अध्यायः 070

सङ्कुलयुद्धवर्णनम् ॥ 1 ॥ सञ्जय उवाच । अकरोत्तुमुलं युद्धं भीष्मः शान्तनवस्तदा । भीमसेनभयादिच्छन्पुत्रांस्तारयितुं तव ॥ पूर्वाह्णे तन्महारौद्रं राज्ञां युद्धमवर्तत । कुरूणां पाण्डवानां च मुख्यशूरविनाशनम् ॥ तस्मिन्नाकुलसङ्ग्रामे वर्तमाने महाभये । अभवत्तुमुलः शब्दः संस्पृशन्गगनं महत् ॥ नदद्भिश्च महानागैर्हेषमाणैश्च वाजिभिः । भेरीशङ्खनिनादैश्च तुमुलं समपद्यत ॥ युयुत्सवस्ते विक्रान्ता विजयाय महाबलाःक । अन्योन्यमभिगर्जन्तो गोष्ठिष्विव महर्षभाः ॥ शिरासं पात्यमानानां समरे निशितैः शरैः । अश्यवृष्टिरिवाकाशे बभूव भरतर्षभ ॥ कुण्डलोष्णीषधारीणि जातरूपोज्ज्वलानि च । पतितानि स्म दृश्यन्ते शिरांसि भरतर्षभ ॥ विशिखोन्मथितैर्गात्रैर्बाहुभिश्च सकार्मुकैः । सहस्ताभरणैश्चान्यैरभवच्छादिता मही ॥ कवचोपहितैर्गात्रैर्हस्तैश्च समलङ्कृतैः । मुखैश्च चन्द्रसङ्काशै रक्तान्तनयनैः शुभैः ॥ गजवाजिमनुष्याणां सर्वगात्रैश्च भूपते । आसीत्सर्वा समास्तीर्णा मुहूर्तेन वसुन्धराः ॥ रजोमेघैश्च तुमुलैः शस्त्रविद्युत्प्रकाशिभिः । आयुधानां च निर्घोषः स्तनयित्नुसमोऽभवत् ॥ स सम्प्रहारस्तुमुलःक कटुकः शोणितोदकः । प्रावर्तत कुरूणां च पाण्डवानां च भारत ॥ तस्मिन्महाभये घोरे तुमुले रोमहर्षणे । ववृषुः शरवर्षाणि क्षत्रिया युद्धदुर्मदाः ॥ आक्रोशन्कुञ्जरास्तत्र शरवर्षप्रतापिताः । तावकानां परेषां च संयुगे भरतर्षभ ॥ संरब्धानां च वीराणां धीराणाममितौजसाम् । धनुर्ज्यातलशब्देन न प्राज्ञायत किञ्चन ॥ उत्थितेषु कबन्धेषु सर्वतः शोमितोदके । समरे पर्यधावन्त नृपा रिपुवधोद्यताः ॥ शरशक्तिगदाभिस्ते खङ्गैश्चामिततेजसः । निजघ्नुः समरेऽन्योन्यं शूराः परिघबाहवः ॥ बभ्रमुः कुञ्जराश्चात्र शरैर्विद्धा निरङ्कुशाः । अश्वाश्च पर्यधावन्त हतारोहा दिशो दश ॥ उत्पत्य निपतन्त्यन्ये शरघातप्रपीडिताः । तावकानां परेषां च योधा भरतसत्तम ॥ वाहानामुत्तमाङ्गानां कार्मुकाणां च भारत । गदानां परिघाणां च हस्तानां चोरुभिः सह ॥ पादानां भूषणानां च केयूराणां च सङ्घशः । राशयस्तत्र दृश्यन्ते भीष्मभीमसमागमे ॥ अश्वानां कुञ्जराणां च रथानां चानिवर्तिनाम् । सङ्घाताः स्म प्रदृश्यन्ते तत्रतत्र विशाम्पते ॥ गदाभिरसिभिः प्रासैर्बाणैश्च नतपर्वभिः । जघ्नुः परस्पर तत्र क्षत्रियाः काल आगते ॥ अपरे बाहुभिर्वीरा नियुद्धकुशला युधि । बहुधा समसञ्जन्त आयसैः परिघैरिव ॥ मुष्टिभिर्जानुभिश्चैव तलैश्चैव विशाम्पते । अन्योन्यं जघ्रिरे वीरास्तावकाः पाण्डवैः सह ॥ पतितैः पात्यमानैश्च विचेष्टद्भिश्च भूतले । घोरमायोधनं जज्ञे तत्रतत्र जनेश्वर ॥ विरथा रथिनश्चात्र निस्त्रिंशवरधारिणःक । अन्योन्यमभिधावन्तः परस्परवधैषिणः ॥ ततो दुर्योधनो राजा कलिङ्गैर्बहुभिर्वृतः । पुरस्कृत्य रणे भीष्मं पाण्डवानभ्यवर्तत ॥ तथैव पाण्डवाः सर्वे परिवार्य वृकोदरम् । भीष्ममभ्यद्रवन्क्रुद्धास्ततो युद्धमवर्तत ॥ ॥

इति श्रीमन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि पञ्चमदिवसयुद्धे सप्ततितमोऽध्यायः ॥