अध्यायः 083
द्वन्द्वयुद्धवर्णनम् ॥ 1 ॥ धृतराष्ट्र उवाच । बहूनि हि विचित्राणि द्वैरथानि स्म सञ्जय । पाण्डूनां मामकैः सार्धमश्रौषं तव जल्पतः ॥ न चैव मामकं किञ्चिद्धृष्टं शंससि सञ्जय । नित्यं पाण्डुसुतान्हृष्टानभग्नान्सम्प्रशंससि ॥ जीयमानान्विमनसो मामकान्विगतौजसः । वदसे संयुगे सूत दिष्टमेतन्न संशयः ॥ सञ्जय उवाच । यथाशक्ति यथोत्साहं युद्धे चेष्टन्ति तावकाः । दर्शयानाः परं शक्त्या पौरुषं पुरुषर्षभ ॥ गङ्गायाः सुरनद्या वै स्वादुभूतं यथोदकम् । महोदधिसमभ्याशे लवणत्वं निगच्छति ॥ तथा तत्पौरुषं राजंस्तावकानां परन्तप । प्राप्य पाण्डुसुतान्वीरान्व्यर्थं भवति संयुगे ॥ घटमानान्यथाशक्ति कुर्वाणान्कर्म दुष्करम् । न दोषेण कुरुश्रेष्ठ कौरवान्गन्तुमर्हसि ॥ तवापराधात्सुमहान्सपुत्रस्य विशाम्पते । पृतिव्याः प्रक्षयो घोरो यमराष्ट्रविवर्धनः ॥ आत्मदोषात्समुत्पन्नं शोचितुं नार्हसे नृप । न हि रक्षन्ति राजानः सर्वथाऽत्रापि जीवितम् ॥ युद्धे सुकृतिनां लोकानिच्छन्तो वसुधाधिपाः । चमूं विगाह्य युद्ध्यन्ते नित्यं स्वर्गपरायणाः ॥ पूर्वाह्णे तु महाराज प्रावर्तत जनक्षयः । तं त्वमेकमना भूत्वा शृणु देवासुरोपमम् ॥ आवन्त्यौ तु महेष्वासौ महासेनौ महाबलौ । युधामन्युमभिप्रेक्ष्य समेयता रणोत्कटौ ॥ तेषां प्रववृते युद्धं समुहद्रोणहर्षणम् । युधामन्युः सुसङ्क्रुद्धो भ्रातरौ देवरूपिणौ ॥ विव्याध निशितैस्तूर्णं शरैः सन्नतपर्वभिः । तावेनं प्रत्यविध्येतां समरे चित्रयोधिनौ ॥ युध्यतां हि तथा राजन्विशेषो न व्यदृश्यत । यततां शत्रुनाशाय कृतप्रतिकृतैषिणाम् ॥ युधामन्युस्ततो राजन्ननुविन्दस्य सायकैः । चतुर्भिश्चतुरो वाहाननयद्यमसादनम् ॥ भल्लाभ्यां च सुतीक्ष्णाभ्यां धनुः केतुं च मारिष । चिच्छेद समरे राजंस्तदद्भुतमिवाभवत् ॥ त्यक्त्वाऽनुविन्दोऽथ रथं विन्दस्य रथमास्थितः । धनुर्गृहीत्वा परमं भारसाधनमुत्तमम् ॥ तावेकस्थौ रणे वीरावावन्त्यौ रथिनां वरौ । शरान्मुमुचतुस्तूर्णं युधामन्यौ महात्मनि ॥ ताभ्यां मुक्ता महावेगाः शराः काञ्चनभूषणाः । दिवाकरपथं प्राप्य च्छादयामासुरम्बरम् ॥ युधामन्यू रणे क्रुद्धो भ्रातरौ तौ महारथौ । ववर्ष शरवर्षेण सारथिं चाप्यपातयत् ॥ तस्मिंस्तु पतिते भूमौ गतसत्वे तु सारथौ । रथः प्रदुद्राव दिशः समुद्धान्तहयस्ततः ॥ तौ स जित्वा महाराज यज्ञसेनसुतः प्रभुः । पौरुषं ख्यापयंस्तूर्णं व्यधमत्तव वाहिनीम् ॥ सा वध्यमाना समरे धार्तराष्ट्री महाचमूः । वेगान्बहुविधांश्चक्रे विषं पीत्वेन मानवः ॥ हैडिम्बो राक्षसेन्द्रस्तु भगदत्तं समाद्रवत् । रथेनादित्यवर्णेन सध्वजेन महाबलः ॥ ततः प्राग्ज्योतिषो राजा नागराजं समास्थितःक । यथा वज्रधरः पूर्वं सङ्ग्रामे तारकामये ॥ तत्र देवाः सगन्धर्वा ऋषयश्च समागताः । विशेषं न स्म विविदुर्हैडिम्बभगदत्तयोः ॥ यथा सुरपतिः शक्रस्त्रासयामास दानवान् । तथैव समरे राजा द्रावयामास पाण्डवान् ॥ तेन विद्राव्यमाणास्ते पाण्डवाः सर्वतो दिशम् । त्रातारं नाभ्यगच्छन्तः स्वेष्वनीकेषु भारत ॥ भैमसेनिं रथस्थं तु तत्रापश्याम भारत । शेषा विमनसो भूत्वा प्राद्रवन्त महारथाः ॥ निवृत्तेषु तु पाण्डूनां पुनः सैन्येषु भारत । आसीन्निष्ठानको घोरस्तव सैन्यस्य संयुगे ॥ घटोत्कचस्ततो राजन्भगदत्तं महारणे । शरैः प्रच्छादयामास मेरुं गिरिमिवाम्बुदः ॥ निहत्य ताञ्शरान्राजा राक्षसस्य धनुश्र्युतान् । भैमसेनिं रणे तूर्णं सर्वमर्मस्वताडयत् ॥ स ताड्यमानो बहुभिः शरैः सन्नतपर्वभिः । न विव्यथे राक्षसन्द्रो भिद्यमान इवाचलः ॥ तस्य प्राग्ज्योतिषः क्रुद्धस्तोमरांश्च चतुर्दश । प्रेषयामास समरे तांश्चिच्छेद स राक्षसः ॥ स तांश्छित्त्वा महाबाहुस्तोमरान्निशितैः शरैः । भगदत्तं च विव्याध सप्तत्या कङ्कपत्रिभिः ॥ ततः प्राग्ज्योतिषो राजा प्रहसन्निव भारत । तस्याश्वांश्चतुरः सङ्ख्ये पातयामास सायकैः ॥ स हताश्वे रथे तिष्ठन्राक्षसेन्द्रः प्रतापवान् । शक्तिं चिक्षेप वेगेन प्रग्ज्योतिषगजं प्रति ॥ तामापतन्तीं सहसा हेमदण्डां सुवेगिनीम् । त्रिधा चिच्छेद नृपतिः सा व्यकीर्यत मेदिनीं ॥ शक्तिं विनिहतां दृष्ट्वा हैडिम्बः प्राद्रवद्भयात् । यथेन्द्रस्य रणात्पूर्वं नमुचिर्दैत्यसत्तमः ॥ तं विजित्य रणे शूरं विक्रान्तं ख्यातपौरुषम् । अजय्यं समरे वीरं यमेन वरुणेन च ॥ पाण्डवीं समरे सेनां सम्ममर्द स कुञ्जरः । यथा वनगजो राजन्मृद्गश्चरति पद्मिनीम् ॥ मद्रेश्वरस्तु समरे यमाभ्यां समसञ्जत । स्वस्त्रीयौ छादयाञ्चक्रे शरौघैः पाण्डुनन्दनौ ॥ सहदेवस्तु समरे मातुलं दृश्य सङ्गतम् । अवारयच्छरौघेण मेघो यद्वद्दिवाकरम् ॥ छाद्यमानः शरौघेण हृष्टरूपतरोऽभवत् । तयोश्चाप्यभवत्प्रीतिरतुला मातृकारणात् ॥ ततः प्रहस्य समरे नकुलस्य महारथः । ' ध्वजं चिच्छेद बाणेन धनुश्चैकेन मारिष ॥ अथैनं छिन्नधन्वानं छादयामास भारत । निजघान रणे तं तु सूतं चास्य न्यपातयत् ॥ ततः प्रसह्य समरे नकुलस्य महारथः । अश्वांश्च चतुरो राजंश्चतुर्भिः सायकोत्तमैः ॥ प्रेषयामास समरे यमस्य सदनं प्रति । हताश्वात्तु रथात्तूर्णमवप्लुत्य महारथः ॥ आरुरोह ततो यानं भ्रातुरेव यशस्विनः । एकस्थौ तु रणे शूरौ दृढे विक्षिप्य कार्मुके ॥ मद्रराजरथं तूर्णं च्छादयामासतुः क्षणात् । स च्छाद्यमानो बहुभिः शरैः सन्नतपर्वभिः ॥ स्वस्त्रीयाभ्यां नरव्याघ्रो नाकम्पत यथाऽचलः । प्रहसन्निव तां चापि शस्त्रवृष्टिं जघान ह ॥ सहदेवस्ततः क्रुद्धः शरमुद्गृह्य वीर्यवान् । मद्रराजमभिप्रेक्ष्य प्रेषयामास भारत ॥ स शरः प्रेषितस्तेन गरुडानिलवेगवान् । मद्रराजं विनिर्भिद्य निपपात महीतले ॥ स गाढविद्धो व्यथितो रथोपस्थे महारथः । निषसाद महाराज कश्मलं च जगाम ह ॥ तं विसञ्ज्ञं निपतितं सूतः सम्प्रेक्ष्य संयुगे । अपोवाह रथेनाजौ यमाभ्यामभिपीडितम् ॥ दृष्ट्वा मद्रेश्वररथं धार्तराष्ट्राः पराङ्भुखम् । सर्वे विमनसो भूत्वा नेदमस्तीत्यचिन्तयन् ॥ निर्जित्य मातुलं सङ्ख्ये माद्रीपुत्रौ महारथौ । दध्यतुर्मुदितौ शङ्खौ सिंहनादं च नेदतुः ॥ अभिदुद्रुवतुर्हृष्टौ तव सैन्यं विशाम्पते । यथा दैत्यचमूं राजन्निन्द्रोपेन्द्राविवामरौ ॥ ॥
इति श्रीमन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि सप्तमदिवसयुद्धे त्र्यशीतितमोऽध्यायः ॥
6-83-12 इरावन्तमभिप्रेक्ष्य इति झo पाठः ॥ 6-83-13 इरावांस्तु सुसङ्क्रुद्ध इति झo पाठः ॥ 6-83-16 इरावांस्तु ततं इति झo पाठः ॥ 6-83-19 इरावति महात्मनीति झo पाठः ॥ 6-83-21 इरावांस्तु रणे इति झo पाठः ॥ 6-83-23 नागराजसुतासुत इति झo पाठः । तत्र नागराजः कौरव्यस्तस्य सुता उलूपी तस्याः सुत इरावानित्यर्थः ॥ 6-83-31 निष्ठानकः सव्यथः कशब्दः ॥