अध्यायः 080

भीष्मदुर्योधनसंवादः ॥ 1 ॥ सञ्जय उवाच । क्षत्रियास्ते महाराज परस्परकृतागसः । जग्मुः स्वशिबिराण्येव रुधिरेण समुक्षिताः ॥ विश्रम्य च यथान्यायं पूजयित्वा परस्परम् । सन्नद्धाः समदृश्यन्त भूयो युद्धचिकीर्षवः ॥ ततस्तव सुतो राजंश्चिन्तयाभिपरिप्लुतः । विस्रवच्छोणिताक्ताङ्गः पप्रच्छेदं पितामहम् ॥ सैन्यानि रौद्राणि भयानकानिव्यूढानि सम्यग्बहुलध्वजानि । विदार्य हत्वा च निपीड्य शूरां-स्ते पाण्डवा लब्धजयाः प्रहृष्टाः ॥ सम्मोह्य सर्वान्युधि कीर्तिमन्तोव्यूहं च तं मकरं मृत्युकल्पम् । प्रविश्य भीमेन रणे हतोऽस्मिघोरैः शरैर्मृत्युदण्डप्रकाशैः ॥ क्रुद्धं तमुद्वीक्ष्य भयेन राज-न्सम्मूर्च्छितो न लभे शान्तिमद्य । इच्छे प्रसादात्तव सत्यसन्धप्राप्तुं जयं पाण्डवेयांश्च हन्तुम् ॥ तेनैवमुक्तः प्रहसन्महात्मादुर्योधनं मन्युगतं विदित्वा । तं प्रत्युवाचाविमना मनस्वीगङ्गासुतः सस्त्रभृतां वरिष्ठः ॥ परेण यत्नेन विगाह्य सेनांसर्वात्मनाऽहं तव राजपुत्र । इच्छामि दातुं विजयं सुखं चन चात्मानं छादयेऽहं त्वदर्थे ॥ एते तु रौद्रा बहवो महारथायशस्विनः शूरतमाः कृतास्त्राः । ये पाण्डवानां समरे सहायाजितक्लमा रोषविषं वमन्ति ॥ केनेह शक्याः सहसा विजेतुंवीर्योद्धताः कृतवैरास्त्वया च । अहं ह्येतान्प्रतियोत्स्यामि राज-न्सर्वात्मना जीवितं त्यज्य वीर ॥ रणे तवार्थाय महानुभावन जीवितं रक्षितव्यं ममाद्य । सर्वांस्तवार्थाय सदेवदैत्याँ-ल्लोकान्दहेयं किमु शत्रुसेनाम् ॥ तान्पाण्डवान्योधयिष्यामि राजन्प्रियं च ते सर्वमहं करिष्ये । सञ्जय उवाच । श्रुत्वा पितुस्ते वचनं प्रतीतोदुर्योधनः प्रीतमना बभूव ॥ सर्वाणि सैन्यानि ततः प्रहृष्टोनिर्गच्छतेत्याह नृपांश्च सर्वान् । तदाक्षया तानि विनिर्ययुर्द्रुतङ्गजाश्वपादातरथायुतानि ॥ प्रहर्षयुक्तानि तु तानि राज-न्महान्ति नानाविधशस्त्रवन्ति । स्थितानि नागाश्वपदातिमन्तिविरेजुराजौ तव राजन्बलानि ॥ शस्त्रास्त्रविद्भिर्नरवीरयोधै-रधिष्ठिताः सैन्यगणास्त्वदीयाः । रथौघपादातगजाश्वसङ्घैःप्रयाद्भिराजौ विधिवत्प्रणुन्नैः ॥ समुद्धतं वै तरुणार्कवर्णंरजो बभौ च्छादयत्सूर्यश्मीन् । रेजुः पताका रथदन्तिसंस्थावातेरिता भ्राम्यमाणाः समन्तात् ॥ नानालिङ्गैः समरे तत्र राजन्मेघैर्युता विद्युतः खे यथैव । वृन्दैः स्थिताश्चापि सुसम्प्रयुक्ता-श्चकाशिरे दन्तिगणाः समन्तात् ॥ धनूंषि विष्फारयतां नृपाणाम्बभूव शब्दस्तुमुलोऽतिघोरः । विमथ्यतो देवमहासुरौघै-र्यथार्णवस्यादियुगे तदानीम् ॥ तदुग्रनागं बहुरूपवर्णन्तवात्मजानां समुदीर्णकोपम् । बभूव सैन्यं रिपुसैन्यहन्त-युगान्तमेघौघनिभं तदानीम् ॥ ॥

इति श्रीमन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि सप्तमदिवसयुद्धे अशीतितमोऽद्यायः ॥