अध्यायः 065

भीष्मेण दुर्योधनम्प्रति विश्वोपाख्यानकथनम् ॥ 1 ॥ धृतराष्ट्र उवाच । भयं मे सुमहञ्जातं विस्मयश्चैव सञ्जय । श्रुत्वा पाण्डुकुमाराणां कर्म देवैः सुदुष्करम् ॥ पुत्राणां च पराभावं श्रुत्वा सञ्जय सर्वशः । चिन्ता मे महती सूत भविष्यति कथं त्विति ॥ ध्रुवं विदुरवाक्यानि धक्ष्यन्ति हृदयं मम । तथा हि दृश्यते सर्वं दैवयोगेन सञ्जय ॥ यत्र भीष्ममुखान्सर्वाञ्शस्त्रज्ञान्योधसत्तमान् । पाण्डवानामनीकेषु योधयन्ति प्रहारिणः ॥ केनावध्या महात्मानः पाण्डुपुत्रा महाबलाः । केन दत्तवरास्तात किं वा ज्ञानं विदन्ति ते ॥ येन क्षयं न गच्छन्ति दिवि तारागणा इव । पुनःपुनर्न मृष्यामि हतं सैन्यं तु पाण्डवैः ॥ मय्येव दण्डः पतति दैवात्परमदारुणः । यथाऽवध्याः पाण्डुसुता यथा वाध्याश्च मे सुताः ॥ एतन्मे सर्वमाचक्ष्व याथातथ्येन सञ्जय । न हि पारं प्रपश्यामि दुःखस्यास्य कथञ्चन ॥ समुद्रस्येव महतो भुजाभ्यां प्रतरन्नरः । पुत्राणां व्यसनं मन्ये ध्रुवं प्राप्तं सुदारुणम् ॥ घातयिष्यति मे स्रवान्पुत्रान्भीमो न शंसयः । न हि पश्यामि तं वीरं यो मे रक्षेत्सुतान्रणे ॥ ध्रुवं विनाशः सम्प्राप्तः पुत्रामां मम सञ्जय । तस्मान्मे कारणं सूत शक्तिं चैव विशेषतः ॥ पृच्छतो वै यथातत्त्वं सर्वमाख्यातुमर्हसि । दुर्योधनश्च यच्चक्रे दृष्ट्वा स्वान्विमुखान्रणे ॥ भीष्मद्रोणौ कृपश्चैव सौबलश्च जयद्रथः । द्रौणिर्वापि महेष्वासो विकर्णो वा महाबलः ॥ निश्चयो वापि कस्तेषां तदा ह्यासीन्महात्मानाम् । विमुखेषु महाप्राज्ञ मम पुत्रेषु सञ्जय ॥ सञ्जय उवाच । श्रृणु राजन्नवहितः श्रुत्वा चैवावधारय । नैव मन्त्रकृतं किञ्चिन्नैव मायां तथाविधाम् ॥ न वै विभीषिकां काञ्चिद्राजन्कुर्वन्ति पाण्डवाः । युध्यन्ति ते यथान्यायं शक्तिमन्तश्च संयुगे ॥ धर्मेण सर्वकार्याणि जीवितादीनि भारत । आरभन्ते सदा पार्थाः प्रार्थयाना महद्यशः ॥ न ते युद्धान्निवर्तन्ते धर्मोपेता महाबलाः । श्रिया परमया युक्ता यतो धर्मस्ततो जयः ॥ तेनावध्या रणे पार्था जययुक्ताश्च पार्थिव । तव पुत्रा दुरात्मानः पापेष्वभिरताः सदा ॥ निष्ठुरा हीनकर्माणस्तेन हीयन्ति संयुगे । सुबहूनि नृशंसानि पुत्रैस्तव जनेश्वरे ॥ निकृतानीह पाण्डूनां नीचैरिव यथा नरैः । सर्वं च तदनादृत्य पुत्राणां तव किल्बिषम् ॥ धर्ममूलाः सदैवासन्पाण्डवाः पाण्डुपूर्वज । न चैतान्बहुमन्यन्ते पुत्रास्तव विशाम्पते । तस्य पापस्य सततं क्रियमाणस्य कर्मणः । साम्प्रतं सुमहद्धोरं फलं प्राप्तं जनेश्वर ॥ स त्वं भुङ्क्ष्व महाराज सपुत्रः समुहृञ्जनः । नावबुध्यसि यद्राजन्वार्यमाणः सुहृज्जनैः ॥ विदुरेणाथ भीष्मेण द्रोणेन न महात्मना । तथा मया चाप्यसकृद्वार्यमाणो न बुध्यसे ॥ वाक्यं हितं च पथ्यं च मर्त्यः पथ्यमिवौषधम् । पुत्राणां मतमास्थाय जितान्मन्यसि पाण्डवान् ॥ शृणु भूयो यथातत्त्वं यन्मां त्वं परिपृच्छसि । कारणं भरतश्रेष्ठ पाण्डवानां जयं प्रति ॥ तत्तेऽहं कथयिष्यामि यथाश्रुतमरिन्दम । दुर्योधनेन सम्पृष्ट एतमर्थं पितामहः ॥ दृष्ट्वा भ्रातॄन्रणे सर्वान्निर्जितांस्तु महारथान् । शोकसम्मूढहृदयो निशाकाले स्म कौरवः ॥ पितामहं महाप्राज्ञं विनयोपगम्य ह । यदब्रवीत्सुतस्तेऽसौ तन्मे शृणु जनेश्वर ॥ दुर्योधन उवाच । भवान्द्रोणश्च कर्णश्च कृपो द्रौणिस्तथैव च । कृतवर्मा च हार्दिक्यः काम्भोजश्च सुदक्षिणः ॥ भूरिश्रवा विकर्णश्च भगदत्तश्च वीर्यवान् । महारथाः समाख्याताः कुलपुत्रास्तनुत्यजः ॥ त्रयाणामपि लोकानां पर्याप्ता इति मे मतिः । पाण्डवानां समस्ताश्च न तिष्ठन्ति पराक्रमे ॥ तत्र मे संशयो जातस्तत्त्वमाचक्ष्व पृच्छतः । यं समाश्रित्य कौन्तेय जयन्त्यस्मान्क्षणेक्षणे ॥ भीष्म उवाच । शृणु राजन्वचो मह्यं यथा वक्ष्यामि कौरव । बहुशश्च मयोक्तोऽसि न च मे तत्त्वया कृतम् ॥ क्रियतां पाण्डवैः सार्ध समो भरतसत्तम । एतत्क्षेममहं मन्ये पृथिव्यास्तव वा विभो ॥ भुङ्क्ष्वेमां पृथिवीं राजन्भ्रातृभिः सहितः सुखी । दुर्हृदस्तापयन्सर्वान्नन्दयंश्चापि बान्धवान् ॥ न च मे क्रोशतस्तात श्रुतवानसि वै पुरा । तदिदं समनुप्राप्तं यत्पाण्डूनवमन्यसे ॥ यश्च हेतुरवध्यत्वे तेकषामक्लिष्टकर्मणाम् । तं शृणुष्व महाबाहो मम कीर्तयतः प्रभो ॥ नास्ति लोकेषु तद्भूतं भविता नो भविष्यति । यो जयेत्पाण्डवान्सर्वान्पालिताञ्छार्ङ्गधन्वना ॥ यत्तु मे कथितं तात मुनिभिर्भावितात्मभिः । पुराणगीतं धर्मज्ञ तच्छृणुष्व यथातथम् ॥ पुरा किल सुराः सर्वे ऋषयश्च समागताः । पितामहमुपासेदुः पर्वत गन्धमादने ॥ तेषां मध्ये समासीनः प्रजापतिरपश्यत । विमानं प्रज्वलद्भासा स्थितं प्रवरमम्बरे ॥ ध्यानेनावेद्य तद्ब्रह्मा कृत्वा च नियतोऽञ्जलिम् । नमश्चकार हृष्टात्मा पुरुषं परमेश्वरम् ॥ ऋषयस्त्वथ देवाश्च दृष्ट्वा ब्रह्माणमुत्थितम् । स्थिताः प्राञ्जलयः सर्वे पश्यन्तो महदद्भुतम् ॥ यथावच्च तमभ्यर्च्य ब्रह्मा ब्रह्मविदां वरः । जगाद जगतः स्रष्टा परं परमधर्मवित् ॥ विश्वावसुर्विश्वमूर्तिर्हि विश्वेविष्वक्सेनो विश्वकर्मा वशी च । विश्वेश्वरो वासुदेवोऽसि तस्मा-द्योगात्मानं देवतं त्वामुपैमि ॥ जय विश्वमहादेव जय लोकहिते रत । जय योगीश्वर विभो जय योगपरावर ॥ पद्मगर्भविशालाक्ष जय लोकेश्वरेश्वर । भूतभव्यभवन्नाथ जय सौम्यात्मजात्मज ॥ असङ्क्येयगुणाधार जय सर्वपरायण । नारायण सुदुष्पार जय शार्ङ्गधनुर्धर ॥ जय सर्वगुणोपेत विश्वमूर्ते निरामय । विश्वेश्वर महाबाहो जय लोकार्थतत्पर ॥ महोरगवराहाद्य हरिकेश विभो जय । हरिवासदिशामीश विश्ववासामिताव्यय ॥ व्यक्ताव्यक्तामितस्थान नियतेन्द्रिय सत्त्क्रिय । असङ्ख्येयात्मभावज्ञ जय गम्भीर कामद ॥ अनन्त विदित ब्रह्मन्नित्यभूतविभावन । कृतकार्य कृतप्रज्ञ धर्मज्ञ विजयावह ॥ गुह्यात्मन्सर्वयोगात्मन्स्फुटसम्भूतसम्भव । भूताद्य लोकत्त्वेश जय भूतविभावन ॥ आत्मयोगे महाभाग कल्पसङ्क्षेपतत्पर । उद्भावनमनोभाव जय ब्रह्म जयप्रिय ॥ निसर्गसर्गनिरत कामेश परमेश्वर । अमृतोद्भवसद्भाव मुक्तात्मन्विजयप्रद ॥ प्रजापतिपते देव पद्मनाभ महाबल । आत्मभूतमहाभूत सत्वात्मञ्जय सर्वदा ॥ पादौ तव धा देवी दिशो बाहु दिवं शिरः । मूर्तिस्तेऽहं सुराः कायश्चन्द्रादित्यौ च चक्षुषी ॥ बलं तपश्च सत्यं च कर्म धर्मात्मकं तव । तेजोऽग्निः पवनः श्वास आपस्ते स्वेदसम्भवाः ॥ अश्विनौ श्रवणौ नित्यं देवी जिह्वा सरस्वती । वेदाः संस्कारनिष्ठा हि त्वयीदं जगदाश्रितम् ॥ न सङ्ख्यानं परीमाणं न तेजो न पराक्रमम् । न बलं योगयोगीश जानीमस्ते परन्तप ॥ त्वद्भक्तिनिरता देव नियमैस्त्वां समाश्रिताः । अर्चयामः सदा विष्णो परमेशं महेश्वरम् ॥ ऋषयो देवगन्धर्वा यक्षराक्षसपन्नगाः । पिशाचा मानुषाश्चैव मृगपक्षिसरीसृपाः ॥ एवमादि मया सृष्टं पृथिव्यां त्वत्प्रसादजम् । पद्मनाभ विशालाक्ष कृष्ण दुःश्वप्रणाशन ॥ त्वं गतिः सर्वभूतानां त्वं नेता त्वं जगद्गुरुः । त्वत्प्रसादेन देवेश सुखिनो विबुधाः सदा ॥ पृथिवी निर्भया देव त्वत्प्रसादात्सदाऽभवत् । तस्माद्भव विशालाक्ष यदुवंशविवर्धनः ॥ धर्मसंस्थापनार्थाय दैत्यानां च बधाय च । जगतो धारणार्थाय विज्ञाप्यं कुरु मे विभो ॥ यत्तत्परमकं गुह्यं त्वत्प्रसादादिदं विभो । वासुदेव तदेतत्ते मयोद्गीतं यथातथम् ॥ सृष्ट्वा सङ्कर्षणं देवं स्वयमात्मानमात्मना । कृष्ण त्वमात्मनास्राक्षीः प्रद्युम्नं चात्मसम्भवम् ॥ प्रद्युम्नादनिरुद्धं त्वं यं विदुर्विष्णुमव्ययम् । अनिरुद्धोऽसृजन्मां वै ब्रह्माणं लोकधारिणम् ॥ वासुदेवमयः सोऽहं त्वयैवास्मि विनिर्मितः । तस्माद्याचामि लोकेश चतुरात्मानमात्मना । विभज्य भागशोत्मानं व्रज मानुषतां विभो ॥ तत्रासुरवधं कृत्वा सर्वलोकसुखाय वै । धर्मं प्राप्य यशः प्राप्य योगं प्राप्स्यति तत्त्वतः ॥ त्वां हि ब्रह्मर्षयो लोके देवाश्चामितविक्रम । तैस्तैर्हि नामभिर्युक्ता गायन्ति परमात्मकम् ॥ स्थिताश्च सर्वे त्वयि भूतसङ्घाःकृत्वाश्रयं त्वां वरदं सुबाहो । अनादिमध्यान्तमपारयोगंलोकस्य सेतुं प्रवदन्ति विप्राः ॥ ॥

इति श्रीमन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि पञ्चषष्टितमोऽध्यायः ॥

6-65-22 सापह्नवाः इति पाठे अपरिसङ्ख्यातकिल्बिषा ॥ 6-65-26 मन्यसि कमन्यसे ॥ 6-65-35 मह्यं नम ॥