अध्यायः 066

विश्वोपाख्यानम् ॥ 1 ॥ भीष्म उवाच । ततः स भगवान्देवो लोकानामीश्वरेश्वरः । ब्रह्माणं प्रत्युवाचेदं स्रिग्धगम्भीरया गिरा ॥ विदितं तात योगान्मे सर्वमेतत्तवेप्सितम् । तथा तद्भवितेत्युक्त्वा तत्रैवान्तरधीयत ॥ ततो देवर्षिगन्धर्वा विस्मयं परमं गताः । कौतूहलपराः सर्वे पितामहमथाब्रुवन् ॥ कोन्वयं यो भगवता प्रणम्य विनयाद्विभो । वाग्भिः स्तुतो वरिष्ठाभिः श्रोतुमिच्छाम तं वयम् ॥ एवमुक्तस्तु भगवान्प्रत्युवाच पितामहः । देवब्रह्मर्षिगन्धर्वान्सर्वान्मधुरया गिरा ॥ यत्तत्परं भविष्यं च भवितव्यं च यत्परम् । भूतात्मा च प्रभुश्चैव ब्रह्म यच्च परं पदम् ॥ तेनास्मि कृतसंवादः प्रसन्नेन सुरर्षभाः । जगतोऽनुग्रहार्थाय याचितो मे जगत्पतिः । मानुषं लोकमातिष्ठ वासुदेव इति श्रुतः । अस्रुराणां वधार्थाय सम्भवस्व महीतले ॥ सङ्ग्रामे निहता ये ते दैत्यदानवराक्षसाः । त इमे नृषु सम्भूता घोररूपा महाबलाः ॥ तेषां वधार्थं भगवान्नरेण सहितो वशी । मानुषीं योनिमास्थाय चरिष्यति महीतले ॥ नरनारायणौ यौ तौ पुराणावृषिसत्तमौ । सहितो मानुषे लोके सम्भूतावमितद्युती ॥ अजेयौ समरे यत्तौ सहितैरमरैरपि । मूढास्त्वेतौ न जानन्ति नरनारायणावृषी ॥ तस्याहमग्रजः पुत्रः सर्वस्य जगतः प्रभुः । वासुदेवोऽर्चनीयो वः सर्वलोकमहेश्वरः ॥ तथा मनुष्योऽयमिति कदाचित्सुरसत्तमाः । नावज्ञेयो महावीर्यः शङ्खचक्रगदाधरः ॥ एतत्परमकं गुह्यमेतत्परमकं पदम् । एतत्परमकं ब्रह्म एतत्परमकं यशः ॥ एतदक्षरमव्यक्तमेतद्वै शाश्वतं महः । यत्तत्पुरुषसञ्ज्ञं वै गीयते ज्ञायते न च ॥ एतत्परमकं तेज एतत्परमकं सुखम् । एतत्परमकं सत्यं कीर्तितं विश्वकर्मणा ॥ तस्मात्सेन्द्रैः सुरैः सर्वैर्लोकैश्चामितविक्रमःक । नावज्ञेयो वासुदेवो मानुषोऽयमिति प्रभुः ॥ यश्च मानुषमात्रोऽयमिति ब्रूयात्स मन्दधीः । हृषीकेशमवज्ञानात्तमाहुः पुरुषाधमम् ॥ योगिनं तं महात्मानं प्रविष्टं मानुषीं तनुम् । अवमन्येद्वासुदेवं तमाहुस्तमसं जनाः ॥ देवं चराचरात्मानं श्रीवत्साङ्कं सुवर्चसम् । पद्मनाभं न जानाति तमाहुस्तामसं बुधाः ॥ किरीटकौस्तुभधरं मित्राणामभयङ्करम् । अवजानन्महात्मानं घोरे तमसि मञ्जति ॥ एवं विदित्वा तत्त्वार्थं लोकानामीश्वरेश्वरः । वासुदेवो नमस्कार्यः सर्वलोकैः सुरोत्तमाः । तस्यामहात्माजो ब्रह्मा सर्वस्य जगतः पतिः ॥ भीष्म उवाच । एवमुक्त्वा स भगवान्देवान्सर्षिगकणान्पुरा । विसृज्य सर्वभूतानि जगाम भवनं स्वकम् ॥ ततो देवाः सगन्धर्वा मुनयोऽप्सरसोऽपि च । कथां तां ब्रह्मणा गीतां श्रुत्वा प्रीता दिवं ययुः ॥ एतच्छ्रुतं मया तात ऋषीणां भावितात्मनाम् । वासुदेवं कथयतां समवाये पुरातनम् ॥ रामस्य जामदग्न्यस्य मार्कण्डेयस्य धीमतः । व्यासनारदयोश्चापि सकाशाद्भरतर्षभ ॥ एतमर्थं च विज्ञाय श्रुत्वा च प्रभुमव्ययम् । वासुदेवं महात्मानं लोकानामीश्वरेश्वरम् ॥ यस्य चैवात्मजो ब्रह्मा सर्वस्य जगतः पिता । कथं न वासुदेवोऽयमर्च्यश्चेज्यश्च मानवैः ॥ वारितोऽसि मया तात मुनिर्भिर्वेदपारगैः । मा गच्छ संयुगं तेन वासुदेवेन धन्विना ॥ मा पाण्डवैः सार्धमिति तत्त्वं मोहान्न बुध्यसे । मन्ये त्वां राक्षसं क्रूरं तथा चासि तमोवृतः ॥ यस्माद्द्विषसि गोविन्दं पाण्डवं तं धनञ्जयम् । नरनारायणौ देवी कोऽन्यो द्विष्याद्धि मानवः ॥ तस्माद्ब्रवीमि ते राजन्नेष वै शाश्वतोऽव्ययः । सर्कवलोकमयो नित्यः शास्ता धाता धरो ध्रुवः ॥ यो धारयति लोकांस्त्रींश्चराचरगुरुः प्रभुः । योद्धा जयश्च जेता च सर्वप्रकृतिरीश्वरः ॥ राजन्सर्वमयो ह्येष तमोरागविवर्जितः । यतः कृष्णस्ततो धर्मो यतो धर्मस्ततो जयः ॥ तस्य माहात्म्ययोगेन योगेनात्ममयेन च । धृताः पाण्डुसुता राजञ्जयश्चैषां भविष्यति ॥ श्रेयोयुक्तां सदा बुद्धिं पाण्डवानां दधाति यः । बलं चैव रणे नित्यं भयेभ्यश्चैव रक्षति ॥ स एष शाश्वतो देवाः सर्वगुह्यमयः शिवः । वासुदेव इति ज्ञेयो यन्मां पृच्छसि भारत ॥ ब्राह्मणैः क्षत्रिकयैर्वैश्यैः शूद्रैश्च कृतलक्षणैः । सेव्यतेऽभ्यर्च्यते चैव नित्ययुक्तैः स्वकर्मभिःक ॥ द्वापरस्य युगस्यान्ते आदौ कलियुगस्य च । सात्वतं विधिमास्थाय गीतः सङ्कर्षणेन वै ॥ स एष सर्वं सुरमर्त्यलोकंसमुद्रकक्ष्यान्तरितां पुरीं च । युगेयुगे मानुषं चैव वासम्पुनःपुनः सृजते वासुदेवाःक ॥ ॥

इति श्रीमन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि षट्षष्टितमोऽध्यायः ॥

6-66-39 कृतलक्षणैः स्वस्वगुणप्रख्यातैः ॥ 6-66-40 सात्वताः पञ्चरात्रागमविधिना पूजकास्तदीयं सात्वतम् ॥ 6-66-41 कक्ष्या काञ्ची । पुरीं द्वारकाम् ॥