अध्यायः 079
सङ्कुलयुद्धवर्णनम् ॥ 1 ॥ सञ्जय उवाच । ततो दुर्योधनो राजा लोहितायति भास्करे । सङ्ग्रामरभसो भीमं हन्तुकामोऽभ्यधावत ॥ तमायान्तमभिप्रेक्ष्य नृवीरं दृढवैरिणम् । भीमसेनः सुसङ्क्रुद्ध इदं वचनमब्रवीत् ॥ अयं स कालः सम्प्राप्तो वर्षपूगाभिवाञ्छितः । अद्य त्वां निहनिष्यामि यदि नोत्सृजसे रणम् ॥ अद्य कुन्त्याः परिक्लेशं वनवासं च कृत्स्नशः । द्रौपद्याश्च परिक्लेशं प्रणेष्यामि हते त्वयि ॥ यत्पुरा मत्सरीभूत्वा पाण्डवानवमन्यसे । तस्य पापस्य गान्धारे पश्य व्यसनमागतम् ॥ कर्णस्य मतमास्थाय सौबलस्य च यत्पुरा । अचिन्त्य पाण्डवान्कामाद्यथेष्टं कृतवानसि ॥ याचमानं च यन्मोहाद्दाशार्हमवमन्यसे । उलूकस्य समादेशं यद्ददासि च हृष्टवत् ॥ तेन त्वां निहनिष्यामि सानुबन्धं सबान्धवम् । शमीकरिष्ये तत्पापं यत्पुरा कृतवानसि ॥ एवमुक्त्वा धनुर्घोरं विकृष्योद्भ्राम्य चासकृत् । समाधत्त शरान्घोरान्महाशनिसमप्रभान् ॥ षड्विंशतिमसं क्रुद्धो मुमोचाशु सुयोधने । ज्वलिताग्निशिखाकारान्वज्रकल्पानजिह्मगान् ॥ ततोऽस्य कार्मुकं द्वाभ्यां सूतं द्वाभ्यां च विव्यधे । चतुर्भिरश्वाञ्जवनाननयद्यमसादनम् ॥ द्वाभ्यां च सुविकृष्टाभ्यां शराभ्यामरिमर्दनः । छत्रं चिच्छेद समरे राज्ञस्तस्य नरोत्तम् ॥ षङ्भिश्च तस्य चिच्छेद ज्वलन्तं ध्वजमुत्तमम् । छित्त्वा तं च ननादोच्चैस्तव पुत्रस्य पश्यतः ॥ रथाच्च स ध्वजः श्रीमान्नानारत्नविभूषितात् । पपात सहसा भूमौ विद्युञ्जलधरादिव ॥ ज्वलन्तं सूर्यसङ्काशं नागं मणिमयं शुभम् । ध्वजं कुरुपतेश्छिन्नं ददृशुः सर्वपार्थिवाः ॥ अथैनं दशभिर्बाणैस्तोत्रैरिव महाद्विपम् । आजघान रणे वीरं स्मयन्निव महारथः ॥ स गाढविद्धो व्यथितो भीमसेनेन संयुगे । निषसाद रथोपस्थे मूर्च्छाभिहतचेतनः ॥ ततः स राजा सिन्धूनां रथश्रेष्ठो महाबलः । दुर्योधनस्य जग्राह पार्ष्णिं स्वपुरुषैर्वृतः ॥ कृपश्च रथिनां श्रेष्ठस्तव पुत्रमचेतनम् । आरोपयद्रथं राजन्दुर्योधनममर्षणम् ॥ परिवार्य ततो भीमं जेतुकामो जयद्रथः । रथैरनेकसाहस्रैर्भीमस्यावारयद्दिशः ॥ धृष्टकेतुस्ततो राजन्नभिमन्युश्च वीर्यवान् । केकया द्रौपदेयाश्च तव पुत्रानयोधयन् ॥ चित्रसेनः सुचित्रश्च चित्राङ्गश्चित्रदर्शनः । चारुचित्रः सुचारुश्च तथा नन्दोपनन्दकौ ॥ अष्टावेते महेष्वासाः सुकुमारा यशस्विनः । अभिमन्युरथं राजन्समन्तात्पर्यवारयन् ॥ आजघान ततस्तूर्णमभिमन्युर्महामनाः । एकैकं पञ्चभिर्बाणैः शितैः सन्नतपर्वभिः ॥ वज्रमृत्युप्रतीकाशैर्विचित्रायुधनिःसृतैः । अमृष्यमाणास्ते सर्वे सौभद्रं रथसत्तमम् ॥ ववृषुर्मार्गणैस्तीक्ष्णैर्गिरिं मेरुमिवाम्बुदाः । स पीड्यमानः समरे कृतास्त्रो युद्धदुर्मदः ॥ अभिमन्युर्महाराज तावकान्समकम्पयत् । यथा देवासुरे युद्धे वज्रपाणिर्महासुरान् ॥ विकर्णस्य ततो भल्लान्प्रेषयामास भारत । चतुर्दश रथश्रेष्ठो घोरानाशीविषोपमान् ॥ स तैर्विकर्णस्य रथात्पातयामास वीर्यवान् । ध्वजं सूतं हयांश्चैव नृत्यमान इवाहवे ॥ पुनश्चान्याञ्शरान्पीतानकुण्ठाग्राञ्शिलाशितान् । प्रेषयामास सङ्क्रुद्धो विकर्णाय महाबलः ॥ ते विकर्णं समासाद्य कङ्कबर्हिणवाससः । भित्त्वा देहं गता भूमिं ज्वलन्त इव पन्नगाः ॥ ते शरा हेमपुङ्खाग्रा व्यदृश्यन्त महीतले । विकर्णरुधिरक्लिन्ना वमन्त इव शोणितम् ॥ विकर्णं वीक्ष्य निर्भिन्नं तस्यैवान्ये सहोदराः । अभ्यद्रवन्त समरे सौभद्रप्रमुखान्रथान् ॥ अभियात्वा तथैवान्यान्रथांस्तान्सूर्यवर्चसः । अविध्यन्समरेऽन्योन्यं संरम्भाद्युद्धदुर्मदाः ॥ दुर्मुखः श्रुतकर्माणं विद्ध्वा सप्तभिराशुगैः । ध्वजमेकेन चिच्छेद सारथिं चास्य सप्तमिः ॥ अश्वाञ्जाम्बूनदैर्जालैः प्रच्छन्नान्वातरंहसः । जघान षङ्भिरासाद्य सारथिं चाभ्यपातयत् ॥ स हताश्वे रथे तिष्ठञ्श्रुतकर्मा महारथः । शक्तिं चिक्षेप सङ्क्रुद्धो महोल्कां ज्वलितामिव ॥ सा दुर्मुखस्य विमलं वर्म भित्त्वा यशस्विनः । विदार्य प्राविशद्भूभिं दीप्यमाना स्वतेजसा ॥ दुर्मुखो विह्वलस्तत्र निषसाद रणे विभो । विसञ्ज्ञं प्रेक्ष्य ते सर्वे भ्रातरः पर्यवारयन् ॥ तं दृष्ट्वा विरथं तत्र सुतसोमो महारथः । पश्यतां सर्वसैन्यानां रथमारोपयत्स्वकम् ॥ श्रुतकीर्तिस्तथा वीरो जयत्सेनं सुतं तव । अभ्ययात्समरे राजन्हन्तुकामो यशस्विनम् ॥ तस्य विक्षिपतश्चापं श्रुतकीर्तेर्महास्वनम् । चिच्छेद समरे तूर्णं जयत्सेनः सुतस्तव ॥ क्षुरप्रेण सुतीक्ष्णेन प्रहसन्निव भारत । तं दृष्ट्वा च्छिन्नधन्वानं शतानीकः सहोदरम् ॥ अभ्यपद्यत तेजस्वी सिंहवन्निनदन्मुहुः । शतानीकस्तु समरे दृढं विस्पार्य कार्मुकम् ॥ विव्याध दशभिस्तूर्णं जयत्सेनं शिलीमुखैः । ननाद सुमहानादं प्रभिन्न इव वारणः ॥ अथान्येन सुतीक्ष्णेन सर्वावरणभेदिना । शतानीको जयत्सेनं विव्याध हृदये भृशम् ॥ तथा तस्मिन्वर्तमाने दुष्कर्णो भ्रातुरन्तिके । मुमोचास्मैशितान्बाणांस्तीक्ष्णानाशीविषोपमान् चिच्छेद समरे चापं नाकुलेः क्रोधमूर्च्छितः ॥ अथान्यद्धनुरादाय भारसाहमनुत्तमम् । समादत्त शरान्घोराञ्शतानीको महाबलः ॥ तिष्ठतिष्ठेति चामन्त्र्य दुष्कर्णं भ्रातुरग्रतः । मुमोचास्मै शितान्बाणाज्ज्वलितान्पन्नगानिव ॥ ततोऽस्य धनुरेकेन द्वाभ्यां सूतं च मारिष । चिच्छेद समरे तूर्णं तं च विव्याध सप्तभिः ॥ अश्वान्मनोजवांस्तस्य कर्बुरान्वातरंहसः । जघान निशितैस्तूर्णं सर्वान्द्वादशभिः शरैः ॥ अथापरेण भल्लेन सुयुक्तेनाशुपातिना । दुष्कर्णं नाकुलिः क्रुद्धो विव्याध हृदये भृशम् ॥ स पपात ततो भूमौ वज्राहत इव द्रुमः । दुष्कर्णं व्यथितं दृष्ट्वा पञ्च राजन्महारथाः ॥ दिघांसन्तः शतानीकं सर्वतः पर्यवारयन् । छाद्यमानं शरव्रतैः शतानीकं यशस्विनम् ॥ अभ्यधावन्त सङ्क्रुद्धाः केकयाः पञ्च सोदराः । तानभ्यापततः प्रेक्ष्य तव पुत्रा महारथाः ॥ प्रत्युद्ययुर्महाराज गजानिव महागजाः । दुर्मुखो दुर्जयश्चैव तथा दुर्मर्षणो युवा ॥ शत्रुञ्जयः सत्रुसहः सर्वे क्रुद्धा यशस्विनः । प्रत्युद्याता महाराज केकयान्भ्रातरः समम् ॥ रथैर्नगरसङ्काशैर्हयैर्युक्तैर्मनोजवैः । नानावर्णविचित्राभिः पताकाभिरलङ्कृतैः ॥ शरचापधरा वीरा विचित्रकवचध्वजाः । विविशुस्ते परं सैन्यं सिंहा इव वनाद्वनम् ॥ तेषां सुतुमुलं युद्धं व्यतिषक्तरथद्विपम् । अवर्तत महारौद्रं निघ्नतामितरेतरम् ॥ अन्योन्यागस्कृतां राजन्यमराष्ट्रविवर्धनम् । मुहूर्तास्तमिते सूर्ये चक्रुर्युद्धं सुदारुणम् ॥ रथिनः सादिनश्चाथ व्यकीर्यन्त सहस्रशः । ततः शान्तनवः क्रुद्धः शरैः सन्नतपर्वभिः ॥ नाशयामास सेनां तां भीष्मस्तेषां महात्मनाम् । पञ्चालानां च सैन्यानि शरैर्निन्ये यमक्षयम् ॥ एवं भित्त्वा महेष्वासः पाण्डवानामनीकिनीम् । कृत्वाऽवहारं सैन्यानां ययौ स्वशिबिरं नृप ॥ नाशयामासतुर्वीरौ धृष्टद्युम्नवृकोदरौ । करवाणामनीकानि शरैः सन्नतपर्वभिः ॥ धर्मराजोऽपि सम्प्रेक्ष्य धृष्टद्युम्नवृकोदरौ । मूर्ध्नि चैतावुपाघ्राय प्रहृष्टः शिबिरं ययौ ॥ ' अर्जुनो वासुदेवश्च कौरवाणामनीकिनीम् । 'हत्वा विद्राव्य च शरैः शिबिरायैव जग्मतुः ॥ ॥
इति श्रीमन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि षष्ठदिवसयुद्धे एकोनाशीतितमोऽध्यायः ॥