अध्यायः 067

भीष्मेण विश्वोपाख्यानकथने वासुदेवमाहात्म्यकथनम् ॥ 1 ॥ युधिष्ठिरस्य कृष्मसमाश्रयणेन विजय इति कथनम् ॥ 2 ॥ दुर्योधन उवाच । वासुदेवो महद्भूतं सर्वलोकेषु कथ्यते । तस्यागमं प्रतिष्ठां च ज्ञातुमिच्छे पितामह ॥ भीष्म उवाच । वासुदेवो महद्भूतं सर्वदैवतदैवतम् । न परं पुण्डरीकाक्षाद्दृश्यते भरतर्षभ ॥ श्रुतं मे तात रामस्य जामदग्न्यस्य जल्पतः । नारदस्य च देवर्षेः कृष्णद्वैपायनस्य च । असितो देवलश्चापि वालखिल्यास्तपोधनाः ॥ मार्कण्डेयश्च गोविन्दे कथयत्यद्भुतं महत् । सर्वभूतादिभूतात्मा महात्मा पुरुषोत्तमः ॥ आपो वायुश्च तेजश्च त्रयमेतदकल्पयत् । स सृष्ट्वा पृथिवीं देवीं सर्वलोकेश्वरः प्रभुः ॥ अप्सु वै शयनं चक्रे महात्मा पुरुषोत्तमः । सर्वदेवमयो देवः शयानः शयने सुखम् ॥ मुखतः सोऽग्निमसृजत्प्राणाद्वायुमथापि च । सरस्वतीं च वेदांश्च मनसः ससृजेऽच्युत ॥ एषक लोकान्ससर्जादौ देवांश्च ऋषिभिः सह । अमृतं चैव मृत्युं च प्रजानां प्रभवाप्ययौ ॥ एष धर्मश्च धर्मज्ञो वरदः सर्वकामदः । एष कर्ता च कार्यं च आदेरादिः स्वयं प्रभुः ॥ भूतं भव्यं भविष्यच्च पूर्वमेतदकल्पयत् । उभे सन्ध्ये दिवः खं च नियमांश्च जनार्दनः ॥ ऋषींश्चैव हि गोविन्दस्तपश्चैवाभ्यकल्पयत् । स्रष्टारं जगतश्चापि महात्मा प्रभुरव्ययः ॥ अग्रजं सर्वभूतानां सङ्कर्षणमकल्पयत् । शेषं चाकल्पयद्देवमनन्तमिति तं विदुः ॥ यो धारयति भूतानि धरां चेमां सपर्वताम् । ध्यानयोगेन विप्राश्च तं विदन्ति महौजसम् । कर्णस्रोतोभवं चापि मधुं नाम महासुरम् ॥ तमुग्रमुग्रकर्माणमुग्रां बुद्धइं समास्थितम् । हरन्तं ब्रह्मणो वेदाञ्जघान ब्रह्मणः पिता । ब्रह्मणोपचितिं कुर्वन्महात्मा पुरुषोत्तमः ॥ तस्य तात वधादेव देवदानवमानवाः । मधुसूदनमित्याहुर्ऋषयश्च जनार्दनम् ॥ वराहं नारसिंहं च त्रिविक्रममिति प्रभुम् । एष धाता विधाता च सर्वेषां प्रामिनां हरिः ॥ परं हि पुण्डरीकाक्षान्न भूतं न भविष्यति । मुखतः सोसृजद्विप्रान्बाहुभ्यां क्षत्रियांस्तथा ॥ वैश्यांश्चाप्यूरुतो राजञ्शूद्रान्पद्भ्यां तथैवच । तपसा नियतं देवं निधानं सर्वदेहिनाम् ॥ ब्रह्मभूतममावास्यां पौर्णमास्यां तथैव च । योगभूतं परिचरन्केशवं महदाप्नुयात् ॥ केशवः परमं तेजः सर्वलोकपितामहः । एवमार्हुर्हृषीकेशं मुनयो वै नराधिप ॥ एवमेनं विजानीहि आचार्यं पितरं गुरुम् । कृष्णो यस्य प्रसीदेत लोकास्तेनाक्षया जिताः ॥ यश्चैवैनं भयस्थाने केशवं शरणं व्रजेत् । सदा नरः पठंश्चेदं स्वस्तिमान्स सुखी भवेत् ॥ ये च कृष्णं प्रपद्यन्ते ते न मुह्यन्ति मानवाः । भये महति मग्नांश्च पाति नित्यं जनार्दनःक ॥ स तं युधिष्ठिरो ज्ञात्वा याथातथ्येन भारत । सर्वात्मना महात्मानं केशवं जगदीश्वरम् । प्रपन्नः शरणं राजन्योगानां प्रभुमीश्वरम् ॥ ॥

इति श्रीमन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि सप्तषष्टितमोऽध्यायः ॥

6-67-8 प्रभव उत्पत्तिहेतुः । अप्ययः प्रलयहेतुः ॥ 6-67-13 कर्णात्स्रवतीति कर्णस्रोतः कर्णमलम् ॥