युधिष्ठिरं भीमसेनं यमौ चपार्थं कृष्णं युधि सञ्जातकोपः । दुर्योदनः क्रोधविषो महात्माजघान बाणैरनलप्रकाशैः ॥ कृपेण शल्येन शलेन चैवतथा विभो चित्रसेनेन चौजौ । विद्धाः शरैस्तेऽतिविवृद्धकोपै-र्देवा यथा दैत्यगणैः समेतैः ॥ छिन्नायुधं शान्तनवेन राजाशिखण्डिनं प्रेक्ष्य च जातकोपः । अजातशत्रुः समरे महात्माशिखण्डिनं क्रुद्ध उवाच वाक्यम् ॥ उक्त्वा तथा त्वं पितुरग्रतो मा-महं हनिष्यामि महाव्रतं तम् । भीष्मं शरौघैर्विमलार्कवर्णैःसत्यं वदामीति कृता प्रतिज्ञा ॥ त्वया च नैनां सफलां करोषिदेवव्रतं यन्न निहंसि युद्धे । मिथ्याप्रतिज्ञो भव मात्र वीररक्षस्व धर्मं स्वकुलं यशश्च ॥ प्रेक्षस्व भीष्मं युधि भीमवेगंसर्वांस्तपन्तं मम सैन्यसङ्घान् । शरौघजालैरतितिग्मवेगैःकालं यथा कालकृतं क्षणेन ॥ निकृत्तचापः समरेऽनपेक्षःपराजितः शान्तनवेन चाजौ । विहाय बन्धूनथ सदरांश्चक्व यास्यसे नानुरूपं तवेदम् ॥ दृष्ट्वा हि भीष्मं तमनन्तवीर्यम्भग्नं च सैन्यं द्रवमाणमेवम् । भीतोऽसि नूनं द्रुपदस्य पुत्रतथा हि ते मुखवर्णोऽप्रहृष्टः ॥ अज्ञायमाने च धनञ्जये तुमहाहावे सम्प्रसक्ते नृवीरे । कथं हि भीष्मात्प्रथितः पृथिव्याम्भयं त्वमद्य प्रकरोषि वीर ॥ स धर्मराजस्य वचो निशम्य 6-85-26bरूक्षाक्षरं विप्रलापानुबद्धम् । प्रत्यादेशं मन्यमानो महात्माप्रतत्वरे भीष्मवधाय राजन् ॥ तमापतन्तं महता जवेनशिखण्डिनं भीष्ममभिद्रवन्तम् । निवारयामास हि शल्य एन-मस्त्रेण घोरेण सुदुर्जयेन ॥ स चापि दृष्ट्वा समुदीर्यमाण-मस्त्रं युगान्ताग्निसमप्रकाशम् । न सम्मुमोह द्रुपदस्य पुत्रोराजन्महेन्द्रप्रतिमप्रभावः । तस्थौ च तत्रैव महाधनुष्मान् शरैस्तदस्त्रं प्रतिबाधमानः ॥ अथाददे वारुणमन्यदस्त्रंशिखण्ड्यथोऽग्रं प्रतिघातमस्य । तदस्त्रमस्त्रेण विदार्यमाणङ्खस्थाः सुरा ददृशुः पार्थिवाश्च ॥ भीष्मस्तु राजन्समरे महात्माधनुश्च चित्रं ध्वजमेव चापि । छित्त्वाऽनदत्पाण्डुसुतस्य वीरोयुधिष्ठिरस्याजमीढस्य राज्ञः ॥ ततः समुत्सृज्य धनुः सबाणंयुधिष्ठिरं वीक्ष्य भयाभिभूतम् । गदां प्रगृह्याभिपपात सङ्ख्येजयद्रथं भीमसेनः पदातिः ॥ तमापतन्तं सहसा जवेनजयद्रथः सगदं भीमसेनम् । विव्याध घोरैर्यमदण्डकल्पैःशितैः शरैः पञ्चशरैः समन्तात् ॥ अचिन्तयित्वा स शरांस्तरस्वीवृकोदरः क्रोधपरीतचेताः । जघान वाहान्समरे समन्तात्सुसम्मतान्सिन्धुराजस्य सङ्ख्ये ॥ ततोऽभिवीक्ष्याप्रतिमप्रभाव-स्तवात्मजस्त्वरमाणो रथेन अभ्यायौ भीमसेनं निहन्तुंसमुद्यतास्त्रः सुरराजकल्पः ॥ जयद्रथो भग्रवाहं रथं तत्यक्त्वा ययौ यत्र राजा कुरूणाम् । भयेन भीमस्य समूढचेताःससौबलस्तत्र युद्धस्य भीतः ॥ भीमोऽप्यथैनं सहसा विनद्यप्रत्युद्ययौ गदया तर्जयानः । समुद्यतां तां यमदण्डकल्पान्दृष्ट्वा गदां ते कुरवः समन्तात् ॥ विहाय सर्वे तव पुत्रमुग्रम्पातं गदायाः परिहर्तुकामाः । अपक्रान्तास्तुमुले सम्प्रमर्देसुदूरुणे भारत मोहनीये ॥ अमूढचेतास्त्वथ चित्रसेनोमहागदामापतन्तीं निरीक्ष्य । रथं समुत्सृज्य पदातिराजौप्रगृह्य खङ्गं विपुलं च चर्म । अवप्लुतः सिंह उवाचलाग्रा-ज्जगामान्यं भ्रमप भूमिदेशम् ॥ गदापि सा प्राप्य रथं सुचित्रंसाश्व ससूतं विनिहत्य सङ्ख्ये । जगाम भूमिं ज्वलिता महोल्कभ्रष्टाऽम्बराद्गामिव सम्पतन्ती ॥ आश्चर्यभूतं सुमहत्त्वदीयादृष्ट्वैव तद्भारत सम्प्रहृष्टाः । सर्वे विनेदुः सहिताः समन्ता-त्पुपूजिरे तव पुत्रस्य शौर्यम् ॥ ॥

इति श्रीमन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि सप्तमदिवसयुद्धे पञ्चाशीतितमोऽध्यायः ॥

6-85-25 अज्ञायमाने पश्चात्स्थिते ॥ 6-85-26 प्रत्यादेशं भर्त्सनं ॥