अध्यायः 081

भीष्मेण दुर्योधनसंहर्षणम् ॥ 1 ॥ राज्ञां द्वन्द्वीभूय मेलनम् ॥ 2 ॥ अर्जुनपराक्रमवर्णनम् ॥ 3 ॥ सञ्जय उवाच । अथात्मजं तव पुनर्गाङ्गेयो ध्यानमास्थितम् । अब्रवीद्भरतश्रेष्ठः सम्प्रहर्षकर वचः ॥ भीष्म उवाच । अहं द्रोणश्च शल्यश्च कृतवर्मा च सात्वतः । अश्वत्थामा विकर्णश्च भगदत्तोऽथ सौबलः ॥ विन्दानुविन्दावावन्त्यौ बाह्लीकः सह बाह्लिकैः । त्रिगर्तराजो बलवान्मागधश्च सुदुर्जयः ॥ बृहद्बलश्च कौसल्यश्चित्रसेनो विविंशतिः । 'कृपश्च सह सोदर्यैस्तव राजन्पदानुगाः ।' रथाश्च बहुसाहस्राः शोभनाश्च महाध्वजाः ॥ देशजाश्च हया राजन्स्वारूढा हयसादिभिः । गजेन्द्राश्च मदोद्वृत्ताः प्रभिन्नकरटामुखाः ॥ पादाताश्च तथा शूरा नानाप्रहरणा युधि । नानादेशसमुत्पन्नास्त्वदर्थे योद्धुमुद्यताः ॥ एते चान्ये च बहवस्त्वदर्थे त्यक्तजीविताः । देवानपि रणे जेतुं समर्था इति मे मतिः ॥ अवश्यं हि मया राजंस्तव वाच्यं हितं सदा । अशक्याः पाण्डवा जेतुं देवैरपि सवासवैः ॥ वासुदेवसहायाश्च महेन्द्रसमविक्रमाः । सर्वथाऽहं तु राजेन्द्र करिष्ये वचनं तव ॥ पाण्डवांश्च रणे जेष्ये मां वा जेष्यन्ति पाण्डवाः । सञ्जय उवाच । एवमुक्त्वा ददावस्मै विशल्यकरणीं शुभाम् ॥ ओषधीं वीयसम्पन्नां विशल्यश्चाभवत्तदा । ततः प्रभाते विमले स्वेन सैन्येन वीर्यवान् ॥ अव्यूहत स्वयं व्यूहं भीष्मो व्यूहविशारदः । मण्डलं मनुजश्रेष्ठो नानाशस्त्रसमाकुलम् ॥ सम्पूर्णं योधमुख्यैश्च तथा दन्तिपदातिभिः । रथैरनेकसाहस्रैः समन्तत्परिवारितम् ॥ अश्ववृन्दैर्महद्भिश्च रिष्टितोमरधारिभिः । नागेनागे रथाः सप्त सप्त चाश्वा रथेरथे ॥ अन्वश्वं दश धानुष्का धानुष्के दश चर्मिणः । एवं व्यूहं महाराज तव सैन्यस्य दंशितम् ॥ स्थितं रणाय महते भीष्मेण युधि पालितम् । दशाश्वानां सहस्राणि दन्तिनां च तथैव च ॥ रथानामयुतं चापि पुत्राश्च तव दंशिताः । चित्रसेनादयः शूरा अभ्यरक्षन्तितामहम् ॥ रक्ष्यमाणाः स तैः शूरैर्गोप्यमानाश्च तेन ते । सन्नद्धाः समदृश्यन्त राजानश्च महाबलाः ॥ दुर्योधनस्तु समरे दंशितो रथमास्थितः । व्यराजत श्रिया जुष्टो यथा शक्रस्त्रिविष्टपे ॥ ततः शब्दो महानासीत्पुत्राणां तव भारत । रथघोषश्च विपुलो वादित्राणां च निःस्वनः ॥ भीष्मेण धार्तराष्ट्राणां व्यूढः प्रत्यङ्भुखो युधि । मण्डलः स महाव्यूहो दुर्भेद्योऽमित्रघातनः ॥ सर्वतः शुशुभे राजन्रणेऽरीणां दुरासदः । मण्डलं तु समालोक्य व्यूहं परमदुर्ययम् ॥ स्वयं युधिष्ठिरो राजा वज्रं व्यूहमथाकरोत् । तथा व्यूढेष्वनीकेषु यथास्थानमवस्थिताः ॥ रथिनः सादिनः सर्वे सिंहनादमथानदन् । बिभित्सवस्ततो व्यूहं निर्ययुर्युद्धकाङ्क्षिणः ॥ इतरेतरतः शूराः सहसैन्याः प्रहारिणः । भारद्वाजो ययौ मत्स्यं द्रौणिश्चापि सिखण्डिनम् ॥ स्वयं दुर्योधनो राजा पार्षतं समुपाद्रवत् । नकुलः सहदेवश्च मद्रराजानमीयतुः ॥ विन्दानुविन्दावावन्त्यौ युयुधानमभिद्रुतौ । सर्वे नृपास्तु समरे धनञ्जयमयोधयन् ॥ भीमसेनो रणे यान्तं हार्दिक्यं समवारयत् । चित्रसेनं विकर्णं च तथा दुर्मर्षणं विभुः ॥ आर्जुनिः समरे राजंस्तव मुत्रानयोधयत् । प्राग्ज्योतिषो महेष्वासो हैडिम्बं राक्षसोत्तमम् ॥ अभिदुद्राव वेगेन मत्तो मत्तमिव द्विपम् । अलम्बुसस्तदा राजन्सात्यकिं युद्धदुर्मदम् ॥ ससैन्यं समरे क्रुद्धो राक्षसः समुपाद्रवत् । भूरिश्रवा रणे यत्तो धृष्टकेतुमयोधयत् ॥ श्रुतायुषं च राजानं धर्मपुत्रो युधिष्ठिरः । चेकितानश्च समरे कृपमेवान्वयोधयत् ॥ शेषाः प्रतिययुर्यत्ता भीष्ममेव महारथम् । ततो राजसमूहास्ते परिवव्रुर्धनञ्जयम् ॥ शक्तितोमरनाराचगदापरिघपाणयः । अर्जुनोऽथ भृशं क्रुद्धो वार्ष्णेयमिदमब्रवीत् ॥ पश्य माधव सैन्यानि धार्तराष्ट्रस्य संयुगे । व्यूढानि व्यूहविदुषा गाङ्गेयेन महात्मना ॥ युद्धाभिकामाञ्शूरांश्च पश्य माधव दंशितान् । त्रिगर्तराजं सहितं भ्रातृभिः पश्य केशव ॥ अद्यैतान्नाशयिष्यामि पश्यतस्ते जनार्दन । य इमे मां यदुश्रेष्ठ योद्धुकामा रणाजिरे ॥ एतदुक्त्वा तु कौन्तेयो धनुर्ज्यामवमृद्य च । ववर्ष शरवर्षाणि नराधिपगणान्प्रति ॥ तेऽपि तं परमेष्वासाः शरवर्षैरपूरयन् । तटाकं वारिधाराभिर्यथा प्रावृषि तोयदाः ॥ हाहाकारो महानासीत्तव सैन्ये विशाम्पते । छाद्ममानौ रणे कृष्णौ शरैर्दृष्ट्वा महारणे ॥ देवा देवर्षयश्चैव गन्धर्वाश्च सहोरगैः । विस्मयं परमं जग्मुर्दृष्ट्वा कृष्णौ तथाऽऽगतौ ॥ ततः क्रुद्धोऽर्जुनो राजन्नैन्द्रमस्त्रमुदैरयत् । तत्राद्भुतमपश्याम विजयस्य पराक्रमम् ॥ शस्त्रवृष्टिं परैर्मुक्तां शरौघैर्यदवारयत् । न च तत्राप्यनिर्भिन्नः कश्चिदासीद्विशाम्पते ॥ तेषां राजसहस्राणां हयानां दन्तिनां तथा । द्वाभ्यां त्रिभिः शरैश्चान्यान्पार्थो विव्याध मारिष ॥ ते हन्यमानाः पार्थेन भीष्मं शान्तनवं ययुः । अगाधे मञ्जमानानां भीष्मः पोतोऽभवत्तदा ॥ आपतद्भिस्तु तैस्तत्र प्रभग्नं तावकं बलम् । सञ्चुक्षुभे महाराज वातैरिव महार्णवः ॥ ॥

इति श्रीमन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि सप्तमदिवसयुद्धे एकाशीतितमोऽध्यायः ॥