अध्यायः 068

भीष्मेण दुर्योधनम्प्रति ब्रह्मर्षिकृतकृष्णस्तवकथनम् ॥ 1 ॥ तथा कृष्णस्य पाण्डवेषु प्रीतिकथनपूर्वकं तैः सह शमविधानम् ॥ 2 ॥ भीष्म उवाच । स्तवं वै ब्रह्मसंयुक्तं शृणु कृष्णस्य भारत । ब्रह्मर्षिभिश्च देवैश्च यः पुरा कथितो भुवि ॥ साध्यानामपि देवानां देवदेवेश्वरः प्रभुः । लोकभावनभावज्ञ इति त्वां नारदोऽब्रवीत् ॥ भूतं भव्यं भविष्यच्च मार्कण्डेयोऽभ्युवाच ह । यज्ञं त्वां चैव यज्ञानां तपश्च तपसामपि ॥ देवानामपि देवं च त्वामाह भगवान्भृगुः । पुराणां चैव परमं विष्णो रूपं तवेति च ॥ वासुदेवो वसूनां त्वं शक्रं स्थापयिता तथा । देवदेवोऽसि देवानामिति द्वैपायनोऽब्रवीत् ॥ पूर्वे प्रजानिसर्गे च दक्षमाहुः प्रजापतिम् । स्रष्टारं सर्वभूतानामङ्गिरास्त्वां तथाऽब्रवीत् ॥ अव्यक्तं ते शरीरोत्थं व्यक्तं ते मनसि स्थितम् । देवास्त्वत्सम्भवाश्चैव देवलस्त्वसितोऽब्रवीत् ॥ शिरसा ते दिव्यं व्याप्तं बाहुभ्यां पृथिवी तथा । जठरं ते त्रयो लोकाः पुरुषोऽसि सनातनः ॥ एवं त्वामभिजानन्ति तपसा भाविता नराः । आत्मदर्शनतृप्तानामृषीणां चासि सत्तमः ॥ राजर्षीणामुदाराणामाहवेष्वनिवर्तिनाम् । सर्वधर्मप्रधानानां त्वं गतिर्मधुसूदन ॥ इति नित्यं योगविर्द्भिर्भगवान्पुरुषोत्तमः । सनत्कुमारप्रमुखैः स्तूयतेऽभ्यर्च्यते हरिः ॥ एष ते विस्तरस्तात सङ्क्षेपश्च प्रकीर्तितः । केशवस्य यथा तत्त्वं सुप्रीतो भज केशवम् ॥ सञ्जय उवाच । पुण्यं श्रुत्वैतदाख्यानं महाराज सुतस्तव । केशवं बहुमेने स पाण्डवांश्च महारथान् ॥ तमब्रवीन्महाराज भीष्मः शान्तनवः पुनः । माहात्म्यं ते श्रुतं राजन्केशवस्य महात्कमनः ॥ नरस्य च यथातत्त्वं यन्मां त्वं पृच्छसे नृप । यदर्थं नृषु सम्भूतौ नरानारायणावृषी ॥ अवध्यौ च यथा वीरौ संयुगेष्वपराजितौ । यथा च पाण्डवा राजन्नवध्या युधि कस्यचित् ॥ प्रीतिमान्हि दृढं कृष्णः पाण्डवेषु यशस्विषु । तस्माद्ब्रवीमि राजेन्द्र शमो भवतु पाण्डवैः ॥ पृथिवीं भुङ्क्ष्व सहितो भ्रातृभिर्बलिभिर्वशी । नरानारायणौ देवाववज्ञाय नशिष्यसि ॥ एवमुक्त्वा तव पिता तूष्णीमासीद्विशाम्पते । व्यसर्जयच्च राजानं शयनं च विवेश ह ॥ राजा च शिबिरं प्रायात्प्रणिपत्य महात्मने । शिश्ये च शयने शुभ्रे रात्रिं तां भरतर्षभ ॥ ॥

इति श्रीमन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि अष्टषष्टितमोऽध्यायः ॥ ॥ विश्वोपाख्यानं समाप्तम् ॥