अध्यायः 071
सङ्कुलयुद्धवर्णनम् ॥ 1 ॥ सञ्जय उवाच । दृष्ट्वा भीष्मेण संसक्तान्भ्रातॄनन्यांश्च पार्थिवान् । समभ्यधावद्गाङ्ङ्गेयमुद्यतास्त्रो धनञ्जयः ॥ पाञ्चजन्यस्य निर्घोषं धनुषो गाण्डिवस्य च । ध्वजं च दृष्ट्वा पार्थस्य सर्वान्नो भयमाविशत् ॥ सिंहलाङ्गूलमाकाशे ज्वलन्तमिव पर्वतम् । असञ्जमानं वृक्षेषु धूमकेतुमिवोत्थितम् ॥ बहुवर्णं विचित्रं च दिव्यं वानरलक्षणम् । अपश्याम महाराज ध्वजं गाण्डीवधन्वनः ॥ सुवर्णपृष्ठं गाण्डीवं रणे द्रक्ष्यामि भारत । विद्युतं मेघमध्यस्थां भ्राजमानामिवाम्बरे । ददृशुर्गाण्डिवं योधा रुक्मपृष्ठं महामृधे ॥ आशुश्रुम भृशं चास्य शक्रस्येवाभिगर्जतः । सुघोरं तलयोः शब्दं निघ्नतस्तव वाहिनीम् ॥ चण्डवातो यथा मेघः सविद्युत्स्तनयित्नुमान् । दिशः सम्प्लावयन्सर्वाः शरवर्षैः समन्ततः ॥ समभ्यधावद्गाङ्गेयं भैरवास्त्रो धनञ्जयः । दिशं प्राचीं प्रतीचीं च न जानीमोऽस्त्रमोहिताः ॥ कान्दिग्भूता श्रान्तपत्रा हताश्वा हतचेतसः । अन्योन्यमभिसंश्लिष्य योधास्ते भरतर्षभ ॥ भीष्ममेवाभ्यलीयन्त सह सर्वैस्तवात्मजैः । तेषामार्तायनमभूद्भीष्मः शान्तनवो रणे ॥ समुत्पतन्ति वित्रस्ता रथेभ्यो रथिनस्तथा । सादिनश्चाश्वपृष्ठेभ्यो भूमौ चापि पदातयः ॥ श्रुत्वा गाण्डीवनिर्घोषं विस्फूर्जितमिवाशनेः । सर्वसैन्यानि भीतानि व्यवालीयन्त भारत ॥ अथ काम्भोजैजरश्वैर्महद्भिः शीघ्रगामिभिः । गोपानां बहुसाहस्त्रैर्बालैर्गापायनैर्वृतः ॥ मद्रसौवीरगान्धारैस्त्रैगर्तैश्च विशाम्पते । सर्वकालिङ्गमुख्यैश्च कलिङ्गाधिपतिर्वृतः ॥ नानानरगणौघैश्च दुःशासनपुरःसरः । जयद्रथश्च नृपतिः सहितः सर्वराजभिः ॥ हयारोहवराश्चैव तव पुत्रेण चोदिताः । चतुर्दशसहस्राणि सौबलं पर्यवारयन् ॥ ततस्ते सहिताः सर्वे विभक्तरथवाहनाः । अर्जुनं समरे जघ्नुस्तावका भरतर्षभ ॥ चेदिकाशिपदातैश्च रथैः पाञ्चालसृञ्जयैः । पाण्डवाः सहिताः सर्वे धृष्टद्युम्नपुरोगमाः । तावकान्समरे जघ्नुर्धर्मपुत्रेण चोदिताः ॥ रथिभिर्वारणैरश्वैः पादातैश्च समीरितम् । घोरमायोधनं चक्रे महाभ्रसदृशं रजः ॥ तोमरप्रासनाराचगजाश्वरथयोधिनाम् । बलेन महता भीष्मः समसञ्जत्किरीटिना ॥ आवन्त्यः काशिराजेन भीमसेनेन सैन्धवः । अजातशत्रुर्मद्राणामृषभेण यशश्विना ॥ सहपुत्रः सहामात्यः शल्येन समसञ्जत । विकर्णः सहदेवेन चित्रसेनः शिखण्डिना ॥ मत्स्या दुर्योधनं जग्मुः शङ्कुनिं न विशाम्पते । द्रुपदश्चेकितानश्च सात्यकिश्चक महारथः ॥ द्रोणेन समसञ्जन्त सपुत्रेण महात्मना । कृपश्च कृतवर्मा च धृष्टद्युम्नमभिद्रुतौ ॥ एवं प्रव्रजिताश्वानि भ्रान्तनागरथानि च । सैन्यानि समसञ्जन्त प्रयुद्धानि समन्ततः ॥ निरभ्रे विद्युतस्तीव्रा दिशश्च रजसा वृताः । प्रादुरासन्महोत्काश्च सनिर्घाता विशाम्पते ॥ प्रादुर्भूतो महावातः पांसुवर्षं पपात च । नभस्यन्तर्दधे सूर्यः सैन्येन सजसा वृतः ॥ प्रमोहः सर्वसत्वानामतीव समपद्यत । रजसा चाभिभूतानामस्त्रजालैश्च तुद्यताम् ॥ वीरबाहुविसृष्टानां सर्वावरणभेदिनाम् । सङ्घातः शरजालानां तुमुलः समपद्यत ॥ प्रकाशं चक्रुराकाशमुद्यतानि भुजोत्तमैः । नक्षत्रविमलाभानि शस्त्राणि भरतर्षभ ॥ आर्षभाणि विचित्राणि रुक्मजालावृतानि च । सम्पेतुर्दिक्षु सर्वासु चर्माणि भरतर्षभ ॥ सूर्यवर्णैश्च निस्त्रिंशैः पात्यमानानि सर्वशः । दिक्षु सर्वास्वदृश्यन्त शरीराणि शिरांसि च । भग्नचक्राक्षनीडाश्च निपातितमहाध्वजाः । हताश्वाः पृथिवीं जग्मुस्तत्रतत्र महारथाः ॥ परिपेतुर्हयाश्चात्र केचिच्छस्त्रकृतव्रणाः । रथान्विपरिकर्षन्तो हतेषु रथयोधिषु ॥ शराहता भिन्नदेहा बद्धयोक्रा हयोत्तमाः । युगानि पर्यकर्षन्त तत्रतत्र स्म भारत । अदृश्यन्त ससूताश्च साश्वाः सरथयोधिनः । एकेन बलिना राजन्वारणेन विमर्दिताः ॥ गन्धहस्तिमदस्रावमाघ्राय बहवो रणे । सन्निपाते बलौघानां गजैर्ममृदिरे गजाः ॥ सतोमरैर्महामात्रैर्निपतद्भिर्गतासुभिः । बभूवायोधनं छन्नं नाराचाभिहतैर्गजैः ॥ सन्निपाते बलौघानां प्रेषितैर्वरवारणैः । निपेतुर्युधि सम्भग्नाः सयोधाः सध्वजा गजाः ॥ नागराजोपमैर्हस्तैर्नागैराक्षिप्य संयुगे । व्यदृश्यन्त महाराज सम्भग्ना रथकूबराः ॥ विशीर्णरथसङ्घाश्च केशेष्वाक्षिप्य दन्तिभिः । द्रुमशाखा इवाविध्य निष्पिष्टा रथिनो रणे ॥ रथेषु च रथान्युद्धे संसक्तान्वरवारणाः । विकर्षन्तो दिशः सर्वाः सम्पेतुः सर्वशब्दगाः ॥ तेषां तथा कर्षतां तु गजानां रूपमाबभौ । सरःसु नलिनीजालं विषक्तमिव कर्षताम् ॥ एवं सञ्छादितं तत्र बभूवायोधनं महत् । सादिभिश्च पदातैश्च सध्वजैश्च महारथैः ॥ ॥
इति श्रीमन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि पञ्चमदिवसयुद्धे एकसप्ततितमोऽध्यायः ॥
6-71-7 स्तनयित्नुर्गर्जितम् ॥