अध्यायः 069
कुरुपाण्डवयोर्मकरश्येनव्यूहरचनापूर्वकं युद्धारम्भः ॥ 1 ॥ सञ्जय उवाच । व्युषितायां तु शर्वर्यामुदिते च दिवाकरे । उभे सेने महाराज युद्धायैव समीयतुः ॥ अभ्यधावन्त सङ्क्रुद्धाः परस्परजिगीषवः । ते सर्वे सहिता युद्धे समालोक्य परस्परम् ॥ पाण्डवा धार्तराष्ट्राश्च राजन्दर्मन्त्रिते तव । व्यूहौ च व्यूह्य संरब्धाः सम्प्रहृष्टाः प्रहारिणः ॥ अरक्षन्मकरव्यूहं भीष्मो राजन्समन्ततः । तथैव पाण्डवा राजन्नरक्षन्व्यूहमात्मनः ॥ 'अजातशत्रुः शत्रूणां मनांसि समकम्पयत् । 'श्येनवद्व्यूह्य तं व्यूहं धौम्यस्य वचनात्स्वयम् ॥ स हि तस्य सुविज्ञात अग्निचित्येषु भारत । मकरस्तु महाव्यूहस्तव पुत्रस्य धीमतः ॥ स्वयं सर्वेण सैन्येन द्रोणेनानुमतस्तदा । यथाव्यूहं शान्तनवः सोऽन्ववर्तत तत्पुनः ॥ स निर्ययौ महाराज पिता देवव्रतस्तव । महता रथवंशेन संवृतो रथिनां वरः ॥ इतरेतरमन्वीयुर्यथाभागमवस्थिताः । रथिनः पत्तयश्चैव दन्तिनः सादिनस्तथा ॥ तान्दृष्ट्वाऽभ्युद्यतान्सङ्ख्ये पाण्डवा हि यशस्विनः । श्येनव्यूहेन संव्यूह्य समनह्यन्त संयुगे ॥ अशोभत मुखे तस्य भीमसेनो महाबलः । नेत्रे शिखण्डी दुर्धर्षो धृष्टद्युम्नश्च पार्षतः ॥ शीर्षे तस्याभवद्वीरः सात्यकिः सत्यविक्रमः । विधुन्वन्गाण्डिवं पार्थो ग्रीवायामभवत्तदा ॥ अक्षौहिण्या समं तत्र वामपक्षोऽभवत्तदा । महात्मा द्रुपदः श्रीमान्सह पुत्रेण संयुगे ॥ दक्षिणश्चाभवत्पक्षः कैकेयोऽक्षौहिणीपतिः । पृष्ठतो द्रौपदेयाश्च सौभद्रश्चापि वीर्यवान् ॥ पृष्ठे समभवच्छ्रीमान्स्वयं राजा युधिष्ठिरःक । भ्रातृभ्यां सहितो वीरो यमाभ्यां चारुविक्रमः ॥ प्रविश्य तु रणे भीमो मकरं मुखतस्तदा । भीष्ममासाद्य सङ्ग्रामे च्छादयामास सायकैः ॥ ततो भीष्मो महास्राणि पातयामास भारत । मोहयन्पाण्डुपुत्राणां व्यूढं सैन्यं महाहवे ॥ सम्मुह्यति तदा सैन्ये त्वरमाणो धनञ्जयः । भीष्मं शरसहस्रेण विव्याध रणमूर्धनि ॥ प्रतिसंवार्य चास्राणि भीष्ममुक्तानि संयुगे । स्वेनानीकेन हृष्टेन युद्धाय समुपस्थितः ॥ ततो दुर्योधनो राजा भारज्वाजमभाषत । पूर्वं दृष्ट्वा वधं घोरं बलस्य बलिनां वरः ॥ भ्रातॄणां च वधं युद्धे स्मरमाणो महारथः । आचार्यः सततं हि त्वं हितकामो ममानघ ॥ वयं हि त्वां समाश्रित्य भीष्मं चैव पितामहम् । देवानपि रणे जेतुं प्रार्थयामो न संशयः ॥ किमु पाण्डुसुताकन्युद्धे हीनवीर्यपराक्रमान् । स तथा कुरु भद्रं ते यथा वध्यन्ति पाण्डवाः ॥ एवमुक्तस्ततो द्रोणस्तव पुत्रेण मारिष । तत्र सम्प्रेक्ष्य राजनं सङ्क्रुद्ध इव निश्चसन् ॥ बालिशस्त्वं न जानीषे पाण्डवानां पराक्रमम् । न शक्या हि यथा जेतुं पाण्डवा हि महाबलाः ॥ यथाबलं यथावीर्यं कर्म कुर्यामहं हि ते । इत्युक्तवा ते सुतं राजन्नभ्यपद्यत वाहिनीम् । अभिनत्पाण्डवानीकं प्रेक्षमाणस्य सात्यकेः ॥ सात्यकिस्तु ततो द्रौणं वारयामात भारत । तयोः प्रववृते युद्धं घोररूपं भयावहम् ॥ शैनेयं तु रणे क्रुद्धो भारद्वाजः प्रतापावान् । अविध्यन्निशितैर्बाणैर्जत्रुदेशे हसन्निव ॥ भीमसेनस्ततः क्रुद्धो भारद्वाजमविध्यत । संरक्षन्सात्यकिं राजन्द्रोणाच्छस्त्रभृतां वरात् ॥ ततो द्रोणश्च भीष्मश्च तथा शल्यश्च मारिष । भीमसेनं रणे क्रुद्धाश्छादयाञ्चक्रिरे शरैः ॥ तत्राभिमन्युः सङ्क्रुद्धो द्रौपदेयाश्च मारिष । विव्यधुर्निशितैर्बैणैः सर्वांस्तानुद्यतायुधान् ॥ द्रोणभीष्मौ तु सङ्क्रुद्धावापतन्तौ महाबलौ । प्रत्युद्ययौ शिखण्डी तु महेष्वासो महाहवे ॥ प्रगृह्य बलवद्वीरो धनुर्जलदनिःश्वनम् । अभ्यवर्षच्छरैस्तूर्णं छादयानो दिवाकरम् ॥ शिखण्डिनं समासाद्य भरतानां पितामहः । अवर्जयत सङ्ग्रामं स्त्रीत्वं तस्यानुसंस्मरन् ॥ ततो द्रोणो महाराज अभ्यद्रवत तं रणे । रक्षमाणस्तदा भीष्मं तव पुत्रेण चोदितः ॥ शिखण्डी तु समासाद्य द्रोणं शस्त्रभृतां वरम् । अवर्जयत सन्त्रस्तो युगान्ताग्निमिवोल्बणम् ॥ ततो बलेन महता पुत्रस्तव विशाम्पते । जुगोप भीष्ममासाद्य प्रार्थयानो महद्यशः ॥ तथैव पाण्डवा राजन्पुरुस्कृत्य धनञ्जयम् । भीष्ममेवाभ्यवर्तन्त जये कृत्वा दृढां मतिम् ॥ तद्युद्धमभवद्धोरं देवानां दानवैरिव । जयमाकाङ्क्षतां सङ्क्ष्ये यशश्च सुमहाद्भुतम् ॥ ॥
इति श्रीमन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि पञ्चमदिवसयुद्धे एकोनसप्ततितमोऽध्यायः ॥