अध्यायः 075

कुरुपाण्डवयोः क्रौञ्चमकरव्यूहरचनापूर्वकमायोधनम् ॥ 1 ॥ सञ्जय उवाच । विहृत्य तु ततो राजन्सहिताः कुरुपाण्डवाः । व्यतीतायां तु शर्वर्यां पुनर्युद्धाय निर्ययुः ॥ ततः शब्दो महानासीत्तव तेषां च भारत । युज्यतां रथमुख्यानां कल्प्यतां चैव दन्तिनाम् ॥ सन्नह्यतां पदातीनां हयानां चैव भारत । शङ्खदुन्दुभिनादश्च तुमुलः सर्वतोऽभवत् ॥ ततो युधिष्ठिरो राजा धृष्टद्युम्नमभाषत । व्यूहं व्यूहस्व पाञ्चाल मकरं शत्रुनाशनम् ॥ एवमुक्तस्तु पार्थेन धृष्टद्युम्नो महारथः । व्यादिदेश यथान्यायं रथिनो रथिनां वरः ॥ शिरोऽभूद्द्रुपदस्तस्य पाण्डवश्च धनञ्जयः । चक्षुषी सहदेवश्च नकुलश्च महारथः ॥ तुण्डमासीन्महाराज भीमसेनो महाबलः । सौभद्रो द्रौपदेयाश्च राक्षसश्च घटोत्कचः ॥ सात्यकिर्धर्मराजश्च व्यूहग्रीवां समास्थिताः । पृष्ठमासीन्महाराज विराटो वाहिनीपतिः ॥ धृष्टद्युम्नो महाराज महत्या सेनया वृतः । केकया भ्रातरः पञ्च वामपार्श्वं समाश्रिताः ॥ धृष्टकेतुर्नरव्याघ्रश्चेकितानश्च वीर्यवान् । दक्षिणं पक्षमाश्रित्य स्थितौ व्यूहस्य रक्षणे ॥ पादयोस्तु महाराज स्थितः श्रीमान्महारथः । कुन्तिभोजः शतानीको महत्या सेनया वृतः ॥ शिखण्डी तु महेष्वासः सोमकैः संवृतो बली । इरावांश्च ततः पुच्छे मकरस्य व्यवस्थितौ ॥ एवमेतं महाव्यूहं व्यूह्य भारत पाण्डवाः । सूर्योदये महाराज पुनर्युद्धाय दंशिताःक ॥ कौरवानभ्ययुस्तूर्णं हस्त्यश्वरथपत्तिभिः । समुच्छ्रितैर्ध्वजैश्छत्रैः शस्त्रैश्च विमलैः शितैः ॥ व्यूढं दृष्ट्वा तु तत्सैन्यं पिता देवव्रतस्तव । कौञ्चेन महता राजन्प्रत्यव्यूहत वाहिनीम् ॥ तस्य तुण्डे महेष्वासो भारद्वाजो व्यरोचत । अश्वत्थामा कृपश्चैव चक्षुरास्तां जनेश्वर ॥ कृतवर्मा तु सहितः काम्भोजैरथ बाह्लिकैः । शिरस्यासीन्नरश्रेष्ठः श्रेष्ठः सर्वधनुष्मताम् ॥ ग्रीवायां शूरसेनश्च तव पुत्रश्च मारिष । दुर्योधनो महाराज राजभिर्बहुभिर्वृतः ॥ प्राग्जोतिषस्तु सहितो मद्रसौवीरकेकयैः । उरस्यभून्नरश्रेष्ठ महत्या सेनया वृतः ॥ पृष्ठे चास्तां महेष्वासावावन्त्यौ सपदानुगौः । स्वसेनया च सहितः शुशर्मा प्रस्थलाधिपः । वामं पक्षं समाश्रित्य दंशितः समवस्थितः ॥ तुषारा यवनाश्चैव शकाश्च सह चूचुपैः । दक्षिणं पक्षमाश्रित्य स्थिता व्यूहस्त भारत ॥ श्रुतायुश्च शातायुश्च सौमदत्तिश्च मारिष । व्यूहस्य जघने तस्थू रक्षमाणाः परस्परम् ॥ ततो युद्धाय सञ्जग्मुः पाण्डवाः कौरवैः सह । सूर्योदये महाराज प्रावर्तत जनक्षयः ॥ प्रतीयू रथिनो नामान्नागाश्च रथिनो ययुः । हयारोहान्रथारोहा रथिनश्चापि सादिनः ॥ सादिनश्च हयान्राजन्रथिनश्च महारणे । हस्त्यारोहान्हयारोहा रथिनः सादिनस्तथा ॥ रथिनः पत्तिभिः सार्धं सादिनश्चापि पत्तिभिः । अन्योन्यं समरे राजन्प्रत्यधावन्नमर्षिताः ॥ भीमसेनार्जुनयमैर्गुप्ता चान्यैर्महारथैः । शुशुभे पाण्डवी सेना नक्षत्रैरिव शर्वरी ॥ तथा भीष्मकृपद्रोणशल्यदुर्योधनादिभिः । तवापि च बभौ सेना ग्रहैर्द्यौरिव संवृताः ॥ भीमसेनस्तु कौन्तेयो द्रोणं दृष्ट्वा पराक्रमी । अभ्ययाञ्जवनैरश्वैर्भारद्वाजस्य वाहिनीम् ॥ द्रोणास्तु समरे क्रुद्धो भीमं नवभिरायसैः । विव्याध समरश्लाघी मर्माण्युद्दिष्य वीर्यवान् ॥ दृढाहतस्तो भीमो भारद्वाजस्य संयुगे । सारथिं प्रेषयामास यमस्य सदनं प्रति ॥ स सङ्गृह्य स्कवयं वाहान्भारद्वाजः प्रतापवान् । व्यधमत्पाण्डवीं सेनां तूलराशिमिवानलः ॥ ते वद्यमाना द्रोणेन भीष्मेण च नरोत्तमाः । सृञ्जयाः तावकं सैन्यं भीमार्जुनपरिक्षतम् ॥ तथैव तावकं सैन्यं भीमार्जुनपरिक्षतम् । मुह्यते तत्रतत्रैव समदेव वराङ्गना ॥ अभिद्येतां ततो व्यूहौ तस्मिन्वीरवरक्षये । आसीद्व्यतिकरो घोरस्तव तेषां च भारत ॥ तदद्भुतमपश्याम तावकानां परैः सह । एकायनगताः सर्वे यदयुध्यन्त भारत ॥ प्रतिसंवार्य चास्त्राणि तेऽन्योन्यस्य विशाम्पते । युयुधुः पाण्डवाश्चैव कौरवाश्च महाबलाः ॥ ॥

इति श्रीमन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि षष्ठदिवसयुद्धे पञ्चसप्ततितमोऽध्यायः ॥